शुक्लवर्णात्वग्निमुखा विश्वामित्र ऋषिस्तथा। ब्रह्मणश्शिरआरूढा शिखा विष्णु हृदि स्थिता
उपनयने नियोगः स्यात्सांख्यायन सगोत्रजा। त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षि संस्थिता
चतुर्विंशतिस्थाने च पादादौ मस्तकांतके। चतुर्विंशत्यक्षरं न्यस्य ब्रह्मलोकं स विंदति
प्रत्यर्णदेवतां ज्ञात्वा विष्णुसायुज्यमाप्नुयात्। अपरं च प्रवक्ष्यामि गायत्र्या लक्षणं ध्रुवं
सप्तपंच तथा ब्रह्म यजुरष्टादशाक्षरम्। ज्वलनादिहकारांतं जले स्थित्वा शतं जपेत्
उपपातककोट्या तु तथातिपातकैरपि। ब्रह्महत्यादिभिः पापैर्मुक्ता यांति ममालयं
ॐअग्नेर्वाक्पुंसि यजुर्वेदेन जुष्टात्सोमं पिब स्वाहा। विष्णुमंत्रं महामंत्रं तथा माहेश्वरस्य च
देवीसूर्यगणेशानां तथा क्रतुभुजां सुत। यस्य कस्य कुले जातो गुणवानेव तैर्गुणैः
साक्षाद्ब्रह्ममयो विप्रः पूजनीयः प्रयत्नतः। दानं दद्याच्च विधिवत्सदा पर्वणि पर्वणि
अक्षयं लभते दाता जन्मकोटिशतान्प्रति। स्वाध्यायनिरतो विप्रो यः पठेत्पाठयेत्परान्
धर्मं च श्रावयेल्लोके सदाचारं श्रुतिं स्मृतिं। पुराणसंहितां नूनं तथैव धर्मसंहितां
श्रावयित्वा तु लोकेषु श्रावयित्वा द्विजातिषु। उर्व्यां विष्णुसमः सोपि पूजनीयो नरैः सुरैः1.46.
यद्बलं चाक्षयं तस्य तीर्थभूतानघस्य च। समानमर्चनं कृत्वा नरो यात्यच्युतालयं
कदाचित्क्रियते पापं विप्रः पापैर्न लिप्यते। चांडालस्य गृहे निष्ठौ भास्करज्वलनौ यथा
याजनाध्यापनाद्यौनात्तथैवासत्प्रतिग्रहात्। विप्राणां न भवेद्दोषो ज्वलनार्कसमा द्विजाः
तान्प्रतिग्रहजान्दोषान्प्राणायाम व्यवस्थिताः। नाशयंतीह पापानि वायुर्मेघमिवांबरे
गायत्रीं यो जपेन्नित्यं प्राणायामसमन्वितां। प्रत्यक्षरामरैर्युक्तां स्वाङ्गे विन्यस्य तामपि
सर्वपापाद्विनिर्मुक्तो जन्मकोटिकृतादपि। ब्रह्मणः पदवीं प्राप्य स गच्छेत्प्रकृतेः परम्
प्राणायामयुतां तस्माद्गायत्रीं जप नारद। नारद उवाच-। प्राणायामाः कथं ब्रह्मन्प्रत्येकाक्षरदेवताः
तेषां न्यासं तथांगेषु वद तात यथाक्रमम्। ब्रह्मोवाच-। गुददेशेत्वपानस्याद्धृदि प्राणोस्ति देहिनः
तस्माद्गुदं समाकुंच्य प्राणेन सह योजयेत्। पूरकेण तदा पुत्र कृत्वा कुंभकमुत्तमं
प्राणायामत्रयं कृत्वा गायत्रीं संजपेदिद्वजः। अनेनैव जपेद्यस्तु महापातकसंचयः
सकृदुच्चारितेनैव क्षयं यात्युपपातकं। प्रतिवर्णस्वरं ज्ञात्वा विन्यस्येद्यः कलेवरे
स जनो ब्रह्मतामेति फलं वक्तुं न शक्नुमः। प्रत्यक्षरस्य यद्दैवं शृणु पुत्र वदाम्यहं
यज्जप्त्वा च पुनर्मातुस्तनं न पिबति द्विजः। आग्नेयं प्रथमं ज्ञेयं वायव्यं तु द्वितीयकम्
तृतीयं सूर्यदैवत्यं चतुर्थं वैयतं तथा। पंचमं यमदैवत्यं वारुणं षष्ठमुच्यते
सप्तमं बार्हस्पत्यं तु पार्जन्यं चाष्टमं विदुः। ऐन्द्रं च नवमं ज्ञेयं गांधर्वं दशमं तथा
पौष्णमेकादशं विद्धि मैत्रं द्वादशकं स्मृतं। त्वाष्ट्रं त्रयोदशं ज्ञेयं वासवं तु चतुर्दशं
मारुतं पंचदशकं सौम्यं षोडशकं स्मृतं। आंगिरसं सप्तदशं वैश्वदेवमतः परं
आश्विनं चैकोनविंशं प्राजापत्यं तु विंशकं। सर्वदेवमयं ज्ञेयमेकविंशकमक्षरं