लताश्च सफलाः सर्वा या आहुर्दैत्यनाशिकाः। फले फलान्यजायंत पुष्पे पुष्पं तथैव च
उन्मीलंति निमीलंति हसंति प्ररुदंति च। विक्रोशंति च गंभीरं धूमायंते ज्वलंति च
प्रतिमास्सर्वदेवानां कथयंत्यो महद्भयम्। आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः
चुक्रुशुर्भैरवं तत्र मृगयुद्ध उपस्थिते। नद्यश्च प्रतिकूलानि वहंति कलुषोदकाः
न प्राकाशंत च दिशो रक्तरेणुसमाकुलाः। वानस्पत्या न पूज्यंते पूजनार्हाः कथंचन
वायुवेगेन हन्यंते भज्यंते प्रणमंति च। तथा च सर्वभूतानां छाया न परिवर्त्तते
अपरेण गते सूर्ये सलोकानां युगक्षये। तदा हिरण्यकशिपोर्दैत्यस्योपरिवेश्मनः
भांडागारायुधागारे निविष्टमभवन्मधु। असुराणां विनाशाय सुराणां विजयाय च
दृश्यंते विविधोत्पाता घोराघोरनिदर्शनाः। एते चान्ये च बहवो घोररूपाः समुत्थिताः
दैत्येंद्रस्य विनाशाय दृश्यंते रणशंसिनः। मेदिन्यां कंपमानायां दैत्येंद्रेण महात्मनः
महीधरा नागगणा निपेतुरमितौजसः। विषज्वालाकुलैर्वक्त्रैर्विमुंचंतो हुताशनम्
चतुःशीर्षाः पंचशीर्षाः सप्तशीर्षाश्च पन्नगाः। वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ
एलामुखः कालियश्च महापद्मश्च वीर्यवान्। सहस्रशीर्षश्शुद्धांगो हेमतालध्वजः प्रभुः
शेषोनंतो महानागो ह्यप्रकंप्यश्च कंपिताः। दीप्यंतेंतर्जलस्थानि पृथिवीविवराणि वै
सप्तदैत्येंद्रकोपेन कंपितानि समंततः। नानातेजोधराश्चापि पातालतलचारिणः
पाताले सहसा क्षुब्धे दुष्प्रकंप्याः प्रकंपिताः। हिरण्यकशिपुर्दैत्यस्तदा संस्पृष्टवान्महीम्1.45.
संदष्टौष्ठपुटः क्रुद्धो वराह इव पूर्वजः। गंगा भागीरथी चैव कौशिकी सरयूरपि
यमुना चाथ कावेरी कृष्णवेणी च निम्नगा। तुंगभद्रा महावेगा नदी गोदावरी तथा
चर्मण्वती च सिंधुश्च तथा नदनदीपतिः। मेलकप्रभवश्चैव शोणो मणिनिभोदकः
नर्मदा च शुभस्रोतास्तथा वेत्रवती नदी। गोमती गोकुलाकीर्णा तथा पूर्वा सरस्वती
महाकालमहीचैव तमसा पुष्पवाहिनी। जंबूद्वीपं रत्नवच्च सर्वरत्नोपशोभितम्
सुवर्णपुटकं चैव सुवर्णाकरमंडितम्। महानदश्च लौहित्यश्शैलः कांचनशोभितः
पत्तनं कोशकाराणां कशं च रजताकरम्। मगधाश्च महाग्रामाः पुण्ड्रा उग्रास्तथैव च
स्रुघ्ना मल्ला विदेहाश्च मालवाः काशि कोसलाः। भवनं वैनतेयस्य दैत्येंद्रेणाभिकंपितम्
कैलासशिखराकारं यत्कृतं विश्वकर्मणा। रत्नतोयो महाभीमो लौहित्यो नाम सागरः
उदयश्च महाशैल उच्छ्रितः शतयोजनम्। सवर्णवेदिकः श्रीमान्मेघपंक्तिनिषेवितः
भ्राजमानोर्कसदृशैर्जातरूपमयैर्द्रुमैः। सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः
अयोमुखश्च विख्यातः सर्वतो धातुमंडितः। तमालवनगंधश्च पर्वतो मलयः शुभः
सुराष्ट्राश्च सबाह्लीकाश्शूद्राभीरास्तथैव च। भोजाः पांड्याश्च वंगाश्च कलिंगास्ताम्रलिप्तकाः
तथैव पौंड्राः शुभ्राश्च वामचूडास्सकेरलाः। क्षोभितास्तेन दैत्येन देवाश्चाप्सरसां गणाः