यस्य नादेन संत्रस्ता देवासुरमहोरगाः । समुद्र उवाच- भो ब्रह्मन्सिधुगंगायां जातोऽयं मम पुत्रकः
जातकर्मादि संस्कारान्कुरुष्वास्य जगद्गुरो । नारद उवाच- इत्थं वदति पाथोधौ स बालः सागरात्मजः
ब्रह्माणमग्रहीत्कूर्चे विधुन्वंतं मुहुर्मुहुः । धुन्वतस्तस्य कूर्चं तु नेत्राभ्यामागमज्जलम् । कथंचिन्मुक्तकूर्चोऽथ ब्रह्मा प्रोवाच सागरम्
ब्रह्मोवाच- नेत्राभ्यां विधृतं यस्मादनेनैतज्जलं मम । तस्माज्जलंधर इति ख्यातो नाम्ना भवत्यसौ
अधुनैवैष तरुणः सर्वशस्त्रास्त्रपारगः । अवध्यः सर्वभूतानां विना रुद्रं भविष्यति
याति यत्र समुद्भूतस्तत्रेदानीं गमिष्यति
नारद उवाच- इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत् । आमंत्र्य सरितां नाथं ब्रह्मांतर्द्धानमन्वगात्
अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा । कालनेमिसुतां वृंदां तद्भार्यार्थमयाचत
ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां तां प्रददुः प्रहर्षिताः । स चापि तान्प्राप्यसुहृद्वरान्वशी शशास गां शुक्रसहायवान्बली
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जालंधरोत्पत्तिवर्णनंनाम षण्णवतितमोऽध्यायः
नारद उवाच। क्षिप्तेभ्यस्तत्रबीजेभ्यो वनस्पत्यस्त्रयोभवन् । धात्री च मालती चैव तुलसी च नृपोत्तम
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता । गौरीभवा च तुलसी तमः सत्त्व रजोगुणाः
स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप । उत्तस्थौ संभ्रमाद्वृंदारूपातिशयमोहितः
ददर्श तास्तदा मोहात्कामासक्तेन चेतसा । तं चापि तुलसीधात्र्यौ रागेणैवावलोकताम्
यच्चलक्ष्म्यापुराबीजंमाययैवसमर्पितम् । तस्मात्तदुद्भवानारीतस्मिन्नीर्ष्यायुताभवत्
अतःसाबर्बरीत्याख्यामाधवस्यातिगर्हिता । धात्रीतुलस्यैतद्रा गात्तस्यप्रीतिप्रदेसदा
ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु । वैकुंठमगमद्धृष्टः सर्वदेवनमस्कृतः
कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते । तुलसीमूलदेशे तु प्रीतिदा सा यतः स्मृता
तुलसीकाननं राजन्गृहे यस्यावतिष्ठते । तद्गृहं तीर्थरूपं तु नायांति यमकिंकराः
सर्वपापहरं पुण्यं कामदं तुलसीवनम् । रोपयंति नरश्रेष्ठा न तेपश्यंति भास्करिम्
दर्शनं नर्मदायास्तु गंगास्नानं तथैव च । तुलसीवनसंसर्गः सममेतत्त्रयं स्मृतम्
रोपणात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम् । तुलसी दहते पापं वाङ्मनःकाय संचितम्
तुलसीमंजरीभिर्यः कुर्याद्धरिहरार्चनम् । न स गर्भगृहं याति मुक्तिभागी न संशयः
पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा । वासुदेवादयो देवास्तिष्ठंति तुलसीदले
तुलसीमंजरीयुक्तो यदि प्राणान्विमुंचति । विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम
तुलसीमृत्तिकालिप्तो यस्तु प्राणान्विमुचंति । यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि
तुलसीकाष्ठजं यस्तु चंदनं धारयेन्नरः । तद्देहं नस्पृशेत्पापं क्रियमाणमपीह यत्
तुलसीविपिनच्छाया यत्र यत्र भवेन्नृप । तत्र श्राद्धं प्रकर्त्तव्यं पितॄणां दत्तमक्षयम्
धात्रीछायासु यः कुर्यात्पिंडदानं नृपोत्तम । तृप्तिं च यांति पितरस्तस्य ये नरके स्थिताः
मूर्ध्नि पाणौ मुखे चैव देहे च नृपसत्तम । धत्ते धात्रीफलं यस्तु स विज्ञेयो हरिः स्वयम्