भुंजंति चासुरास्तत्र प्रेता दैत्याश्च राक्षसाः। तस्माद्ब्राह्मणमाहूय तेषु कर्माणि कारयेत्
काले देशे च पात्रे च लक्षकोटिगुणं भवेत्। श्रद्धया च द्विजं दृष्ट्वा प्रकुर्यादभिवादनम्
दीर्घायुस्तस्य वाक्येन चिरंजीवी भवेन्नरः। अनभिवादनाद्विप्र द्वेषादश्रद्धयापि च
आयुः क्षीणं भवेत्पुंसां भूतिनाशश्च दुर्गतिः। आयुर्वृद्धिर्यशोवृद्धिर्वृद्धिर्विद्या धनस्य च
पूजयित्वा द्विजान्श्रेष्ठो भवेन्नास्त्यत्र संशयः। न विप्रपादोदककर्दमानि न वेदशास्त्रप्रतिघोषितानि
स्वाहा स्वधा स्वस्तिविवर्जितानि श्मशानतुल्यानि गृहाणि तानि। नारद उवाच। कश्च पूज्यतमो विप्रो ह्यपूज्यो वाथ को भवेत्
विप्रस्य लक्षणं ब्रूहि याथातथ्यं गुरोरपि। ब्रह्मोवाच-। पूज्यः श्रोत्रियको नित्यं सदाचारसमन्वितः
सद्वृत्तः कलुषैर्मुक्तस्तीर्थभूतो जनोऽनघः। नारद उवाच-। जातः कः श्रोत्रियस्तात सत्कुले वाप्यसत्कुले
सदसत्कर्मकर्ता वा कः पूज्यो भुवि बाडवः। ब्रह्मोवाच-। सत्श्रोत्रियकुले जातो ह्यक्रियो नैव पूजितः
असत्क्षेत्रकुले पूज्यो व्यास वैभांडकौ यथा। क्षत्रियाणां कुले जातो विश्वामित्रोस्ति मत्समः
वेश्यापुत्रो वसिष्ठश्च अन्ये सिद्धा द्विजादयः। तस्मात्सच्छोत्रियादीनां शृणु पुत्रक लक्षणम्
धरायां तीर्थभूतानां सर्वपापहराय च। जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते१२९ द्विज। विद्यया याति विप्रत्वं त्रिभिः श्रोत्रियलक्षणम् विप्र। विद्यापूतो मंत्रपूतो वेदपूतस्तथैव च
तीर्थस्नानादिभिर्मेध्यो विप्रः पूज्यतमः स्मृतः। नारायणे सदा भक्तः शुद्धांतःकरणस्तथा
जितेंद्रियो जितक्रोधस्समः सर्वजनेषु च। गुरुदेवातिथेर्भक्तः पित्रोः शुश्रूषणे रतः
परदारे मनो यस्य कदाचिन्नैव मोदते। पुराणकथको नित्यं धर्माख्यानस्य संततिः
अस्यैव दर्शनान्नित्यमश्वमेधादिजं फलम्। संलापे गतिमेत्यस्य भागीरथ्या प्लवस्य च
व्रतैश्च विविधैः पूतो नित्यस्नानद्विजार्चनैः। मित्रामित्रे दयालुः स्यात्समः सर्वजनेषु च
परस्वं न हरेद्यस्तु तृणमप्यटवीगतम्। कामक्रोधादिनिर्मुक्त इंद्रियैरजितः पुमान्
परदारान्न गृह्णाति मनसापि गृहागतान्। नारद उवाच-। गायत्र्या लक्षणं किं वा प्रत्येकाक्षरजं गुणम्
कुक्षिचरणगोत्राणां तस्या ब्रूहि सुनिश्चयम्। ब्रह्मोवाच-। छंदो गायत्री गायत्र्याः सविता देवता ध्रुवम्
शुक्लवर्णात्वग्निमुखा विश्वामित्र ऋषिस्तथा। ब्रह्मणश्शिरआरूढा शिखा विष्णु हृदि स्थिता
उपनयने नियोगः स्यात्सांख्यायन सगोत्रजा। त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षि संस्थिता
चतुर्विंशतिस्थाने च पादादौ मस्तकांतके। चतुर्विंशत्यक्षरं न्यस्य ब्रह्मलोकं स विंदति
प्रत्यर्णदेवतां ज्ञात्वा विष्णुसायुज्यमाप्नुयात्। अपरं च प्रवक्ष्यामि गायत्र्या लक्षणं ध्रुवं
सप्तपंच तथा ब्रह्म यजुरष्टादशाक्षरम्। ज्वलनादिहकारांतं जले स्थित्वा शतं जपेत्
उपपातककोट्या तु तथातिपातकैरपि। ब्रह्महत्यादिभिः पापैर्मुक्ता यांति ममालयं
ॐअग्नेर्वाक्पुंसि यजुर्वेदेन जुष्टात्सोमं पिब स्वाहा। विष्णुमंत्रं महामंत्रं तथा माहेश्वरस्य च
देवीसूर्यगणेशानां तथा क्रतुभुजां सुत। यस्य कस्य कुले जातो गुणवानेव तैर्गुणैः
साक्षाद्ब्रह्ममयो विप्रः पूजनीयः प्रयत्नतः। दानं दद्याच्च विधिवत्सदा पर्वणि पर्वणि
अक्षयं लभते दाता जन्मकोटिशतान्प्रति। स्वाध्यायनिरतो विप्रो यः पठेत्पाठयेत्परान्