रक्तपीतारुणास्तत्र पादपाग्रगताः खगाः। परस्परमवैक्षंत प्रहृष्टा जीवजीविकाः
तस्यां सभायां दैत्येंद्रो हिरण्यकशिपुस्तदा। आसीन आसने चित्रे दशनल्वे प्रमाणतः
दिवाकरनिभे दिव्ये दिव्यास्तरणसंस्तृते। हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुंडलः
उपचेरुर्महादैत्या हिरण्यकशिपुं तदा। दिव्यतालानि गीतानि जगुर्गंधर्वसत्तमाः
विश्वाची सहजन्या च प्रम्लोचेति च पूजिता। दिव्याथ सौरभेयी च समीची पुंजिकस्थला
मिश्रकेशी च रंभा च चित्रभा श्रुतिविभ्रमा। चारुनेत्रा घृताची च मेनका चोर्वशी तथा
एतास्सहस्रशश्चान्या नृत्यगीतविशारदाः। उपातिष्ठंत राजानं हिरण्यकशिपुं प्रभुम्
उपासते दितेः पुत्राः सर्वे लब्धवरास्तथा। बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः
प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः। सुरहन्ता दुःखकर्ता समनास्सुमतिस्तथा
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा। विश्वरूपस्वरूपश्च विश्वकायो महाबलः
दशग्रीवश्च वाली च मेघवासा महासुरः। घटाभो विटरूपश्च ज्वलनश्चेंद्रतापनः
दैत्यदानवसंघास्ते सर्वे ज्वलितकुंडलाः। स्रग्विणो वर्मिणः सर्वे सर्वे च चरितव्रताः
सर्वे लब्धवराः शूरास्सर्वे विहितमृत्यवः। एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम्
उपासते महात्मानं सर्वे दिव्यपरिच्छदाः। विमानैर्विविधाकारैर्भ्राजमानैरिवाग्निभिः
महेन्द्रवपुषः सर्वे विचित्रांगदबाहवः। भूषितांगा दितेः पुत्रास्तमुपासत सर्वतः
ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः। न श्रुतं नैव दृष्टं च कस्यापि भुवनत्रये
रजतकनकचित्रवेदिकायां परिकृतरत्नविचित्रवीथिकायाम्। स ददर्श मृगाधिपः सभायां सुरुचिर जालगवाक्षशोभितायाम्
कनकवलयहारभूषितांगं दितितनयं स मृगाधिपो ददर्श। दिवसकरकरप्रभं ज्वलंतं दितिजसहस्रशतैर्निषेव्यमाणम्
ततो दृष्ट्वा महाभागं कालचक्रमिवागतम्। नारसिंहवपुश्छन्नं भस्मच्छन्नमिवानलम्
हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान्। दिव्येन वपुषा सिंहमपश्यद्देवमागतम्
तं दृष्ट्वा रुक्मशैलाभमपूर्वां तनुमाश्रितम्। विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः
प्रह्लाद उवाच-। महाराज महाबाहो दैत्यानामादिसंभव। न श्रुतं नैव मे दृष्टं नारसिंहमिदं वपुः
अव्यक्तं परमं दिव्यं किमिदं रूपमागतम्। दैत्यांतकरणं घोरं शंसतीव मनो मम
अस्य देवाः शरीरस्थाः सागराः सरितस्तथा। हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः
चंद्रमास्सहनक्षत्रैरादित्या रश्मिभिः सह। धनदो वरुणश्चैव यमः शक्रः शचीपतिः
मरुतो देवगंधर्वा ऋषयश्च तपोधनाः। नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः
ब्रह्मा देवाः पशुपतिर्ललाटस्था भ्रमंति हि। स्थावराणि च सर्वाणि जंगमानि तथैव च
भवांश्च सहितोस्माभिः सर्वैर्दैत्यगणैर्वृतः। विमानशतसंकीर्णा सर्वा या भवतः सभा
सर्वं त्रिभुवनं राजन्लोकधर्मश्च शाश्वतः। दृश्यते नरसिंहेस्मिंस्तथेदं निखिलं जगत्
प्रजापतिश्चात्र मनुर्महात्मा ग्रहाश्च योगाश्च मही नभश्च। उत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यं च तपो दमश्च