प्राणांतकरणं जातं देवानां दानवा हवं। देवान्निपीडितान्दृष्ट्वा कुमारः कोपमाविशत्
ततोस्त्रैर्दारयामास दानावानामनीकिनीम्। तैरस्त्रैर्निष्प्रतीकारैस्ताडितास्सुरकंटकाः
कालनेमिमुखाः सर्वे रणे ह्यासन्पराङ्मुखाः। विद्रुतेषु च दैत्येषु प्रहतेषु समंततः
किन्नरोद्गारगीतैश्च हास्यसन्यस्तचेतनः। जघ्ने कुमारं गदया निष्टप्तकनकत्विषा
शरैर्मयूरं चित्रैश्च चकार विमुखं रणे। दृष्ट्वा पराड्मुखो देवो मुक्तरक्तं स्ववाहनम्
जग्राह शक्तिं विमलां रणे कनकभूषणाम्। बाहुना हेमकेयूर रुचिरेण षडाननः
ततोब्रवीन्महासेनस्तारकं दानवाधिपम्। तिष्ठतिष्ठ सुदुर्बुद्धे यमलोकं विलोकय
हतो ह्यसि मया शक्त्या स्मर स्वं दैत्यचेष्टितम्। इत्युक्त्वा तु ततः शक्तिं मुमोच दितिजं प्रति
सा कुमारभुजोत्सृष्टा तत्केयूररवानुगा। बिभेद दैत्यहृदयं वज्रशैलेंद्रकर्कशम्
गतासुः स पपातोर्व्यां प्रलये भूधरो यथा। विकीर्णमकुटोष्णीषो विस्रस्ताखिलभूषणः
तस्मिन्विनिहते दैत्ये दानवानां धुरंधरे। नाभूत्कश्चित्तदा दुःखी नरकेष्वपि पापकृत्
स्तुवंतः षण्मुखं देवाः प्राक्रीडन्नागतस्मिताः। जग्मुः स्वानेव भुवनान्निरस्यासंस्तथोत्सुकाः
ददुश्चापि वरं सर्वे देवाश्च षण्मुखं प्रति। तुष्टाः संप्राप्तसर्वार्थास्सहसिद्धैस्तपोधनैः
देवा ऊचुः। यः पठेत्स्कंदसंबंधां कथामेतां महामतिः। शृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः
बह्वायुः सुभगः श्रीमान्कीर्तिमान्शुभदर्शनः। भूतेभ्यो निर्भयश्चापि सर्वदुःखविवर्जितः
संध्यामुपास्य यः पूर्वां स्कंदस्य चरितं पठेत्। स युक्तः किन्नरैः सर्वैर्महाधनपतिर्भवेत्
भीष्म उवाच-। इदानीं श्रोतुमिच्छामि हिरण्यकशिपोर्वधम्। नरसिंहस्य माहात्म्यं तथा पापविनाशनम्
पुलस्त्य उवाच-। पुरा कृतयुगे राजन्हिरण्यकशिपुः प्रभुः। दैत्यानामादिपुरुषश्चकार सुमहत्तपः
दशवर्षसहस्राणि दशवर्षशतानि च। जलवासी समभवत्स्नानमौनधृतव्रतः
वृतः शमदमाभ्यां च ब्रह्मचर्येण चैव हि। ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च
ततः स्वयंभूर्भगवान्स्वयमागत्य तत्र हि। विमानेनार्कवर्णेन हंसयुक्तेन भास्वता
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्सह। रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः
दिग्भिश्चैव विदिग्भिश्च नदीभिः सागरैस्तथा। नक्षत्रैश्च मुहूर्तैश्च खचरैश्च महाग्रहैः
देवैर्ब्रह्मर्षिभिः सार्द्धं सिद्धैः सप्तर्षिभिस्तथा। राजर्षिभिः पुण्यकृद्भिर्गंधर्वाप्सरसांगणैः
चराचरगुरुः श्रीमान्वृतः सर्वैर्दिवौकसैः। ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत्
प्रीतोस्मि तव भक्तस्य तपसाऽनेन सुव्रत। वरं वरय भद्रं ते यथेष्टं काममाप्नुहि
हिरण्यकशिपुरुवाच-। न देवासुरगंधर्वा न यक्षोरगराक्षसाः। न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम
ऋषयो मानवाः शापैर्न शपेयुः पितामह। यदि मे भगवान्प्रीतो वर एष वृतो मया
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा। न शुष्केण न चार्द्रेण न स्याच्चान्येन मे वधः
भवेयमहमेवार्कः सोमो वायुर्हुताशनः। सलिलं चांतरिक्षं च नक्षत्राणि दिशो दश