सनत्कुमारश्च महानुभावो विश्वे च देवा ॠषयश्च सर्वे। क्रोधश्च कामश्च तथैव हर्षो दर्पश्च मोहः पितरश्च सर्वे
प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुः। उवाच दानवान्सर्वान्गणांश्च सगणाधिपः
मृगेंद्रो गृह्यतामेष अपूर्वां तनुमास्थितः। यदि वा संशयः कश्चिद्वध्यतां वनगोचरः
ते दानवगणास्सर्वे मृगेंद्रं भीमविक्रमम्। परिक्षिपंतो मुदितास्त्रासयामासुरोजसा
सिंहनादं विमुच्याथ नरसिंहो महाबलः। बभंज तां सभां सर्वां व्यादितास्य इवांतकः
सभायां भज्यमानायां हिरण्यकशिपुः स्वयम्। चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः1.45.
सर्वास्त्राणामथ श्रेष्ठं दंडमस्त्रं सुदारुणम्। कालचक्रं तथा घोरं विष्णुचक्रं तथापरं
पैतामहं महात्युग्रं त्रैलोक्यनिर्मितं महत्। विचित्रामशनिं चैव शुष्काद्रं चाशनिद्वयम्
रौद्रं तथोग्रशूलं च कंकालं मुसलं तथा। अस्त्रं ब्रह्मशिरश्चैव ब्राह्ममस्त्रं तथैव च
नारायणास्त्रमैंद्रं च आग्नेयं शैशिरं तथा। वायव्यं मथनं चैव कपालमथ किंकरम्
तथा प्रतिहतां शक्तिं क्रौंचमस्त्रं तथैव च। मोहनं शोषणं चैव संतापनविलापने
कंपनं शातनं चैव महास्त्रं चैव रोधनम्। कालमुद्गरमक्षोभ्यं तापनं च महाबलम्
संवर्तनं मोहनं च तथा मायाधरं वरम्। गान्धर्वमस्त्रं दयितमसिरत्नं च नंदकम्
प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम्। अस्त्रं पाशुपतं चैव यस्या प्रतिहता गतिः
एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदा। असृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुतिम्
अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुरोत्तमः। विवस्वान्घर्मसमये हिमवंतमिवांशुभिः
स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः। क्षणेनाप्लावयत्सर्वं मैनाकमिव सागरः
प्रासैः पाशैश्च खड्गैश्च गदाभिर्मुसलैस्तथा। वज्रैरशनिभिश्चैव बहुशाखैर्महाद्रुमैः
मुद्गरैः कूटपाशैश्च शिलोलूखलपर्वतैः। शतघ्नीभिश्च दीप्ताभिर्दंडैरपि सुदारुणैः
ते दानवाः पाशगृहीतहस्ता महेंद्रतुल्याशनितुल्य वेगाः। समंततोभ्युद्यतबाहुकायाः स्थिताः सशीर्षा इव नागपोताः
सुवर्णमालाकुलभूषितांगाः सुतीक्ष्णदंष्ट्राकुलवक्त्रगर्ताः। स्फुरत्प्रभास्ते च सशृंगदेहाश्चीनांशुका भांति यथैव हंसाः
सोसृजद्दानवो मायामग्निं वायुं समीरितम्। तमिंद्रस्तोयदैः सार्धं सहस्राक्षो महाद्युतिः
महता तोयवर्षेण शमयमास पावकम्। तस्यां प्रतिहतायां तु मायायां युधि दानवः
असृजद्घोरसंकाशं तमस्तीव्रं समंततः। तमसा संवृते लोके दैत्येष्वात्तायुधेषु च
स्वतेजसा परिवृतो दिवाकर इवोद्गतः। त्रिशिखां भ्रुकुटीमस्य ददृशुर्दानवा रणे
ललाटस्थां त्रिकूटस्थां गंगां त्रिपथगामिव। ततः सर्वासु मायासु हतासु दितिनंदनाः
हिरण्यकशिपुं दैत्या विषण्णाश्शरणं ययुः। ततः प्रज्वलितः क्रोधात्प्रदहन्निव तेजसा
तस्मिन्क्रुद्धे तु दैत्येंद्रे तमोभूतमभूज्जगत्। आवहः प्रवहश्चैव विवहोथ समीरणः
परावहस्संवहश्च उद्वहश्च महाबलः। तथा परिवहः श्रीमानुत्पातभयशंसिनः
इत्येवं क्षुभिताः सप्त मरुतो गगनेचराः। ये ग्रहास्सर्वलोकस्य क्षये प्रादुर्भवंति हि