महीधरा नागगणा निपेतुरमितौजसः। विषज्वालाकुलैर्वक्त्रैर्विमुंचंतो हुताशनम्
चतुःशीर्षाः पंचशीर्षाः सप्तशीर्षाश्च पन्नगाः। वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ
एलामुखः कालियश्च महापद्मश्च वीर्यवान्। सहस्रशीर्षश्शुद्धांगो हेमतालध्वजः प्रभुः
शेषोनंतो महानागो ह्यप्रकंप्यश्च कंपिताः। दीप्यंतेंतर्जलस्थानि पृथिवीविवराणि वै
सप्तदैत्येंद्रकोपेन कंपितानि समंततः। नानातेजोधराश्चापि पातालतलचारिणः
पाताले सहसा क्षुब्धे दुष्प्रकंप्याः प्रकंपिताः। हिरण्यकशिपुर्दैत्यस्तदा संस्पृष्टवान्महीम्1.45.
संदष्टौष्ठपुटः क्रुद्धो वराह इव पूर्वजः। गंगा भागीरथी चैव कौशिकी सरयूरपि
यमुना चाथ कावेरी कृष्णवेणी च निम्नगा। तुंगभद्रा महावेगा नदी गोदावरी तथा
चर्मण्वती च सिंधुश्च तथा नदनदीपतिः। मेलकप्रभवश्चैव शोणो मणिनिभोदकः
नर्मदा च शुभस्रोतास्तथा वेत्रवती नदी। गोमती गोकुलाकीर्णा तथा पूर्वा सरस्वती
महाकालमहीचैव तमसा पुष्पवाहिनी। जंबूद्वीपं रत्नवच्च सर्वरत्नोपशोभितम्
सुवर्णपुटकं चैव सुवर्णाकरमंडितम्। महानदश्च लौहित्यश्शैलः कांचनशोभितः
पत्तनं कोशकाराणां कशं च रजताकरम्। मगधाश्च महाग्रामाः पुण्ड्रा उग्रास्तथैव च
स्रुघ्ना मल्ला विदेहाश्च मालवाः काशि कोसलाः। भवनं वैनतेयस्य दैत्येंद्रेणाभिकंपितम्
कैलासशिखराकारं यत्कृतं विश्वकर्मणा। रत्नतोयो महाभीमो लौहित्यो नाम सागरः
उदयश्च महाशैल उच्छ्रितः शतयोजनम्। सवर्णवेदिकः श्रीमान्मेघपंक्तिनिषेवितः
भ्राजमानोर्कसदृशैर्जातरूपमयैर्द्रुमैः। सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः
अयोमुखश्च विख्यातः सर्वतो धातुमंडितः। तमालवनगंधश्च पर्वतो मलयः शुभः
सुराष्ट्राश्च सबाह्लीकाश्शूद्राभीरास्तथैव च। भोजाः पांड्याश्च वंगाश्च कलिंगास्ताम्रलिप्तकाः
तथैव पौंड्राः शुभ्राश्च वामचूडास्सकेरलाः। क्षोभितास्तेन दैत्येन देवाश्चाप्सरसां गणाः
अगस्त्यभवनं चैव यदगस्त्यकृतं पुरा। सिद्धचारणसंघैश्च विप्रकीर्णं मनोहरम्
विचित्रनानाविहगं सपुष्पितमहाद्रुमम्। जातरूपमयैः शृंगैरप्सरोगणसेवितम्
गिरिः पुष्पितकश्चैव लक्ष्मीवान्प्रियदर्शनः। उत्थितः सागरं भित्वा विश्रामश्चंद्रसूर्ययोः
रराज स महाशृंगैर्गगनं विलिखन्निव। चंद्रसूर्यांशुसंकाशैः सागरांबुसमावृतैः
विद्युत्त्वान्पर्वतः श्रीमानायतः शतयोजनम्। विद्युतां यत्र संपाता निपात्यंते नगोत्तमे
ऋषभः पर्वतश्चैव श्रीमानृषभसंस्थितः। कुंजरः पर्वतः श्रीमानगस्त्यस्य गृहं शुभम्
विमलाख्या च दुर्द्धर्षा सर्पाणां मालती पुरी। तथा भोगवती चापि दैत्येंद्रेणाभिकंपिता
महासेनगिरिश्चैव पारियात्रश्च पर्वतः। चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः
प्राग्ज्योतिषपुरं चापि जातरूपमयं शुभम्। यस्मिन्नुवास दुष्टात्मा नरको नाम दानवः
मेघश्च पर्वतश्रेष्ठो मेघगंभीरनिस्स्वनः। षष्टिस्तत्र सहस्राणि पर्वतानां विशांपते