तेजसा भास्काराकारः शशीकांत्येव चापरः। नरस्य कृत्वार्धतनुं सिंहस्यार्द्धतनुं तथा
नारसिंहेन वपुषा पाणिं संगृह्य पाणिना। ततो ददर्श विस्तीर्णां दिव्यां रम्यां मनोरमाम्
सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम्। विस्तीर्णां योजनशतं शतमध्यर्द्धमायताम्
वैहायसीं कामगमां पंचयोजनमुच्छ्रिताम्। जराशोकक्षमापेतां निष्प्रकम्प्यां शिवां सुखाम्
वेश्मासनवतीं रम्यां ज्वलंतीमिव तेजसा। अंतःसलिलसंयुक्तां विहितां विश्वकर्मणा
दिव्यवर्णमयैर्वृक्षैः फलपुष्पप्रदैर्युताम्। नीलपीतासितश्यामैः श्वेतैर्लोहितकैरपि
अवदातैस्तथा गुल्मै रक्तमंजरिधारिभिः। सिताभ्रघनसंकाशां प्लवंतीं च ददर्श सः
रश्मिमती स्वभावेन दिव्यगंधमनोरमा। सुसुखा न च दुःखा सा न शीता न च घर्मदा
न क्षुत्पिपासे ग्लानिं वा प्राप्यतां प्राप्नुवंति ते। नानरूपैरुपकृता सुचित्रैश्च सुभास्वरैः
अतिचंद्रातिसूर्याति शिखिकान्ति स्वयंप्रभा। दीप्यते नाकपृष्ठस्था भासयंती विभासुरा
सर्वे चकाशिरे तस्यां मुदिताश्चैव मानुषाः। रसवच्च प्रभूतं च भक्ष्यभोज्यान्नमुत्तमं
पुण्यगंधास्रजश्चापि नित्यकालफला द्रुमाः। उष्णे शीतानि तोयानि शीते चोष्णानि संति वै
पुष्पिताग्रान्महाशाखान्प्रवालांकुरधारिणः। लतावितानसंछन्नान्कल्पानैक्षिष्ठ स प्रभुः
गंधवंति च पुष्पाणि रसवंति फलानि च। तानि शीतानि चोष्णानि तत्रतत्र सरांसि च
अपश्यद्भूपतीर्थानि सभायां तस्य स प्रभुः। नलिनैः पुंडरीकैश्च शतपत्रैः सुगंधिभिः
रक्तैः कुवलयैश्चैव कल्हारैरुत्पलैस्तथा। नानाश्चर्यसमोपेतैः पुष्पैरन्यैश्च सुप्रियैः1.45.
कारंडवैश्चक्रवाकैः सारसैः कुररैरपि। विमलस्फटिकाभानि पांडुरच्छदनैर्द्विजैः
बहुहंसोपगीतानि सारसानां रुतानि च। गंधयुक्ता लतास्तत्र पुष्पमंजरिधारिणीः
दृष्टवान्भगवान्हृष्टः खदिरान्वेतसार्जुनान्। चूतानिम्बानागवृक्षाः कदंबा बकुला धवाः
प्रियंगवः पाटलाख्याः शाल्मल्यस्स हरिद्रवाः। शालास्तालास्तमालाश्च चंपकाश्च मनोरमाः
तथैवान्ये व्यराजंत सभायां पुष्पिता द्रुमाः। एलाक कुभकंकोल लवली कर्णपूरकाः
मधुकाः कोविदाराश्च बहुतालसमुच्छ्रयाः। अंजनाशोकपर्णासा बहवश्चित्रका द्रुमाः
वरुणाश्च पलाशाश्चा पनसास्सह चंदनैः। नीलास्सुमनसश्चैव नीपाश्चाश्वत्थतिंदुकाः
पारिजाताश्च तरवो मल्लिका भद्रदारवः। अटरूषाः पीलूकाश्च तथा चैवैलवालुकाः
मंदारकाः कुरवका पुन्नागाः कुटजास्तथा। रक्ताः कुरवकाश्चैव नीलाश्चागरुभिः सह
किंशुकाश्चैव भव्याश्च दाडिमा बीजपूरकाः। कालेयका दुकूलाश्च हिंगवस्तैलवर्त्तिकाः
खर्जूरा नालिकेराश्च हरीतक मधूककाः। सप्तपर्णाश्च बिल्वाश्च सयावाश्च शरावताः
असनाश्च तमालाश्च नानागुल्मसमावृताः। लताश्च विविधाकाराः पुष्पपत्रफलोपगाः
एते चान्ये च बहवस्तत्र काननजा द्रुमाः। नानापुष्पफलोपेता व्यराजंत समंततः
चकोराः शतपत्राश्च मत्तकोकिलशारिकाः। पुष्पितान्पुष्पिताग्रांश्च संपतंति महाद्रुमान्