तीर्थमुत्सादयंति स्म तीर्थकाका दुरासदाः। विना विप्रं निषादेषु भक्षय त्वमलक्षितं
इत्युक्तः प्रययौ पक्षी भक्षयामास तांस्ततः। अलक्ष्यभावो विप्रोपि गिलितस्तेन पक्षिणा
स तस्य गलके गाढं लालगीति द्विजस्तदा। वमितुं गिलितुं चापि न शशाक द्विजोत्तमः
गत्वाथ पितरं प्राह किमेतदिति मे पितः। लग्नं मे गलके सत्वं प्रतिकर्तुं न शक्नुयां
तस्य तद्वचनं श्रुत्वा कश्यपस्तमुवाच ह। मयोक्तं ते पुरा वत्स ब्राह्मणोयं न बुध्यसे
इत्युक्त्वा च मुनिर्धीमान्द्विजं प्राह स धार्मिकः। आगच्छ त्वं ममासन्नं हितं ते प्रवदाम्यहं
तमुवाच तदा विप्रः कश्यपं मुनिपुंगवम्। ममैते सुहृदो नित्यं सर्वे संबंधिनः प्रियाः
श्वशुराः स्यालकाश्चाप्तास्सबालाश्च तथापरे। एतैः सह प्रयास्यामि निरयं चापि वा शिवम्
तस्य तद्वचनं श्रुत्वा विस्मितः कश्यपोऽब्रवीत्। द्विजानां च कुले जातश्चांडालैः पतितो भवान्
पुरुषास्ते प्रतिष्ठंते घोरे च निरये ध्रुवम्। चिराय निष्कृतिस्तेषां नैवास्तीह कथंचन
सर्वांश्चैव दुराचारांश्चांडालान्पापकारिणः। दोषांस्त्यक्त्वा नरः पश्चात्सुखी भवति नान्यथा
अज्ञानाद्यदि वा मोहात्कृत्वा पापं सुदारुणं। ततो धर्मं चरेद्यस्तु स गच्छेत्परमां गतिं
पापकृन्न चरेद्धर्मं पापे कुर्यान्मतिं पुनः। शिलानावं यथारूढः सागरे संनिमज्जति
कृत्वा सर्वाणि पापानि तथा दुर्गतिसंचयं। उपशांतो भवेत्पश्चात्तं दोषं शमयिष्यति
तमुवाच महाप्राज्ञं द्विजं मुनिवरोत्तमम्। यदिमां न जहातीह खगः सर्वांश्च बांधवान्
ततः प्राणं च त्यक्ष्यामि खगे मर्मावघातिनि। नोचेत्त्यजतु मे बंधून्प्रतिज्ञा मे दृढात्मनः
ततस्तार्क्ष्यमुवाचेदं मुनि र्ब्रह्मवधे भयात्। उद्वमैतान्सविप्रांश्च म्लेछानेतान्समंततः
वनेषु पर्वतान्तेषु दिक्षु तान्पतगेश्वर। उद्ववाम ततः शीघ्रं दोषज्ञः पितुराज्ञया
ततः सर्वेऽभवन्व्यक्ता अकेशाः श्मश्रुवर्जिताः। यवना भोजनप्रीताः किंचिच्छ्मश्रुयुताश्च ये
अग्नौ च नग्नकाः पापा दक्षिणस्यामवाचकाः। घोराः प्राणिवधे प्रीता दुरात्मानो गवाशिनः
नैर्ऋते कुवदाः पापा गोब्राह्मणवधोद्यताः। खर्पराः पश्चिमे पूर्वे निवसंति च दारुणाः
वायव्यां च तुरुष्काश्च श्मश्रुपूर्णा गवाशिनः। अश्वपृष्ठसमारूढाः प्रयुद्धेष्वनिवर्तिनः
उत्तरस्यां च गिरयो म्लेच्छाः पर्वतवासिनः। सर्वभक्षा दुराचाराः वधबंधरताः किल
ऐशान्यां निरयास्संति कर्तॄणां वृक्षवासिनः। एते म्लेच्छा स्थिता दिक्षु घोरास्ते शस्त्रपाणयः
येषां च स्पर्शमात्रेण सचेलो जलमाविशेत्। एतेषां च कलौ देशेप्यकाले धर्मवर्जिते
संस्पर्शं च प्रकुर्वंति वित्तलोभात्समंततः। म्लेच्छांस्तान्मोचयित्वा तु क्षुधया परिपीडितः
पुनराह द्विजस्तात क्षुधा मे बाधतेतराम्। अवदद्गरुडं तत्र कश्यपः कृपया द्रुतम्
तिष्ठंतौ विपुलौ तत्र जिघांसू गजकच्छपौ। अप्रमेयौ महासत्वौ सागरस्यैकदेशतः
तावप्सु च द्रुतं वत्स क्षुधां ते वारयिष्यतः। स पितुर्वचनं श्रुत्वा तत्र गत्वाभिपद्य तौ
नखैर्भित्वा कूर्मगजौ महासत्वौ महाजवः। खमुत्पपात तौ धृत्वा विद्युद्वेगो महाबलः