एवं विप्रो न जानाति स एव ब्राह्मणाधमः। न तस्य क्षीयते पाप्मा भवेद्भूरिप्रतिग्रहः
इमां यो वेत्ति गायत्रीं सर्वबीजसमन्विताम्। स वेत्ति चतुरो वेदान्योगज्ञानं जपत्रयम्
य एनां नैव जानाति स शूद्रात्परतः स्मृतः। तस्यापूतस्य विप्रस्य न देयं पितृपार्वणम्
न स्नानफलदः कश्चित्सर्वं च निष्फलं भवेत्। विद्या वित्तं तथा जन्म द्विजत्वं कारणं यतः
निष्फलं सकलं तस्य मेध्यं पुष्पं यथाऽशुचौ। चतुर्वेदाश्च गायत्री पुरा वै तुलिता मया
चतुर्वेदात्परा गुर्वी गायत्री मोक्षदा स्मृता। दशभिर्जन्मजनितं शतेन च पुरा कृतम्
त्रियुगं तु सहस्रेण गायत्री हंति किल्बिषम्। गायत्रीमक्षमालायां सायं प्रातश्च यो जपेत्
चतुर्णामपि वेदानां फलं प्राप्नोत्यसंशयम्। त्रिसंध्यं यो जपेन्नित्यं गायत्रीं हायनं द्विजः
तस्य पापं क्षयं याति जन्मकोटिसमुद्भवम्। गायत्र्युच्चारमात्रेण पापकूटात्पुनाति च
स्वर्गापवर्गमाप्नोति जप्त्वा नित्यं द्विजोत्तमः। वासुदेवस्य मंत्राणि जपेद्यस्तु दिनेदिने
प्रणमेच्च हरेः पादौ स गच्छेदपवर्गिताम्। वासुदेवस्य स्तोत्राणि मुखे चापि कथोत्तमा
पंकस्य लवमात्रं तु तस्य देहे न तिष्ठति। वेदशास्त्रावगाहेन त्रिस्रोतः स्नानजं फलम्1.46.
धर्मपाठकृतां लोके यज्ञकोटिफलं लभेत्। एवं विप्रगुणान्वक्तुं न शक्नोमि द्विजोत्तम
विश्वरूपश्च को देही समूर्तो हरिरेव च। यस्य शापाद्विनाशः स्यादायुर्विद्या यशो धनम्
वरदानात्समायांति सर्वाः संपत्तयस्तथा। विष्णुर्ब्रह्मण्यतामेति सदा विप्र प्रसादतः
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च। जगद्धिताय कृष्णाय गोविंदाय नमो नमः
मंत्रेणैवं हरिं यस्तु पूजयेत्सततं नरः। प्रसादी च हरिस्तस्य विष्णुसायुज्यतां व्रजेत्
य इदं शृणुयात्पुण्यमाख्यानं धर्मविग्रहम्। तस्य पापं क्षयं याति जन्मजन्मकृतं च यत्
यः पठेत्पाठयेद्वापि उपदेष्टा जनस्य च। न तस्य पुनरावृत्तिः स्वर्गमक्षयमश्नुते
धनं धान्यं लभेदत्र राज्यभोगानरोगिताम्। सत्सुतं च शुभां कीर्तिं देववद्रमते दिवि
नारद उवाच-। तव प्रसादतो ज्ञातो विप्रः पुण्यतमश्च यः। यथा जानामि देवेश क्रियया ब्राह्मणाधमम्
ब्रूहि शीघ्रं सुरश्रेष्ठ यदि प्रीतिं मयीच्छसि। ब्रह्मोवाच-। स्नानैर्दशविधैर्मुक्तस्तथैव तर्पणादिभिः
संध्यासंयमहीनश्च स एव ब्राह्मणाधमः। देवपूजाव्रतैर्मुक्तो वेदविद्यादिभिस्तथा
सत्यशौचादिभिश्चैव योगज्ञानाग्नितर्पणैः। पंचस्नानानानि विप्राणां कीर्तितानि महर्षिभिः
आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यमेव च। आग्नेयं भस्मना स्नानमद्भिर्वारुणमुच्यते
आपोहिष्ठेति वै ब्राह्मं वायव्यं गोरजः स्मृतम्। अद्भिरातपवर्षाभिर्दिव्यं स्नानमुदाहृतम्
एतैस्तु मंत्रतः स्नानात्तीर्थानां फलमाप्नुयात्। तुलसीपत्रसंलग्नं सालग्रामशिलांबु च
गवां शृंगोदकं चैव विप्रपादोदकं च यत्। गुरूणामेव मुख्यानां पूतात्पूतमिति स्मृतिः
त्याग तीर्थादिभिर्यज्ञैर्व्रतहोमादिभिस्तथा। यत्फलं लभते धीरः स्नानैरेतैस्तु तत्फलम्
तर्पणैश्च विनिर्मुक्तः पितॄणामेव नित्यशः। पितृहा नरकं याति संध्याहीनस्तु विप्रहा