निहताश्चापि देवानां बहूनामेकताकृतां। सस्फुलिंगार्चिषो वह्नेर्मुंचमानः पिनाकधृक्
शरैः समावृतं चक्रे अंधकं रथगं ततः। दनुनाथो रथस्थोथ शिथिलः शिथिलायुधः
निमंत्र्य दानवान्सर्वान्स योद्धुमुपचक्रमे। बहुधा तद्बलं भग्नं विविधायुधयोधिभिः
युधि वीरैर्हतं देवैः स्थाणुना सख्यमाश्रितैः। दानवश्चांधकः सैन्यं भिन्नं दृष्ट्वा कृतं सुरैः
आत्मानं च महेशेन निरुद्धं बाणकोटिभिः। विह्वलीभूतदेहोसौ धैर्यमालंब्य केवलम्
पिनाकं चैव रुद्रस्य गृह्य रुद्रमताडयत्। पिनाकस्याभिघातेन रुद्रो भूमिमथागमत्
भूमौ निपातिते देवे चलितं भुवनत्रयं। तत्यजुः सागरा वेलां पर्वताः शिखराणि च
नक्षत्राणि वियोगीनि जग्मुर्मुक्तान्यनेकशः। पतिते भुवि देवेशे अंधको गदया पुनः
जघान रुषितो नागं हत्वा तं पातयद्भुवि। शिवं त्यक्त्वा नागराजः प्रपलाय्यान्यतो गतः
मुहूर्त्ताच्चेतनां लब्ध्वा उत्थितः परमेश्वरः। गृहीत्वा परशुं दिव्यं दानवं नैव पश्यति
कृत्वा तु तामसीं मायां मायाशतविशारदः। तया विमोहिते देवे क्व नु वै दानवो गतः
शंभोर्भयमथो प्राप्य किं नु पापः करिष्यति। तमसा छादिता यावद्देवा व्याकुलतां गताः
संभ्रांतमानसानीकास्तदोचुः कार्यगौरवात्। एतस्मिन्नंतरे सूर्यस्तेजोरूपो व्यवस्थितः
उत्तस्थौ नररूपेण कुर्वन्वितिमिरा दिशः। नष्टे तमसि हृष्टाङ्गे खद्योते प्रकटे स्थिते
देवा मुदमवापुस्ते स्पष्टाननविलोचनाः। उद्दीप्तास्तु सुराः सर्वे गणाः स्कंदपुरोगमाः
स्तुवंति विविधैस्तोत्रैः नररूपं दिवाकरम्। अनौपम्यं जगद्व्यापि ब्रह्मविष्णुशिवात्परम्
स्निग्धविद्रुमसच्छायं सिंदूरारुणसप्रभम्। प्रभासंतं तदा दृष्ट्वा पंचांगालिंगितावनिः
पुनः प्रणामप्रवणं प्रणिधानपुरःसरम्। आलोक्य स्निग्धया दृष्ट्या देवदेवं त्रिलोचनः
उवाच स्निग्धगंभीर वाचा देवं शनैर्हरः। पूरयन्निव तेजोभिर्भगवान्भुवनत्रयम्
दैत्यमायाभिपन्नानां दर्शनाकुलचेतसाम्। प्राणिनामिदमेवैकमविसंवादि दैवतम्
अयमेव च संसारसागरात्सकलादपि। सत्त्वानुत्तारयन्देवः कर्णधाराय ते प्रभुः
यजंतो जंतवो भक्त्या यं देवं विविधाः सदा। निःश्रेयसाय कल्पंते तं नतो भास्करं विभुम्
यस्तूदयाद्रिशिखरे मकुटायमानलीलागभस्तिभिरलं कुसुमप्रकाशैः। व्याप्य स्वदीधितिगणैः प्रदिशो दिशश्च देदीप्यते स सविता विभवाय लोके1.46.
ब्रह्मेंद्ररुद्रमरुदच्युतवह्निपाथो नाथ प्रयोगनिपुणैश्च ऋषींद्रसंघैः। श्रेयोर्थिभिः प्रतिदिनं दिवसांगरागैर्दिव्यांगरागपरिलिप्त समस्तदैहैः
पूज्यं वपुस्तव सदा प्रलये हि वेदैर्गीर्भिर्विचित्रपदमंडलमंडिताभिः। ये त्वां स्तुवंति परसद्मनि सद्महीना नित्यं प्रसारितकरा भुवि ते भवंति
ये दद्रुकुष्ठपिटिकादिभिरर्दितांगाः शीर्णत्वचः कुनखिनश्च्युतकेशनाशाः। देवेश तेपि तवपादनता भवंति सद्यो द्विरष्टशरदाकृतयो मनुष्याः
सामेति सामगगणा हि मखार्थकं त्वामध्वर्यवस्त्वृगिति बह्वृचमुख्यपूगाः। त्वामेवमार्यमिति कार्यविदोधिगंतुं नागाश्च वेति पितरोप्यथ सर्वगंधम्
मायेति चोपनिषदर्कषडेव देवा मर्त्यास्तथा वयमिवेह उपासतेऽमी। गंधर्वकिन्नरगणाः सहचारणैस्तु रूपं तथा च भगवन्प्रतिपद्यसे त्वम्
येनार्चयंति सततं भवतोर्च्यमर्चिस्तेर्चिष्प्रतापितदिगंबरवित्तहीनाः। क्षुत्क्षामकंठजठराघटखर्परेण भिक्षामटंति परवेश्मसुतेर्थहीनाः
उत्फुल्लकोकनदकोशविशालनेत्रमीषद्विलासलुलिताञ्चितपिंगतारम्। कामं प्रशस्ततरसुंदरहाररम्यमुत्तुंगपीवरपयोधरभारखिन्नं