सर्पैर्ज्वलद्भिर्धावद्भिर्भीमं भीमभुजंगवत्। जटासटाभिराकाशं फणिरत्नशिखार्चिषा
दहन्नतीवतेजोभिः कालाग्निरिव संक्षये। मुखैर्दंष्ट्रांकुरांकैश्च द्वितीयेन्दुकलोज्ज्वलैः
पातालोदररूपाभैर्भैरवारावनादिभिः। भुजैरनेकसाहस्रैर्बहुशस्त्रकृतग्रहः
बह्वाभरणभूषाढ्यै रणे घोरनिनादिभिः। सिंहचर्मपरीधानं व्याघ्रत्वगुत्तरीयकं
गजाजिनकृताटोपं पतद्भृंगरवाकुलं। ईदृग्रूपं विधायेशो दनुदैत्यभयावहं
अवातरन्महीं भीमो दनूनां क्षयकारकः। अंधासुरोपि दनुजः पुत्रं श्रुत्वा हतं युधि
क्रोधेन तमसाविष्टो रणतूर्याण्यचोदयत्। संहत्यावहितः प्राप्तो यत्र ते त्रिदशाः स्थिताः
महत्या सेनया सार्द्धं रथवारणयुक्तया। ते देवा दानवान्वीक्ष्य महाहवकृतादरान्
व्यपयाततनुत्राणाः शंभुं शरणमन्वयुः। मा भैरिति च तान्देवो देवानुक्त्वा त्रिलोचनः
गृहीत्वा शूलमातिष्ठद्दंष्ट्रारवधरो रुषा। अंधकेनाथ रुष्टेन शतकोटिशरैर्गणाः
निहताश्चापि देवानां बहूनामेकताकृतां। सस्फुलिंगार्चिषो वह्नेर्मुंचमानः पिनाकधृक्
शरैः समावृतं चक्रे अंधकं रथगं ततः। दनुनाथो रथस्थोथ शिथिलः शिथिलायुधः
निमंत्र्य दानवान्सर्वान्स योद्धुमुपचक्रमे। बहुधा तद्बलं भग्नं विविधायुधयोधिभिः
युधि वीरैर्हतं देवैः स्थाणुना सख्यमाश्रितैः। दानवश्चांधकः सैन्यं भिन्नं दृष्ट्वा कृतं सुरैः
आत्मानं च महेशेन निरुद्धं बाणकोटिभिः। विह्वलीभूतदेहोसौ धैर्यमालंब्य केवलम्
पिनाकं चैव रुद्रस्य गृह्य रुद्रमताडयत्। पिनाकस्याभिघातेन रुद्रो भूमिमथागमत्
भूमौ निपातिते देवे चलितं भुवनत्रयं। तत्यजुः सागरा वेलां पर्वताः शिखराणि च
नक्षत्राणि वियोगीनि जग्मुर्मुक्तान्यनेकशः। पतिते भुवि देवेशे अंधको गदया पुनः
जघान रुषितो नागं हत्वा तं पातयद्भुवि। शिवं त्यक्त्वा नागराजः प्रपलाय्यान्यतो गतः
मुहूर्त्ताच्चेतनां लब्ध्वा उत्थितः परमेश्वरः। गृहीत्वा परशुं दिव्यं दानवं नैव पश्यति
कृत्वा तु तामसीं मायां मायाशतविशारदः। तया विमोहिते देवे क्व नु वै दानवो गतः
शंभोर्भयमथो प्राप्य किं नु पापः करिष्यति। तमसा छादिता यावद्देवा व्याकुलतां गताः
संभ्रांतमानसानीकास्तदोचुः कार्यगौरवात्। एतस्मिन्नंतरे सूर्यस्तेजोरूपो व्यवस्थितः
उत्तस्थौ नररूपेण कुर्वन्वितिमिरा दिशः। नष्टे तमसि हृष्टाङ्गे खद्योते प्रकटे स्थिते
देवा मुदमवापुस्ते स्पष्टाननविलोचनाः। उद्दीप्तास्तु सुराः सर्वे गणाः स्कंदपुरोगमाः
स्तुवंति विविधैस्तोत्रैः नररूपं दिवाकरम्। अनौपम्यं जगद्व्यापि ब्रह्मविष्णुशिवात्परम्
स्निग्धविद्रुमसच्छायं सिंदूरारुणसप्रभम्। प्रभासंतं तदा दृष्ट्वा पंचांगालिंगितावनिः
पुनः प्रणामप्रवणं प्रणिधानपुरःसरम्। आलोक्य स्निग्धया दृष्ट्या देवदेवं त्रिलोचनः
उवाच स्निग्धगंभीर वाचा देवं शनैर्हरः। पूरयन्निव तेजोभिर्भगवान्भुवनत्रयम्
दैत्यमायाभिपन्नानां दर्शनाकुलचेतसाम्। प्राणिनामिदमेवैकमविसंवादि दैवतम्