नित्यं तस्माच्च सूर्याच्च मनसोभिहितं च यत्। नमस्ते देवदेवेश भक्तानामभयंकर
सुब्रह्मण्य नमस्ते तु सर्वदेवनमस्कृत। तिग्मांशो वै नमस्तुभ्यं जगतश्चक्षुषे नमः
प्रभाकर नमस्तेस्तु भानो जय जगत्पते। अनेन दनुमुख्येन पीडितोहं जगत्पते
किं करोमि कथं चैनं घातयामि दिवाकर। सूर्य उवाच-। जय शूलेन पापिष्ठं मायाशतविशारदम्
जयं प्राप्नुहि देवेश हत्वा शूलेन चांधकम्। गृह्य शूलं ततो दूरमाक्षिप्य हर तेजसा
ततोन्धकस्त्रिशूलेनाताडयत्पापकर्मकृत्। तस्मिन्युद्धे तथा रुद्रो ह्यन्धकेनाभिपीडितः
मुमोच बाणमुत्युग्रं नाम्ना पाशुपतं हि यत्। पिनाकमानम्य दोर्भ्यां पिनाकी शंकरः स्वयम्
रुद्रबाणविनिर्भेदाद्रुधिरादन्धकस्य तु। अंधकाश्च समुत्पन्नाश्शतशोथ सहस्रशः
तेषां विदार्यमाणानां रुधिरादपरे पुनः। बभूवुरंधका घोरा यैर्व्याप्तमखिलं जगत्
तं तु मायाविनं दृष्ट्वा देवदेवस्तदांधकम्। पानार्थमंधकस्यास्रं ससृजे मातृकास्तदा
माहेश्वरीं तथा ब्राह्मीं शौरीं वा बाडवीं तथा। सौपर्णीमथ वायव्यां शंखिनीं तैत्तिरीं तथा
सौरीं सौम्यां शिवदूतीं चामुंडामथ वारुणीं। वाराहीं नारसिंहीं च वैष्णवीं च विभावरीं
शतानंदां भगानंदां पिच्छिलां भगमालिनीं। बालामतिबलां रक्तां सुरभीं मुखमंडिताम्
मातृनंदां सुनंदां च बिडानीं शकुनीं तथा। रेवतीं च महापुण्यां तथैव शिखिपट्टिकां
शूलेन च ततो दैत्यं बिभेद त्रिपुरांतकः। निर्गतं रुधिरं तस्मात्पपुस्ता मातरस्तदा
नीरक्तो हि तदा दैत्यश्शुष्कतां प्राप भूपते। शूले प्रोतस्तदा दैत्यो दिव्यवर्षसहस्रकम्
महाबलेन रुद्रेण विधृतोपि मृतो नहि। स्तुतस्तेन तदा शंभुर्भक्त्या दैत्येन सुव्रत
नमोस्तु शंभो भवनाशहेतो नमोस्तु ते देव वरप्रसीद। त्वं भू जलाग्नीरनभोर्कसोमयज्वाष्टमूर्तिर्भवभावनोलम्
त्वां वै बाणो बहुवाद्येन तोष्य प्राप्तश्चैश्यं स्वे पुरे तत्स्वरक्ष्यम्। रक्षोधीशो बाहुभिस्तोल्यशैलं युष्मत्क्रांतक्लिष्टरूपो ह्यनौषीत्
प्राप्तोप्यैश्यं सर्वरक्षोगणानां पुत्रं चापि प्रोर्जितं शक्रबंधम्। भवभयहर हर परम उदार मम सुखकरण निखिल सुरसार
जितमरुदभिमतवितरणपार तव पदकमलमिहारणसार। तवेश पादपंकजं करोति यो नरो हृदि सदेशतस्य वांछितं ददासि भक्तिभावितः
मुनीश्वराः पुरा हरं भवंतमेवमादरात्प्रपूज्य लिंगरूपिणं समापिता मनोरथान्। भवोद्भवैकरूपिणं प्रपंचपंचकाकृतिं विचिंत्यवृक्षकोटरस्थ एष जीवजीवनं
भवेद्भवाङ्घ्रिचिंतनाप्तसर्वकामईश्वर त्वदीय किंकरान्विते पदे पदे समागतः। मूढोहं नाभिजानामि त्वां स्तोतुं भक्तवत्सल
सदीश्वरेण मनसाप्यनुकंप्यो रणं गतः। इति स्तुतो महेशस्तु भक्त्या दैत्येन सादरं
गणेशतां ददौ तस्मै नाम भृंगीरिटीति च। एष ते महिमा भूप हरस्य भवहारिणः
कथितो विघ्नविघ्नाख्यस्तत्पराणां सुखावहः। भीष्म उवाच। मनुष्यस्यापि देवत्वं सुखं राज्यं धनं यशः
जयं भोग्यं तथारोग्यमायुर्विद्यां श्रियं सुतं। बंधुवर्ग शिवं सर्वं ब्रूहि मे विप्रसत्तम
पुलस्त्य उवाच। एभिर्गुणैर्युतः श्रीमान्सदैवब्राह्मणो भुवि। त्रैलोक्ये तु सदा मेध्यो विप्रदेवो युगेयुगे
पूजयित्वा द्विजान्देवाः स्वर्गं भुंजंति चाक्षयं। धरामवंति राजानो लोकावित्तं सुखं शिवं
लोके विप्र समो नास्ति देवानामपि दैवतं। स च धर्ममयः साक्षाद्भुवि मुक्तिप्रदो भृशं