तरुणादित्यसंकाशो मेरुश्चैव महान्गिरिः। यक्षराक्षसगंधर्वैर्नित्यं सेवितकंदरः
हेमगर्भो महासेनस्तथा मेघसखो गिरिः। कैलासश्चैव शैलेंद्रो दानवेंद्रेण कंपितः
हेमपुष्करसञ्छन्नं तेन वैखानसं सरः। कंपितं मानसं चैव हंसकारंडवाकुलम्
त्रिशृंगः पर्वतश्रेष्ठः कुमारी च सरिद्वरा। तुषारचयसंच्छन्नो मंदरश्चापि पर्वतः
उशीरबीजश्च गिरिर्भद्रप्रस्थस्तथाद्रिराट्। प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः
देवाभः पर्वतश्चैव तथा वै वालुकागिरिः। क्रौंचः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः
एते चान्ये च गिरयो देशा जनपदास्तथा। नद्यः ससागराः सर्वाः दानवेनाभिकंपिताः
कपिलश्च महीपुत्रो व्याघ्रवांश्च प्रकंपितः। खेचराश्च निशापुत्राः पातालतलवासिनः
गणस्तथापरो रौद्रो मेघनामांकुशायुधः। ऊर्द्ध्वगो भीमवेगश्च सर्व एतेभिकंपिताः
गदी शूली करालश्च हिरण्यकशिपुस्तथा। जीमूतघननिर्घोषो जीमूत इव वेगवान्
देवारिर्दितिजो दृप्तो नृसिंहं समुपाद्रवत्। स तु तेन ततस्तीक्ष्णैर्मृगेंद्रेण महानखैः
तदोंकारसहायेन विदार्य निहतो युधि। मही च कालश्च शशीनभश्च ग्रहास्स सूर्याश्च दिशश्च सर्वाः
नद्यश्च शैलाश्च महार्णवाश्च गताः प्रसादं दितिपुत्रनाशात्। ततः प्रमुदिता देवा ऋषयश्च तपोधनाः
तुष्टुवुर्नामभिर्दिव्यैरादिदेवं सनातनम्। यत्त्वया विधृतं देव नारसिंहमिदं वपुः
एतदेवार्चयिष्यंति परापरविदो जनाः। ब्रह्मोवाच-। भवान्ब्रह्मा च रुद्रश्च महेंद्रो देवसत्तमः
भवान्कर्त्ता विकर्त्ता च लोकानां प्रभवोऽव्ययः। परां च सिद्धिं च परं च सत्वं परं रहस्यं परमं हविश्च
परं च धर्मं परमं यशश्च त्वामाहुरग्र्यं परमं पुराणम्। परं च सत्यं परमं तपश्च परं पवित्रं परमं च मार्गं
परं च यज्ञं परमं च होत्रं त्वामाहुरग्य्रं परमं पुराणम्। परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम्
परं रहस्यं परमां गतिं च त्वामाहुरग्य्रं परमं पुराणम्। एवमुक्त्वा तु भगवान्सर्वलोकपितामहः
स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः। ततो नदत्सु तूर्येषु नृत्यंतीष्वप्सरःसु च
क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः। नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमान्
पौराणं रूपमास्थाय प्रययौ गरडध्वजः। अष्टचक्रेण यानेन भूतियुक्तेन भास्वता
अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः
श्री भीष्म उवाच-। नरसिंहस्य माहात्म्यं विस्तरेण त्वयेरितं। तथा भवस्य माहात्म्यं भैरवस्याभिधीयताम्
पुलस्त्य उवाच। तस्यापि देवदेवस्य शृणु त्वं कर्म चोत्तमं। आसीद्दैत्योंधको नाम भिन्नांजनचयोपमः
तपसा महता युक्तो ह्यवध्यस्त्रिदिवौकसाम्। स कदाचिन्महादेवं पार्वत्या सहितं विभुं
क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रचक्रमे। एतां देवीं हराम्यद्य वियोगे मृत्युमेष्यति
ततः स्थिरा भवित्री मे भार्यैषा लोकसुंदरी। बिबौष्ठं चारुवदनं चारुकांततरं मुखं
यद्येषा न भवेद्भार्या जीविते किं प्रयोजनम्। एतां मतिमथास्थाय मंत्रिभिः सह मंत्र्य च
चक्रे योगं ससैन्यस्य सेनापतिमभाषत। आनयस्व रथं मह्यं जैत्रं देवनिपातनम्