लोकानां स गुरुः पूज्यस्तीर्थभूतोऽनघो जनः। सर्वदेवालयः सत्वो निर्मितो ब्रह्मणा पुरा
इममर्थं पुरा पृष्टो नारदेन पितामहः। कस्मिंस्तु पूजिते ब्रह्मन्प्रसादी माधवो भवेत्
ब्रह्मोवाच -। यस्य विप्राः प्रसीदंति तस्य विष्णुः प्रसीदति। तस्माद्ब्राह्मण शुश्रूषुः परं ब्रह्माधिगच्छति1.46.
विष्णुर्ब्राह्मणदेहेषु सदा वसति नान्यथा। तस्माद्ब्राह्मणपूजायां विष्णुस्तुष्यति तत्क्षणात्
विप्रान्यः पूजयेन्नित्यं दानमानार्चनादिभिः। कृतं क्रतुशतं तेन विध्युक्तं प्रियदक्षिणम्
ब्राह्मणस्य मुखं क्षेत्रमनूषरमकण्टकम्। वापयेत्सर्वबीजानि सा कृषिस्सार्वकालिकी
अभिगम्य तु यद्दत्तं यच्च दानं मनोरमं। विद्यते सागरस्यांतो दानस्यांतो न विद्यते
मनसापि न हिंसंति भूदेवमाततायिनं। मनोनुकूलतां यांति देवैरपि च दुर्लभां
गृहे यस्यागतो विद्वान्नैराश्यं नोपगच्छति। सर्वपापक्षयस्तस्य चाक्षयं स्वर्गमश्नुते
काले देशे च पात्रे च विप्रे यच्चार्पयेद्वसु। तद्धनं चाक्षयं विद्धि जन्मजन्मनि तिष्ठति
न च दारिद्र्यतामेति नातुरो न च कातरः। मनोनुकूलां प्रमदामर्चयित्वा द्विजान्लभेत्
कृत्वा साहसकर्माणि दद्याद्विप्राय पर्वसु। तद्दानं सुगुणं प्रोक्तमभयं लाभ एव च
विप्रपादतलोद्घृष्टि क्षती भवति यः करः। स करः श्रीकरो नाम अन्यः कर्मकरः करः
विप्रपादरजः पूताः पूतास्तज्जलबिन्दुभिः। विपद्भिश्च सदा पापैर्मुक्ता यांति त्रिविष्टपम्
विप्रपादरजः पूताः शुचयो गृह चत्वराः। पुण्यक्षेत्रसमास्ते स्युः प्रशस्ता यज्ञकर्मसु
आदौ ब्रह्ममुखाद्विप्रः समुद्भूतः पुरानघः। वेदास्तत्रैव संजाताः सृष्टिसंस्थिति हेतवः
तस्माद्विप्रमुखे वेदाश्चार्पिताः पुरुषेण हि। पूजार्थं सर्वलोकानां सर्वयज्ञार्थतो ध्रुवम्
पितृयज्ञे विवाहे च वह्निकार्येषु शांतिषु। प्रशस्ता ब्राह्मणा नित्यं सर्व स्वस्त्ययनेषु च
देवा भुंजंति हव्यानि बलिप्रेतादयोऽसुराः। पितरश्चैव कव्यानि विप्रस्यैव मुखाद्र्धुवम्
देवेभ्यश्च पितृभ्यश्च यो दद्याद्यज्ञकर्मसु। दानं होमं बलिं चैव विना विप्रेण निष्फलम्
भुंजंति चासुरास्तत्र प्रेता दैत्याश्च राक्षसाः। तस्माद्ब्राह्मणमाहूय तेषु कर्माणि कारयेत्
काले देशे च पात्रे च लक्षकोटिगुणं भवेत्। श्रद्धया च द्विजं दृष्ट्वा प्रकुर्यादभिवादनम्
दीर्घायुस्तस्य वाक्येन चिरंजीवी भवेन्नरः। अनभिवादनाद्विप्र द्वेषादश्रद्धयापि च
आयुः क्षीणं भवेत्पुंसां भूतिनाशश्च दुर्गतिः। आयुर्वृद्धिर्यशोवृद्धिर्वृद्धिर्विद्या धनस्य च
पूजयित्वा द्विजान्श्रेष्ठो भवेन्नास्त्यत्र संशयः। न विप्रपादोदककर्दमानि न वेदशास्त्रप्रतिघोषितानि
स्वाहा स्वधा स्वस्तिविवर्जितानि श्मशानतुल्यानि गृहाणि तानि। नारद उवाच। कश्च पूज्यतमो विप्रो ह्यपूज्यो वाथ को भवेत्
विप्रस्य लक्षणं ब्रूहि याथातथ्यं गुरोरपि। ब्रह्मोवाच-। पूज्यः श्रोत्रियको नित्यं सदाचारसमन्वितः
सद्वृत्तः कलुषैर्मुक्तस्तीर्थभूतो जनोऽनघः। नारद उवाच-। जातः कः श्रोत्रियस्तात सत्कुले वाप्यसत्कुले
सदसत्कर्मकर्ता वा कः पूज्यो भुवि बाडवः। ब्रह्मोवाच-। सत्श्रोत्रियकुले जातो ह्यक्रियो नैव पूजितः
असत्क्षेत्रकुले पूज्यो व्यास वैभांडकौ यथा। क्षत्रियाणां कुले जातो विश्वामित्रोस्ति मत्समः