शृणु तारक शास्त्रार्थ इह नैव निरूप्यते। शस्त्रैरर्था न दृश्यंते समरे निर्भरं भये
शिशुत्वं मावमंस्था मे शिशुः कष्टो भुजंगमः। दुष्प्रेक्षो भास्करो बालस्तथाहं दुर्जयः शिशुः
अल्पाक्षरो न मंत्रः किं सस्फुरो दैत्य दृश्यते। कुमारे प्रोक्तवत्येवं दैत्यश्चिक्षेप मुद्गरं
कुमारस्तं निरासोग्रं चक्रेणामोघवर्चसा। ततश्चिक्षेप दैत्येंद्रो भिंदिपालमयोमयं
करेण तं च जग्राह कार्तिकेयोमरारिहा। गदां मुमोच दैत्याय समुत्थाय खरस्वनाम्
तया हतस्ततो दैत्यश्चकम्पेचलराडिव। मेने च दुर्जयं दैत्यस्तदाबालं सुदुःसहं
चिंतयामास बुद्ध्या वै प्राप्तः कालो न संशयः। कंपितं च समालोक्य कालनेमि पुरोगमाः
सर्वे देत्यैश्वरा जघ्नुः कुमारं रणदारुणं। स तैः प्रहारैरस्पृष्टस्तथा क्लैशैर्महाद्युतिः1.44.
स बालो बलिभिर्वेगैरयुध्यद्दानवै रणे। रणशौण्डाश्च दैत्येंद्रा पुःनर्जघ्नुः शिलीमुखैः
कुमारं समरे दैत्या बलिनो देवकंटकाः। कुमारस्य व्यथा नाभूद्दैत्यास्त्रनिहतस्य तु
प्राणांतकरणं जातं देवानां दानवा हवं। देवान्निपीडितान्दृष्ट्वा कुमारः कोपमाविशत्
ततोस्त्रैर्दारयामास दानावानामनीकिनीम्। तैरस्त्रैर्निष्प्रतीकारैस्ताडितास्सुरकंटकाः
कालनेमिमुखाः सर्वे रणे ह्यासन्पराङ्मुखाः। विद्रुतेषु च दैत्येषु प्रहतेषु समंततः
किन्नरोद्गारगीतैश्च हास्यसन्यस्तचेतनः। जघ्ने कुमारं गदया निष्टप्तकनकत्विषा
शरैर्मयूरं चित्रैश्च चकार विमुखं रणे। दृष्ट्वा पराड्मुखो देवो मुक्तरक्तं स्ववाहनम्
जग्राह शक्तिं विमलां रणे कनकभूषणाम्। बाहुना हेमकेयूर रुचिरेण षडाननः
ततोब्रवीन्महासेनस्तारकं दानवाधिपम्। तिष्ठतिष्ठ सुदुर्बुद्धे यमलोकं विलोकय
हतो ह्यसि मया शक्त्या स्मर स्वं दैत्यचेष्टितम्। इत्युक्त्वा तु ततः शक्तिं मुमोच दितिजं प्रति
सा कुमारभुजोत्सृष्टा तत्केयूररवानुगा। बिभेद दैत्यहृदयं वज्रशैलेंद्रकर्कशम्
गतासुः स पपातोर्व्यां प्रलये भूधरो यथा। विकीर्णमकुटोष्णीषो विस्रस्ताखिलभूषणः
तस्मिन्विनिहते दैत्ये दानवानां धुरंधरे। नाभूत्कश्चित्तदा दुःखी नरकेष्वपि पापकृत्
स्तुवंतः षण्मुखं देवाः प्राक्रीडन्नागतस्मिताः। जग्मुः स्वानेव भुवनान्निरस्यासंस्तथोत्सुकाः
ददुश्चापि वरं सर्वे देवाश्च षण्मुखं प्रति। तुष्टाः संप्राप्तसर्वार्थास्सहसिद्धैस्तपोधनैः
देवा ऊचुः। यः पठेत्स्कंदसंबंधां कथामेतां महामतिः। शृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः
बह्वायुः सुभगः श्रीमान्कीर्तिमान्शुभदर्शनः। भूतेभ्यो निर्भयश्चापि सर्वदुःखविवर्जितः
संध्यामुपास्य यः पूर्वां स्कंदस्य चरितं पठेत्। स युक्तः किन्नरैः सर्वैर्महाधनपतिर्भवेत्
भीष्म उवाच-। इदानीं श्रोतुमिच्छामि हिरण्यकशिपोर्वधम्। नरसिंहस्य माहात्म्यं तथा पापविनाशनम्
पुलस्त्य उवाच-। पुरा कृतयुगे राजन्हिरण्यकशिपुः प्रभुः। दैत्यानामादिपुरुषश्चकार सुमहत्तपः
दशवर्षसहस्राणि दशवर्षशतानि च। जलवासी समभवत्स्नानमौनधृतव्रतः
वृतः शमदमाभ्यां च ब्रह्मचर्येण चैव हि। ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च