तस्माद्गुदं समाकुंच्य प्राणेन सह योजयेत्। पूरकेण तदा पुत्र कृत्वा कुंभकमुत्तमं
प्राणायामत्रयं कृत्वा गायत्रीं संजपेदिद्वजः। अनेनैव जपेद्यस्तु महापातकसंचयः
सकृदुच्चारितेनैव क्षयं यात्युपपातकं। प्रतिवर्णस्वरं ज्ञात्वा विन्यस्येद्यः कलेवरे
स जनो ब्रह्मतामेति फलं वक्तुं न शक्नुमः। प्रत्यक्षरस्य यद्दैवं शृणु पुत्र वदाम्यहं
यज्जप्त्वा च पुनर्मातुस्तनं न पिबति द्विजः। आग्नेयं प्रथमं ज्ञेयं वायव्यं तु द्वितीयकम्
तृतीयं सूर्यदैवत्यं चतुर्थं वैयतं तथा। पंचमं यमदैवत्यं वारुणं षष्ठमुच्यते
सप्तमं बार्हस्पत्यं तु पार्जन्यं चाष्टमं विदुः। ऐन्द्रं च नवमं ज्ञेयं गांधर्वं दशमं तथा
पौष्णमेकादशं विद्धि मैत्रं द्वादशकं स्मृतं। त्वाष्ट्रं त्रयोदशं ज्ञेयं वासवं तु चतुर्दशं
मारुतं पंचदशकं सौम्यं षोडशकं स्मृतं। आंगिरसं सप्तदशं वैश्वदेवमतः परं
आश्विनं चैकोनविंशं प्राजापत्यं तु विंशकं। सर्वदेवमयं ज्ञेयमेकविंशकमक्षरं
रौद्रं द्वाविंशकं ज्ञेयं ब्राह्मं ज्ञेयमतः परं। वैष्णवं तु चतुर्विंशमेता अक्षरदेवताः
जपकाले तु संचिंत्य तासु सायुज्यतां व्रजेत्। ज्ञात्वा तु देवतास्तस्य वाङ्मयं विदितं भवेत्
सर्वपापविनिर्मुक्तो ब्रह्मणः पदवीं व्रजेत्। गायत्रीं विन्यसेत्पूर्वं शरीरे चात्मनो बुधः
चतुर्विंशति स्थानेषु आपादमस्तकेषु च। तत्कारं विन्यसेद्योगी पदांगुष्ठे विचक्षणः
सकारं गुल्फदेशे तु विकारं जंघयोर्न्यसेत्। तुकारं जानुमध्ये च वकारं चोरुदेशतः
रेकारं गुह्यदेशे तु णिकारं वृषणे न्यसेत्। यंकारं कटिदेशे तु भकारं नाभिमण्डले
गोकारं जठरे न्यस्य देकारं स्तनयोर्न्यसेत्। वकारं हृदये न्यस्य स्यकारं करदेशतः
धीकारं वदने न्यस्य मकारं तालुके न्यसेत्। हिकारं नासिकाग्रे च धिकारं चक्षुषोर्न्यसेत्
योकारं तु भ्रुवोर्मध्ये योकारं च ललाटके। नःकारं तु मुखे पूर्वे प्रकारं दक्षिणे मुखे
चोकारं पश्चिमे न्यस्य दकारं चोत्तरे न्यसेत्। यात्कारं मूर्ध्नि विन्यस्य सर्वव्यापी व्यवस्थितः
एतान्विन्यस्य धर्मात्मा ब्रह्मविष्णुशिवात्मकः। महायोगी महाज्ञानी परं निर्वाणकं व्रजेत्
संध्याकाले पुनर्न्यासं शृणु त्वं तद्यथार्थतः। ॐभूरिति हृदये न्यस्य ॐभुवश्शिरसि न्यसेत्
ॐस्वः शिखायै तत्सवितुर्वरेण्यमिति कलेवरे। ॐभर्गो देवस्य धीमहीति नेत्रयोः
ॐधियो यो नः प्रचोदयादिति करयोर्न्यसेत्। ॐआपो ज्योती रसोमृतं ब्रह्म भूर्भुवःस्वरोम्। इत्युदकस्पर्शमात्रेण पापात्पूतो व्रजेद्धरिं
ॐभूः ॐभुवः ॐस्वः ॐमहः ॐजनः ॐतपः ॐसत्यम्। ॐतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐआपो ज्योती रसोमृतं ब्रह्म भूर्भुवःस्वरोम्। इति सव्याहृति सप्रणवां द्वादश ॐकारां संध्याकाले कुंभकेन वारत्रयं जप्त्वा। सूर्योपस्थाने सावित्रीं चतुर्विंशत्यक्षरां जप्त्वा। महाविद्याधिको भवति ब्रह्मत्वं लभते
षट्कुक्षिलक्षणां पुत्र गायत्रीं शृणु यत्नतः। यां ज्ञात्वा तु परं ब्रह्मस्थानं गच्छति वै द्विजः
ॐतत्सवितुर्वरेणियं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
अथ गायत्री पंचशीर्षलक्षणम्। ॐभूः ॐभुवः ॐस्वः ॐमहः ॐजनः ॐतपः ॐसत्यम्। ॐतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
सव्याहृतिं तु गायत्रीं पुनर्न्यासं तु कारयेत्। सर्वपापविनिर्मुक्तो विष्णुसायुज्यतां व्रजेत्
ॐभूः पादाभ्याम् ॐभुवः जानुभ्याम् ॐस्वः कट्याम् ॐमहः नाभौ ॐजनः हृदये न्यसेत् ॐतपः करयोः ॐसत्यं ललाटे। ॐतत्सवितुर्वरेणियं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। इति शिखायाम्