जय चलितललित चूडाकलापनवविमलकमल। दंडकांत दैत्येशवंश दुःसह दावानल
जय विशाखविभोजय बालसप्तवासर भुवनालिशोकशमन जय सकललोक दितिसुतधुरंधरनाशक स्कंद
श्रुत्वैतत्तारकः सर्वमुद्घुष्टं देववंदिभिः। सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितं
स्मृत्वा धर्मौघविध्वंसी सदा वीरपदानुगः। मंदिरान्निर्जगामाशु शोकग्रस्तेन चेतसा
कालनेमिमुखा दैत्याः संत्रस्ता भ्रांतचेतसः। स्वेष्वनीकेषु च तदा त्वरा विस्मितचेतसः
हिरण्यकशिपुः प्राह दानवानां धुरंधरः। त्रपाकरं भवेन्मह्यं बालस्यास्य पलायनम्
यद्यहं हंतवे यामि सोपि वै कमलाश्रितः। हत्वाहं बालकं चैनं दुःस्पर्शः स्यामकारणं
यात धावत गृह्णीत योजयध्वं वरूथिनीम्। कुमारं तारको दृष्ट्वा बभाषे भीषणाकृतिः
किं बाल योद्धुकामोसि क्रीडकंदुकलीलया। येनातपो निसृष्टस्ते सत्संगरविभाषक
बालत्वादथ ते बुद्धिरेवं स्वल्पार्थदर्शिनी। कुमारोपि तमग्रस्थं बभाषे हर्षवत्तमं
शृणु तारक शास्त्रार्थ इह नैव निरूप्यते। शस्त्रैरर्था न दृश्यंते समरे निर्भरं भये
शिशुत्वं मावमंस्था मे शिशुः कष्टो भुजंगमः। दुष्प्रेक्षो भास्करो बालस्तथाहं दुर्जयः शिशुः
अल्पाक्षरो न मंत्रः किं सस्फुरो दैत्य दृश्यते। कुमारे प्रोक्तवत्येवं दैत्यश्चिक्षेप मुद्गरं
कुमारस्तं निरासोग्रं चक्रेणामोघवर्चसा। ततश्चिक्षेप दैत्येंद्रो भिंदिपालमयोमयं
करेण तं च जग्राह कार्तिकेयोमरारिहा। गदां मुमोच दैत्याय समुत्थाय खरस्वनाम्
तया हतस्ततो दैत्यश्चकम्पेचलराडिव। मेने च दुर्जयं दैत्यस्तदाबालं सुदुःसहं
चिंतयामास बुद्ध्या वै प्राप्तः कालो न संशयः। कंपितं च समालोक्य कालनेमि पुरोगमाः
सर्वे देत्यैश्वरा जघ्नुः कुमारं रणदारुणं। स तैः प्रहारैरस्पृष्टस्तथा क्लैशैर्महाद्युतिः1.44.
स बालो बलिभिर्वेगैरयुध्यद्दानवै रणे। रणशौण्डाश्च दैत्येंद्रा पुःनर्जघ्नुः शिलीमुखैः
कुमारं समरे दैत्या बलिनो देवकंटकाः। कुमारस्य व्यथा नाभूद्दैत्यास्त्रनिहतस्य तु
प्राणांतकरणं जातं देवानां दानवा हवं। देवान्निपीडितान्दृष्ट्वा कुमारः कोपमाविशत्
ततोस्त्रैर्दारयामास दानावानामनीकिनीम्। तैरस्त्रैर्निष्प्रतीकारैस्ताडितास्सुरकंटकाः
कालनेमिमुखाः सर्वे रणे ह्यासन्पराङ्मुखाः। विद्रुतेषु च दैत्येषु प्रहतेषु समंततः
किन्नरोद्गारगीतैश्च हास्यसन्यस्तचेतनः। जघ्ने कुमारं गदया निष्टप्तकनकत्विषा
शरैर्मयूरं चित्रैश्च चकार विमुखं रणे। दृष्ट्वा पराड्मुखो देवो मुक्तरक्तं स्ववाहनम्
जग्राह शक्तिं विमलां रणे कनकभूषणाम्। बाहुना हेमकेयूर रुचिरेण षडाननः
ततोब्रवीन्महासेनस्तारकं दानवाधिपम्। तिष्ठतिष्ठ सुदुर्बुद्धे यमलोकं विलोकय
हतो ह्यसि मया शक्त्या स्मर स्वं दैत्यचेष्टितम्। इत्युक्त्वा तु ततः शक्तिं मुमोच दितिजं प्रति
सा कुमारभुजोत्सृष्टा तत्केयूररवानुगा। बिभेद दैत्यहृदयं वज्रशैलेंद्रकर्कशम्
गतासुः स पपातोर्व्यां प्रलये भूधरो यथा। विकीर्णमकुटोष्णीषो विस्रस्ताखिलभूषणः