ततो विप्रमुखादग्निः प्रजज्वाल समंततः। ज्वाला तु सकुटुबांतामदहच्च गृहं वसु
हाहा कृत्वा समुत्थाय विललाप तदा द्विजः। विलापांते च जिज्ञासा समारब्धा च तेन हि
कुतश्चाग्निः समुद्भूतो गृहे दाहः कथं मम। ततः खे तमुवाचेदं तेजस्ते ब्राह्मणस्य च
कथिते तद्यथावृत्ते ब्राह्मणो विस्मयं गतः। विमृश्यार्थमुवाचेदं पुनः खेऽस्य हितं वचः
विप्रणष्टं सुतेजस्ते तस्माद्धर्मचरो भव। ततो मुनिवरान्गत्वा पप्रच्छात्महितं द्विजः
तमूचुर्मुनयः सर्वे दानधर्मं समाचर। ऋषय ऊचुः-। पूयंते सर्वपापेभ्यो ब्राह्मणानि यमैर्व्रतैः
नियमान्शास्त्रदृष्टांश्च पूतत्वार्थमुपाचर। चांद्रायणांश्च कृच्छ्रांश्च तप्तकृच्छ्रान्पुनः पुनः
प्राजापत्यांश्च दिव्यांश्च दोषशोषाय सत्वरम्। गच्छ तीर्थानि पूतानि गोविंदाराधनं कुरु
क्षयमेष्यंति पापानि न चिरेण समंततः। पुण्यतीर्थप्रभावाच्च गोविंदस्य प्रभावतः
क्षयमेष्यंति पापानि ब्रह्मत्वं प्राप्स्यते भवान्। शृणु तात यथावृत्तं कथयामः पुरातनम्
आहारार्थी पुरा वत्स गरुडो विनतासुतः। पतंगोपि बहिः साक्षादंडान्निस्सृत्य शावकः
क्षुधार्थी मातरं प्राह भक्ष्यं मे दीयतामिति। ततः पर्वतसंकाशं गरुडं च महाबलम्
दृष्ट्वा माता महाभागा तनयं हृष्टमानसा। क्षुधां ते बाधितुं पुत्र न शक्नोमि समंततः
तव तातस्तपस्तेपे लौहित्यस्योत्तरे तटे। कश्यपो नाम धर्मात्मा साक्षाल्लोकपितामहः
तत्र गच्छस्व पितरं पृच्छ कामं यथा तव। अस्योपदेशतस्तात क्षुधा ते शममेष्यति
ततो मातुर्वचः श्रुत्वा वैनतेयो महाबलः। अगमत्पितुरभ्याशं समुहूर्तान्मनोजवः
दृष्ट्वा तातं मुनिश्रेष्ठं ज्वलंतमिव पावकम्। प्रणम्य शिरसा वाक्यमुवाच पितरं खगः
भक्षार्थी समनुप्राप्तः सुतोहं ते महात्मनः। क्षुधया पीडितो नाथ भक्ष्यं मे दीयतां प्रभो
ततो ध्यानं समालभ्य ज्ञात्वा तं विनतासुतं। पुत्रस्नेहाद्वचश्चेदं प्रोवाच मुनिसत्तमः
अनेकशतसाहस्रा निषादाः सरितांपतेः। तीरे तिष्ठंति पापिष्ठास्तान्संभक्ष्य सुखी भव1.47.
तीर्थमुत्सादयंति स्म तीर्थकाका दुरासदाः। विना विप्रं निषादेषु भक्षय त्वमलक्षितं
इत्युक्तः प्रययौ पक्षी भक्षयामास तांस्ततः। अलक्ष्यभावो विप्रोपि गिलितस्तेन पक्षिणा
स तस्य गलके गाढं लालगीति द्विजस्तदा। वमितुं गिलितुं चापि न शशाक द्विजोत्तमः
गत्वाथ पितरं प्राह किमेतदिति मे पितः। लग्नं मे गलके सत्वं प्रतिकर्तुं न शक्नुयां
तस्य तद्वचनं श्रुत्वा कश्यपस्तमुवाच ह। मयोक्तं ते पुरा वत्स ब्राह्मणोयं न बुध्यसे
इत्युक्त्वा च मुनिर्धीमान्द्विजं प्राह स धार्मिकः। आगच्छ त्वं ममासन्नं हितं ते प्रवदाम्यहं
तमुवाच तदा विप्रः कश्यपं मुनिपुंगवम्। ममैते सुहृदो नित्यं सर्वे संबंधिनः प्रियाः
श्वशुराः स्यालकाश्चाप्तास्सबालाश्च तथापरे। एतैः सह प्रयास्यामि निरयं चापि वा शिवम्
तस्य तद्वचनं श्रुत्वा विस्मितः कश्यपोऽब्रवीत्। द्विजानां च कुले जातश्चांडालैः पतितो भवान्
पुरुषास्ते प्रतिष्ठंते घोरे च निरये ध्रुवम्। चिराय निष्कृतिस्तेषां नैवास्तीह कथंचन