प्रणमेच्च हरेः पादौ स गच्छेदपवर्गिताम्। वासुदेवस्य स्तोत्राणि मुखे चापि कथोत्तमा
पंकस्य लवमात्रं तु तस्य देहे न तिष्ठति। वेदशास्त्रावगाहेन त्रिस्रोतः स्नानजं फलम्1.46.
धर्मपाठकृतां लोके यज्ञकोटिफलं लभेत्। एवं विप्रगुणान्वक्तुं न शक्नोमि द्विजोत्तम
विश्वरूपश्च को देही समूर्तो हरिरेव च। यस्य शापाद्विनाशः स्यादायुर्विद्या यशो धनम्
वरदानात्समायांति सर्वाः संपत्तयस्तथा। विष्णुर्ब्रह्मण्यतामेति सदा विप्र प्रसादतः
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च। जगद्धिताय कृष्णाय गोविंदाय नमो नमः
मंत्रेणैवं हरिं यस्तु पूजयेत्सततं नरः। प्रसादी च हरिस्तस्य विष्णुसायुज्यतां व्रजेत्
य इदं शृणुयात्पुण्यमाख्यानं धर्मविग्रहम्। तस्य पापं क्षयं याति जन्मजन्मकृतं च यत्
यः पठेत्पाठयेद्वापि उपदेष्टा जनस्य च। न तस्य पुनरावृत्तिः स्वर्गमक्षयमश्नुते
धनं धान्यं लभेदत्र राज्यभोगानरोगिताम्। सत्सुतं च शुभां कीर्तिं देववद्रमते दिवि
नारद उवाच-। तव प्रसादतो ज्ञातो विप्रः पुण्यतमश्च यः। यथा जानामि देवेश क्रियया ब्राह्मणाधमम्
ब्रूहि शीघ्रं सुरश्रेष्ठ यदि प्रीतिं मयीच्छसि। ब्रह्मोवाच-। स्नानैर्दशविधैर्मुक्तस्तथैव तर्पणादिभिः
संध्यासंयमहीनश्च स एव ब्राह्मणाधमः। देवपूजाव्रतैर्मुक्तो वेदविद्यादिभिस्तथा
सत्यशौचादिभिश्चैव योगज्ञानाग्नितर्पणैः। पंचस्नानानानि विप्राणां कीर्तितानि महर्षिभिः
आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यमेव च। आग्नेयं भस्मना स्नानमद्भिर्वारुणमुच्यते
आपोहिष्ठेति वै ब्राह्मं वायव्यं गोरजः स्मृतम्। अद्भिरातपवर्षाभिर्दिव्यं स्नानमुदाहृतम्
एतैस्तु मंत्रतः स्नानात्तीर्थानां फलमाप्नुयात्। तुलसीपत्रसंलग्नं सालग्रामशिलांबु च
गवां शृंगोदकं चैव विप्रपादोदकं च यत्। गुरूणामेव मुख्यानां पूतात्पूतमिति स्मृतिः
त्याग तीर्थादिभिर्यज्ञैर्व्रतहोमादिभिस्तथा। यत्फलं लभते धीरः स्नानैरेतैस्तु तत्फलम्
तर्पणैश्च विनिर्मुक्तः पितॄणामेव नित्यशः। पितृहा नरकं याति संध्याहीनस्तु विप्रहा
मंत्रव्रतविहीनश्च वेदविद्यागुणैरपि। यज्ञदानादिभिर्मुक्तो ब्राह्मणश्चाधमाधमः
यज्ञार्थका देवलका नाक्षत्रा ग्रामयाजकाः। परदाररता नित्यं पंचैते ब्राह्मणाधमाः
मंत्रसंस्कारहीनाश्च शुचिसंयमवर्जिताः। मोघाशिनो दुरात्मानो ब्राह्मणाश्चाधमाधमाः
अपि स्तेयरता मूढाः सर्वधर्मविवर्जिताः। उन्मार्गगामिनो नित्यं ब्राह्मणाश्चाधमाधमाः
श्राद्धादिकर्मरहिता गुरुसेवाविवर्जिताः। अमंत्रा भिन्नमर्यादा एते सर्वाधमाधमाः
असंभाष्या इमे दुष्टास्सर्वे निरयगामिनः। अमेध्यास्ते दुराचारा अपूज्याश्च समंततः
खड्गोपजीविकाः प्रेष्या गोवाहनरता द्विजाः। कारुवृत्युपजीवाश्च गणवार्द्धषिकाश्च ये
बालापण्याभिचाराश्च अंत्यजाश्रयमाश्रिताः। कृतघ्नाश्च गुरुघ्नाश्च एते सर्वाधमाः स्मृताः
ये चैवान्ये हताचाराः पाषंडा धर्मनिंदकाः। दूषकादेव भेदानामेते ब्रह्मद्विषो द्विजाः
तथापि ब्राह्मणश्चैव न हंतव्यः कदाचन। एनं हत्वा द्विजश्रेष्ठ ब्रह्महा पुरुषो भवेत्