अहं क्रोधश्च कामश्च वरुणो वासवो यमः। धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः
ब्रह्मोवाच -। एष दिव्यो वरस्तात मया दत्तस्तवाद्भुतः। सर्वकामप्रदो वत्स प्राप्स्यसि त्वं न संशयः
एवमुक्त्वा स भगवान्जगामाकाशमेव हि। वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम्
ततो देवाश्च गंधर्वा ऋषिभिः सह चारणाः। वरप्रदानं श्रुत्वैवं पितामहमुपस्थिताः
देवा ऊचुः-। वरप्रदानाद्भगवन्वधिष्यति स नोऽसुरः। तत्प्रसादश्च भगवन्वधोप्यस्य विचिंत्यताम्
भगवान्सर्वभूतानामादिकर्त्ता स्वयंप्रभुः। स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिः परः
सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः। आश्वासयामास तदा सुशीतैर्वचनांबुभिः
अवश्यं त्रिदशानेन प्राप्तव्यं तपसः फलं। तपसोऽन्तेऽस्य भगवान्वधं विष्णुः करिष्यति
तच्छ्रुत्वा विबुधा वाक्यं सर्वे पंकजजाननात्। स्वानि स्थानानि दिव्यानि विप्रजग्मुर्मुदान्विताः
लब्धमात्रे वरे सोथ प्रजास्सर्वा अबाधत। हिरण्यकशिपुर्दैत्यो वरदानेन गर्वितः
आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान्। सत्यधर्मपरान्दान्तान्धर्षयामास दानवः
देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः। त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः
यदा वरमदोत्सिक्तश्चोदितः कालधर्मिणा। यज्ञियानकरोद्दैत्यानयज्ञीयांश्च दैवतान्
तथा दैत्याश्च साध्याश्च विश्वे च वसवस्तथा। रुद्रा देवगणा यक्षा देवद्विजमहर्षयः
शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम्। देवदेवं यज्ञमयं वासुदेवं सनातनम्
देवा ऊचुः-। नारायण महाभाग देवास्त्वां शरणं गताः। त्रायस्व जहि दैत्येंद्रं हिरण्यकशिपुं प्रभो
त्वं हि नः परमोदाता त्वं हि नः परमो गुरुः। त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तमः
विष्णुरुवाच-। भयं त्यजद्ध्वममरा अभयं वो ददाम्यहम्। तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम्
एनं हि सगणं दैत्यं वरदानेन गर्वितम्। अवध्यममरेंद्राणां दानवेंद्रं निहन्म्यहम्
एवमुक्त्वा तु भगवान्विश्वपो विष्णुरव्ययः। हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः
तेजसा भास्काराकारः शशीकांत्येव चापरः। नरस्य कृत्वार्धतनुं सिंहस्यार्द्धतनुं तथा
नारसिंहेन वपुषा पाणिं संगृह्य पाणिना। ततो ददर्श विस्तीर्णां दिव्यां रम्यां मनोरमाम्
सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम्। विस्तीर्णां योजनशतं शतमध्यर्द्धमायताम्
वैहायसीं कामगमां पंचयोजनमुच्छ्रिताम्। जराशोकक्षमापेतां निष्प्रकम्प्यां शिवां सुखाम्
वेश्मासनवतीं रम्यां ज्वलंतीमिव तेजसा। अंतःसलिलसंयुक्तां विहितां विश्वकर्मणा
दिव्यवर्णमयैर्वृक्षैः फलपुष्पप्रदैर्युताम्। नीलपीतासितश्यामैः श्वेतैर्लोहितकैरपि
अवदातैस्तथा गुल्मै रक्तमंजरिधारिभिः। सिताभ्रघनसंकाशां प्लवंतीं च ददर्श सः
रश्मिमती स्वभावेन दिव्यगंधमनोरमा। सुसुखा न च दुःखा सा न शीता न च घर्मदा
न क्षुत्पिपासे ग्लानिं वा प्राप्यतां प्राप्नुवंति ते। नानरूपैरुपकृता सुचित्रैश्च सुभास्वरैः
अतिचंद्रातिसूर्याति शिखिकान्ति स्वयंप्रभा। दीप्यते नाकपृष्ठस्था भासयंती विभासुरा