एवं यः कुरुते सम्यक्कार्तिकस्य व्रतं नरः । विपाप्मा स विनिर्मुक्तो विष्णुसान्निध्यगो भवेत्
सर्वव्रतैः सर्वतीर्थैःस र्वदानैश्च यत्फलम् । तत्कोटिगुणितं ज्ञेयं सम्यगस्य विधानतः
ते धन्यास्ते महापुण्यास्तेषां सर्वफलोदयः । विष्णुभक्तिरता ये स्युः कार्तिके व्रतकारिणः
देहस्थितानि पापानि वितर्कं यांति तद्भयात् । क्व यास्यामो वदंत्येवं यद्ययं व्रतकृन्नरः
इत्यूर्जव्रतनियमान्शृणोति भक्ता ये चैतत्कथयंति चैव वैष्णवाग्रे । ते सम्यग्व्रतकरणात्फलं लभेरन्तत्सर्वं कलुषविनाशनं लभंते
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे उद्यापनवर्णनोनाम पंचनवतितमोऽध्यायः
पृथुरुवाच- यत्त्वया कथितं ब्रह्मन्व्रतमूर्जस्य विस्तरात् । तत्र या तुलसीमूले विष्णोः पूजा त्वयोदिता
तेनाहं प्रष्टुमिच्छामि माहात्म्यं तुलसीभवम् । कथं सातिप्रिया विष्णोर्देवदेवस्य शार्ङ्गिणः
कथमेषा समुत्पन्ना कस्मिंस्थाने च नारद । एतद्ब्रूहि समासेन सर्वज्ञोऽसि मतो हि मे
नारदउवाच- पुरा रुद्रेण दैत्येंद्रे सिंधुसूनौ निपातिते । प्रणम्य शिरसा रुद्रं देवा ब्रह्मादयोऽब्रुवन् । शृणु राजन्प्रवक्ष्यामि माहात्म्यं तुलसीभवम्
सेतिहासं पुरावृत्तं तत्सर्वं कथयामि ते । पुरा शक्रः शिवं द्रष्टुमगात्कैलासपर्वतम् । सर्वदेवैः परिवृतस्त्वप्सरोगणसेवितः
यावद्गतः शिवगृहं तावत्तत्राशु दृष्टवान् । पुरुषं भीमकर्माणं दंष्ट्रानयनभीषणम्
स पृष्टस्तेन कस्त्वं भो क्व गतो जगदीश्वरः । एवं पुनः पुनः पृष्टः स यदा नोचिवान्नृप
ततः क्रुद्धो वज्रपाणिस्तन्निर्भर्त्स्य वचोऽब्रवीत् । रे मया पृच्छमानोऽपि नोत्तरं दत्तवानसि
अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते । इत्युदीर्य ततो वज्री वज्रेण चाहनद्दृढम्
तेनास्य कंठे नीलत्वमगाद्वज्रं च भस्मतां । ततो रुद्र प्रजज्वाल तेजसा प्रदहन्निव
दृष्ट्वा बृहस्पतिस्तूर्णं कृतांजलिपुटोऽभवत् । इंद्रश्चदंडवद्भूमौ कृत्वा स्तोतुं प्रचक्रमे
बृहस्पतिरुवाच- नमो देवाधिदेवाय त्र्यंबकाय कपर्दिने । त्रिपुरघ्नाय शर्वाय नमोंधकनिषूदिने
विरूपायातिरूपाय बहुरूपाय शंभवे । यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने
कालांतकाय कालाय कालभोगधराय च । नमो ब्रह्मशिरोहंत्रे ब्राह्मणाय नमो नमः
नारद उवाच- एवं स्तुतस्तदा शंभुः द्विजर्षभं जगाद ह । संहरन्नयनज्वालं त्रिलोकीदहनक्षमाम्
वरं वरय भो ब्रह्मन्प्रीतः स्तुत्यानया तव । इंद्रस्यजीवदानेन जीवति त्वं प्रथां व्रज
बृहस्पतिरुवाच- यदि तुष्टोऽसि देव त्वं याहींद्रं शरणागतम् । अग्निरेष शमं यातु भालनेत्रसमुद्भवः
ईश्वर उवाच- पुनः प्रवेशमायाति भालनेत्रे कथं त्वयम् । एनं त्यक्ष्याम्यहं दूरे यथेंद्रं नैव पीडयेत्
नारद उवाच- इत्युक्त्वा तं करे धृत्वा प्राक्षिपल्लवणांभसि । सोऽपतत्सिंधुगंगायाः सागरस्य च संगमे
तदा स बालरूपत्वमगात्तत्र रुरोद च । रुदतस्तस्य शब्देन प्राकंपद्धरणी मुहुः
स्वर्गश्च सत्यलोकश्च तत्स्वनाद्बधिरीकृतौ । श्रुत्वा ब्रह्मा ययौ तत्र किमेतदिति विस्मितः
तावत्समुद्रस्योत्संगे तं बालं स ददर्श ह । दृष्ट्वा ब्राह्मणमायांतं समुद्रोऽपि कृतांजलि
प्रणम्य शिरसा बालं तस्योत्संगे न्यवेशयेत् । ततो ब्रह्माब्रवीद्वाक्यं कस्यायं शिशुरद्भुतः
निशम्येति वचो धातुर्वाक्यं तु सागरोऽब्रवीत् । ब्रह्मा उवाच- सरित्पते कुतो लब्धो बालो ह्येष महाबलः