मंत्रव्रतविहीनश्च वेदविद्यागुणैरपि। यज्ञदानादिभिर्मुक्तो ब्राह्मणश्चाधमाधमः
यज्ञार्थका देवलका नाक्षत्रा ग्रामयाजकाः। परदाररता नित्यं पंचैते ब्राह्मणाधमाः
मंत्रसंस्कारहीनाश्च शुचिसंयमवर्जिताः। मोघाशिनो दुरात्मानो ब्राह्मणाश्चाधमाधमाः
अपि स्तेयरता मूढाः सर्वधर्मविवर्जिताः। उन्मार्गगामिनो नित्यं ब्राह्मणाश्चाधमाधमाः
श्राद्धादिकर्मरहिता गुरुसेवाविवर्जिताः। अमंत्रा भिन्नमर्यादा एते सर्वाधमाधमाः
असंभाष्या इमे दुष्टास्सर्वे निरयगामिनः। अमेध्यास्ते दुराचारा अपूज्याश्च समंततः
खड्गोपजीविकाः प्रेष्या गोवाहनरता द्विजाः। कारुवृत्युपजीवाश्च गणवार्द्धषिकाश्च ये
बालापण्याभिचाराश्च अंत्यजाश्रयमाश्रिताः। कृतघ्नाश्च गुरुघ्नाश्च एते सर्वाधमाः स्मृताः
ये चैवान्ये हताचाराः पाषंडा धर्मनिंदकाः। दूषकादेव भेदानामेते ब्रह्मद्विषो द्विजाः
तथापि ब्राह्मणश्चैव न हंतव्यः कदाचन। एनं हत्वा द्विजश्रेष्ठ ब्रह्महा पुरुषो भवेत्
अंत्यजातिषु म्लेच्छेषु तथा चांडालजातिषु। पतितो वान्नयोनिभ्यां न हंतव्यः कथंचन
सर्वजातिस्त्रियं गत्वा सर्वाभक्ष्यस्य भक्षणात्। द्विजत्वं न विनश्येत पुण्याद्विप्रो भवेत्पुनः
नारद उवाच-। ईदृशं दुष्कृतं कृत्वा पश्चात्पुण्यं समाचरेत्। कां गतिं यात्यसौ विप्रः सर्वलोकपितामह
ब्रह्मोवाच-। कृत्वा सर्वाणि पापानि पश्चाद्यस्तु जितेंद्रियः। मुच्यते सर्वपापेभ्यः पुनर्ब्रह्मत्वमर्हति
शृणु पुत्र कथां रम्यां विचित्रां च पुरातनीम्। कस्यचिद्ब्राह्मणस्यापि यौवनाढ्यः सुतोऽभवत्
ततो यौवनसंपत्तेर्मोहाच्च पूर्वकर्मणः। चांडालीमगमत्सद्यस्तस्याः प्रियतरोऽभवत्
तस्यामुत्पादितास्तेन पुत्रा दुहितरस्तथा। स्वकुटुंबं परित्यज्य गृहे तस्याश्चिरं स्थितः
अन्या भक्ष्यं न चाश्नाति घृणया च सुरां त्यजेत्। तमुवाच सदा सा च भक्षयान्यतरां सुराम्
तामुवाच तदा शौचं गदितुं नार्हसि प्रिये। उत्कारो जायते तस्याः श्रवणात्सततं मम
एकदा स मृगान्वेषात्श्रांतः सुप्तो गृहे दिवा। गृहीत्वा सा सुरां तस्य हसित्वा च मुखे ददौ
ततो विप्रमुखादग्निः प्रजज्वाल समंततः। ज्वाला तु सकुटुबांतामदहच्च गृहं वसु
हाहा कृत्वा समुत्थाय विललाप तदा द्विजः। विलापांते च जिज्ञासा समारब्धा च तेन हि
कुतश्चाग्निः समुद्भूतो गृहे दाहः कथं मम। ततः खे तमुवाचेदं तेजस्ते ब्राह्मणस्य च
कथिते तद्यथावृत्ते ब्राह्मणो विस्मयं गतः। विमृश्यार्थमुवाचेदं पुनः खेऽस्य हितं वचः
विप्रणष्टं सुतेजस्ते तस्माद्धर्मचरो भव। ततो मुनिवरान्गत्वा पप्रच्छात्महितं द्विजः
तमूचुर्मुनयः सर्वे दानधर्मं समाचर। ऋषय ऊचुः-। पूयंते सर्वपापेभ्यो ब्राह्मणानि यमैर्व्रतैः
नियमान्शास्त्रदृष्टांश्च पूतत्वार्थमुपाचर। चांद्रायणांश्च कृच्छ्रांश्च तप्तकृच्छ्रान्पुनः पुनः
प्राजापत्यांश्च दिव्यांश्च दोषशोषाय सत्वरम्। गच्छ तीर्थानि पूतानि गोविंदाराधनं कुरु
क्षयमेष्यंति पापानि न चिरेण समंततः। पुण्यतीर्थप्रभावाच्च गोविंदस्य प्रभावतः
क्षयमेष्यंति पापानि ब्रह्मत्वं प्राप्स्यते भवान्। शृणु तात यथावृत्तं कथयामः पुरातनम्