सुवर्णमालाकुलभूषितांगाः सुतीक्ष्णदंष्ट्राकुलवक्त्रगर्ताः। स्फुरत्प्रभास्ते च सशृंगदेहाश्चीनांशुका भांति यथैव हंसाः
सोसृजद्दानवो मायामग्निं वायुं समीरितम्। तमिंद्रस्तोयदैः सार्धं सहस्राक्षो महाद्युतिः
महता तोयवर्षेण शमयमास पावकम्। तस्यां प्रतिहतायां तु मायायां युधि दानवः
असृजद्घोरसंकाशं तमस्तीव्रं समंततः। तमसा संवृते लोके दैत्येष्वात्तायुधेषु च
स्वतेजसा परिवृतो दिवाकर इवोद्गतः। त्रिशिखां भ्रुकुटीमस्य ददृशुर्दानवा रणे
ललाटस्थां त्रिकूटस्थां गंगां त्रिपथगामिव। ततः सर्वासु मायासु हतासु दितिनंदनाः
हिरण्यकशिपुं दैत्या विषण्णाश्शरणं ययुः। ततः प्रज्वलितः क्रोधात्प्रदहन्निव तेजसा
तस्मिन्क्रुद्धे तु दैत्येंद्रे तमोभूतमभूज्जगत्। आवहः प्रवहश्चैव विवहोथ समीरणः
परावहस्संवहश्च उद्वहश्च महाबलः। तथा परिवहः श्रीमानुत्पातभयशंसिनः
इत्येवं क्षुभिताः सप्त मरुतो गगनेचराः। ये ग्रहास्सर्वलोकस्य क्षये प्रादुर्भवंति हि
ते सर्वे गगने हृष्टाव्यचरंश्च यथासुखम्। अयोगतश्चाप्यचरद्योगं निशि निशाचरः
सग्रहः सह नक्षत्रैस्तारापतिररिंदम। विवर्णतां च भगवान्गतो दिवि दिवाकरः
कृष्णः कबंधश्च तदा लक्ष्यते सुमहान्दिवि। असृजच्चासितां सूर्यो धूमवत्तां विभावसुः
गगनस्थश्च भगवानभीक्ष्णं परिविष्यते। सप्तधूमनिभा घोराः सूर्यादि विसमुत्थिताः
सोमस्य गगनस्थस्य ग्रहास्तिष्ठंति शृंङ्गगाः। वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती
शनैश्चरो लोहितांगो लोहितांगसमद्युतिः। समं समधिरोहंत सर्वे वै गगनेचराः
शृंगाणि शनकैर्घोरा युगांता वर्त्तन ग्रहाः। चंद्रमाश्च सनक्षत्रो ग्रहैः सह तमोनुदः
चराचरविनाशाय रोहिणीं नाभ्यनंदत। गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते
उल्काः प्रज्वलिताश्चंद्रे व्यचरंत यथासुखम्। देवानामधिपो देवः सोप्यवर्षत शोणितम्
अपतद्गगनादुल्का विद्युद्रूपा महास्वना। अकाले च द्रुमास्सर्वे पुष्प्यंति च फलंति च
लताश्च सफलाः सर्वा या आहुर्दैत्यनाशिकाः। फले फलान्यजायंत पुष्पे पुष्पं तथैव च
उन्मीलंति निमीलंति हसंति प्ररुदंति च। विक्रोशंति च गंभीरं धूमायंते ज्वलंति च
प्रतिमास्सर्वदेवानां कथयंत्यो महद्भयम्। आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः
चुक्रुशुर्भैरवं तत्र मृगयुद्ध उपस्थिते। नद्यश्च प्रतिकूलानि वहंति कलुषोदकाः
न प्राकाशंत च दिशो रक्तरेणुसमाकुलाः। वानस्पत्या न पूज्यंते पूजनार्हाः कथंचन
वायुवेगेन हन्यंते भज्यंते प्रणमंति च। तथा च सर्वभूतानां छाया न परिवर्त्तते
अपरेण गते सूर्ये सलोकानां युगक्षये। तदा हिरण्यकशिपोर्दैत्यस्योपरिवेश्मनः
भांडागारायुधागारे निविष्टमभवन्मधु। असुराणां विनाशाय सुराणां विजयाय च
दृश्यंते विविधोत्पाता घोराघोरनिदर्शनाः। एते चान्ये च बहवो घोररूपाः समुत्थिताः
दैत्येंद्रस्य विनाशाय दृश्यंते रणशंसिनः। मेदिन्यां कंपमानायां दैत्येंद्रेण महात्मनः