आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान्। सत्यधर्मपरान्दान्तान्धर्षयामास दानवः
देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः। त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः
यदा वरमदोत्सिक्तश्चोदितः कालधर्मिणा। यज्ञियानकरोद्दैत्यानयज्ञीयांश्च दैवतान्
तथा दैत्याश्च साध्याश्च विश्वे च वसवस्तथा। रुद्रा देवगणा यक्षा देवद्विजमहर्षयः
शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम्। देवदेवं यज्ञमयं वासुदेवं सनातनम्
देवा ऊचुः-। नारायण महाभाग देवास्त्वां शरणं गताः। त्रायस्व जहि दैत्येंद्रं हिरण्यकशिपुं प्रभो
त्वं हि नः परमोदाता त्वं हि नः परमो गुरुः। त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तमः
विष्णुरुवाच-। भयं त्यजद्ध्वममरा अभयं वो ददाम्यहम्। तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम्
एनं हि सगणं दैत्यं वरदानेन गर्वितम्। अवध्यममरेंद्राणां दानवेंद्रं निहन्म्यहम्
एवमुक्त्वा तु भगवान्विश्वपो विष्णुरव्ययः। हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः
तेजसा भास्काराकारः शशीकांत्येव चापरः। नरस्य कृत्वार्धतनुं सिंहस्यार्द्धतनुं तथा
नारसिंहेन वपुषा पाणिं संगृह्य पाणिना। ततो ददर्श विस्तीर्णां दिव्यां रम्यां मनोरमाम्
सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम्। विस्तीर्णां योजनशतं शतमध्यर्द्धमायताम्
वैहायसीं कामगमां पंचयोजनमुच्छ्रिताम्। जराशोकक्षमापेतां निष्प्रकम्प्यां शिवां सुखाम्
वेश्मासनवतीं रम्यां ज्वलंतीमिव तेजसा। अंतःसलिलसंयुक्तां विहितां विश्वकर्मणा
दिव्यवर्णमयैर्वृक्षैः फलपुष्पप्रदैर्युताम्। नीलपीतासितश्यामैः श्वेतैर्लोहितकैरपि
अवदातैस्तथा गुल्मै रक्तमंजरिधारिभिः। सिताभ्रघनसंकाशां प्लवंतीं च ददर्श सः
रश्मिमती स्वभावेन दिव्यगंधमनोरमा। सुसुखा न च दुःखा सा न शीता न च घर्मदा
न क्षुत्पिपासे ग्लानिं वा प्राप्यतां प्राप्नुवंति ते। नानरूपैरुपकृता सुचित्रैश्च सुभास्वरैः
अतिचंद्रातिसूर्याति शिखिकान्ति स्वयंप्रभा। दीप्यते नाकपृष्ठस्था भासयंती विभासुरा
सर्वे चकाशिरे तस्यां मुदिताश्चैव मानुषाः। रसवच्च प्रभूतं च भक्ष्यभोज्यान्नमुत्तमं
पुण्यगंधास्रजश्चापि नित्यकालफला द्रुमाः। उष्णे शीतानि तोयानि शीते चोष्णानि संति वै
पुष्पिताग्रान्महाशाखान्प्रवालांकुरधारिणः। लतावितानसंछन्नान्कल्पानैक्षिष्ठ स प्रभुः
गंधवंति च पुष्पाणि रसवंति फलानि च। तानि शीतानि चोष्णानि तत्रतत्र सरांसि च
अपश्यद्भूपतीर्थानि सभायां तस्य स प्रभुः। नलिनैः पुंडरीकैश्च शतपत्रैः सुगंधिभिः
रक्तैः कुवलयैश्चैव कल्हारैरुत्पलैस्तथा। नानाश्चर्यसमोपेतैः पुष्पैरन्यैश्च सुप्रियैः1.45.
कारंडवैश्चक्रवाकैः सारसैः कुररैरपि। विमलस्फटिकाभानि पांडुरच्छदनैर्द्विजैः
बहुहंसोपगीतानि सारसानां रुतानि च। गंधयुक्ता लतास्तत्र पुष्पमंजरिधारिणीः
दृष्टवान्भगवान्हृष्टः खदिरान्वेतसार्जुनान्। चूतानिम्बानागवृक्षाः कदंबा बकुला धवाः
प्रियंगवः पाटलाख्याः शाल्मल्यस्स हरिद्रवाः। शालास्तालास्तमालाश्च चंपकाश्च मनोरमाः