क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः। नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमान्
पौराणं रूपमास्थाय प्रययौ गरडध्वजः। अष्टचक्रेण यानेन भूतियुक्तेन भास्वता
अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः
श्री भीष्म उवाच-। नरसिंहस्य माहात्म्यं विस्तरेण त्वयेरितं। तथा भवस्य माहात्म्यं भैरवस्याभिधीयताम्
पुलस्त्य उवाच। तस्यापि देवदेवस्य शृणु त्वं कर्म चोत्तमं। आसीद्दैत्योंधको नाम भिन्नांजनचयोपमः
तपसा महता युक्तो ह्यवध्यस्त्रिदिवौकसाम्। स कदाचिन्महादेवं पार्वत्या सहितं विभुं
क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रचक्रमे। एतां देवीं हराम्यद्य वियोगे मृत्युमेष्यति
ततः स्थिरा भवित्री मे भार्यैषा लोकसुंदरी। बिबौष्ठं चारुवदनं चारुकांततरं मुखं
यद्येषा न भवेद्भार्या जीविते किं प्रयोजनम्। एतां मतिमथास्थाय मंत्रिभिः सह मंत्र्य च
चक्रे योगं ससैन्यस्य सेनापतिमभाषत। आनयस्व रथं मह्यं जैत्रं देवनिपातनम्
जयिष्ये त्रिदशान्सर्वान्विष्णुरुद्रपुरोगमान्। हरिष्ये पर्वतसुतां तया मेऽपहृतं मनः
मंत्रिणा तस्य चाख्यातः कनकस्य वधस्सुरैः। परभार्यानुरक्तस्य कृतो देवैः सवासवैः
ततः कोपपरीतात्मा हन्मि देवान्सशंकरान्। तं हत्वा दानवं शक्रो भयादंधासुरस्य च
जगाम शरणान्वेषी कैलासं शंकरालयं। दृष्ट्वा प्रणम्य देवेशं चंद्रार्द्धकृतशेखरं
भीतो विज्ञापयामास धृतसाहस्रलोचनः। अभयं देहि मे देव दानवादंधकादहं
बिभेमि तस्य पुत्रोद्य मया युधि निपातितः। तद्यावन्न स जानाति हतं पुत्रं महासुरः
तावत्तत्रस्थ एवाशु हन्यतां मद्भयावहः। स्त्रीलौल्याद्दानवः क्रूरः परभार्यापहारकः
सर्वथा घातनीयस्ते भवता सुरसत्तम। शक्रस्यैवं वचः श्रुत्वा शरण्यः शंकरस्तदा
ददावभयमेवासौ मा भैरिति शतक्रतोः। दत्ताभयोथ कैलासादाजगाम कुशस्थलीम्
वृतो भूतगणैरीशो वधार्थमंधकस्य तु। कृत्वा रूपं महाकायं विश्वरूपं सुभैरवं
सर्पैर्ज्वलद्भिर्धावद्भिर्भीमं भीमभुजंगवत्। जटासटाभिराकाशं फणिरत्नशिखार्चिषा
दहन्नतीवतेजोभिः कालाग्निरिव संक्षये। मुखैर्दंष्ट्रांकुरांकैश्च द्वितीयेन्दुकलोज्ज्वलैः
पातालोदररूपाभैर्भैरवारावनादिभिः। भुजैरनेकसाहस्रैर्बहुशस्त्रकृतग्रहः
बह्वाभरणभूषाढ्यै रणे घोरनिनादिभिः। सिंहचर्मपरीधानं व्याघ्रत्वगुत्तरीयकं
गजाजिनकृताटोपं पतद्भृंगरवाकुलं। ईदृग्रूपं विधायेशो दनुदैत्यभयावहं
अवातरन्महीं भीमो दनूनां क्षयकारकः। अंधासुरोपि दनुजः पुत्रं श्रुत्वा हतं युधि
क्रोधेन तमसाविष्टो रणतूर्याण्यचोदयत्। संहत्यावहितः प्राप्तो यत्र ते त्रिदशाः स्थिताः
महत्या सेनया सार्द्धं रथवारणयुक्तया। ते देवा दानवान्वीक्ष्य महाहवकृतादरान्
व्यपयाततनुत्राणाः शंभुं शरणमन्वयुः। मा भैरिति च तान्देवो देवानुक्त्वा त्रिलोचनः
गृहीत्वा शूलमातिष्ठद्दंष्ट्रारवधरो रुषा। अंधकेनाथ रुष्टेन शतकोटिशरैर्गणाः