रंभोपमोरु पृथुपीननितंबबिंबानद्धक्वणन्मणिरणद्रशनाकलापं। बृंदं ललाटतटकोटिपटांतलंबि हेमांचलांचितमुखं कुलपालिकानाम्
कांतं गृहेषु कलगद्गदभाषितानां झंकारनूपुररवेणविरावितानाम्। तेषां कृशानुकरमिन्दुसमानकांतं यैरर्चितोसि भगवन्भवमोचनस्त्वं
ब्रह्मा त्वमेव हरिरस्यनिलोऽनलोसि रुद्रोंऽतकोसि वरुणोऽस्यमराधिपोसि। सोमोसि वायुरसि भूरसि चेश्वरोसि यज्ञोसि वित्तपतिरस्यपराजितोसि
ते सप्तसप्तिसुरवाहरणेन मुक्ता भूमावथेति तरसोरुतरंतरीताः। व्योमैतदंतरहितं परितो हि गत्वा गच्छंति न श्रमदं हिमनागपीमे
ध्यानैकयोगनिरताश्च समाधिभावात्ध्यात्वा पदं तव तुरीयमनंतमूर्ते। मुक्तामयास्तनुभृतो न भियाभियुक्तास्तद्ब्रह्मशाश्वतमचिंत्यमनाद्यनंतं
जन्मादिरोगरहितं परमं पुराणमीशं जरामरणशोकभयातिरिक्तम्। स्थूलानुभावनगणागणितं विशुद्धं वेदांतवादिभिरलं परिमन्यते यत्
त्वामग्निपुंजवपुषं तपसां निवासं याता दिवं सुचिरकालमुपास्यभक्ताः। भानो सुरासुरसमूहशिरोनिघृष्ट पादारविंदयुगलामलचारुमूर्त्ते
भूतेशभूतवरदा सकृदव्ययात्मन्व्योमाट्टहाससवितर्भुवनैकदीप। ऋक्साममंत्रयजुषामधिवास नाम सृष्टिस्थितिप्रलयकारणलोकपाल
दीनस्य देव कृपणस्य भवेभवे मे मग्नस्य चारुदविचार मनोरथानि। शश्वद्यतीश्वर शशी करकंकघोरोत्पातो जरामरणशोकरुगांतरस्य
यः प्रातः सायमिदं मध्याह्ने वा पठेच्च दीप्तांशोः। सालोक्यं याति रवेः प्राप्नोति धर्मार्थकामांश्च
नित्यं तस्माच्च सूर्याच्च मनसोभिहितं च यत्। नमस्ते देवदेवेश भक्तानामभयंकर
सुब्रह्मण्य नमस्ते तु सर्वदेवनमस्कृत। तिग्मांशो वै नमस्तुभ्यं जगतश्चक्षुषे नमः
प्रभाकर नमस्तेस्तु भानो जय जगत्पते। अनेन दनुमुख्येन पीडितोहं जगत्पते
किं करोमि कथं चैनं घातयामि दिवाकर। सूर्य उवाच-। जय शूलेन पापिष्ठं मायाशतविशारदम्
जयं प्राप्नुहि देवेश हत्वा शूलेन चांधकम्। गृह्य शूलं ततो दूरमाक्षिप्य हर तेजसा
ततोन्धकस्त्रिशूलेनाताडयत्पापकर्मकृत्। तस्मिन्युद्धे तथा रुद्रो ह्यन्धकेनाभिपीडितः
मुमोच बाणमुत्युग्रं नाम्ना पाशुपतं हि यत्। पिनाकमानम्य दोर्भ्यां पिनाकी शंकरः स्वयम्
रुद्रबाणविनिर्भेदाद्रुधिरादन्धकस्य तु। अंधकाश्च समुत्पन्नाश्शतशोथ सहस्रशः
तेषां विदार्यमाणानां रुधिरादपरे पुनः। बभूवुरंधका घोरा यैर्व्याप्तमखिलं जगत्
तं तु मायाविनं दृष्ट्वा देवदेवस्तदांधकम्। पानार्थमंधकस्यास्रं ससृजे मातृकास्तदा
माहेश्वरीं तथा ब्राह्मीं शौरीं वा बाडवीं तथा। सौपर्णीमथ वायव्यां शंखिनीं तैत्तिरीं तथा
सौरीं सौम्यां शिवदूतीं चामुंडामथ वारुणीं। वाराहीं नारसिंहीं च वैष्णवीं च विभावरीं
शतानंदां भगानंदां पिच्छिलां भगमालिनीं। बालामतिबलां रक्तां सुरभीं मुखमंडिताम्
मातृनंदां सुनंदां च बिडानीं शकुनीं तथा। रेवतीं च महापुण्यां तथैव शिखिपट्टिकां
शूलेन च ततो दैत्यं बिभेद त्रिपुरांतकः। निर्गतं रुधिरं तस्मात्पपुस्ता मातरस्तदा
नीरक्तो हि तदा दैत्यश्शुष्कतां प्राप भूपते। शूले प्रोतस्तदा दैत्यो दिव्यवर्षसहस्रकम्
महाबलेन रुद्रेण विधृतोपि मृतो नहि। स्तुतस्तेन तदा शंभुर्भक्त्या दैत्येन सुव्रत
नमोस्तु शंभो भवनाशहेतो नमोस्तु ते देव वरप्रसीद। त्वं भू जलाग्नीरनभोर्कसोमयज्वाष्टमूर्तिर्भवभावनोलम्
त्वां वै बाणो बहुवाद्येन तोष्य प्राप्तश्चैश्यं स्वे पुरे तत्स्वरक्ष्यम्। रक्षोधीशो बाहुभिस्तोल्यशैलं युष्मत्क्रांतक्लिष्टरूपो ह्यनौषीत्
प्राप्तोप्यैश्यं सर्वरक्षोगणानां पुत्रं चापि प्रोर्जितं शक्रबंधम्। भवभयहर हर परम उदार मम सुखकरण निखिल सुरसार