ददुर्मुदितचेतस्काः स्कंदायादित्यवर्चसे। जानुभ्यामवनौ स्थित्वा सुरसंघास्तमस्तुवन्
स्तोत्रेणानेन वरदं षण्मुखं मुख्यशः सुराः। देवा ऊचुः-। नमः कुमाराय महाप्रभाय स्कंदाय चास्कंदितदानवाय
नवार्कबिंबप्रतिमप्रभाव नमोस्तु गुह्याय गुहाय तुभ्यम्। नमोस्तु ते लोकभयापहाय नमोस्तु ते लोककृपापराय
नमो विशालामललोचनाय नमो विशाखाय महाव्रताय। नमो नमस्तेस्तु रणोत्कटाय नमो मयूरोज्ज्वलवाहनाय
नमोस्तु केयूरधराय तुभ्यं नमो धृतोदग्रपताकिने ते। नमः प्रभावप्रणताय तेस्तु नमोऽस्तु घंटाधरधैर्यशालिने
कुमार उवाच-। कं वः कामं प्रयच्छामि भवंतो ब्रूतनिर्वृताः। यद्यप्य साध्यं कृत्यं नो हृदये चिंतितं चिरम्
इत्युक्तास्तु सुरास्तेन प्रोचुः प्रणतमौलयः। सर्व एव महात्मानं गुहं मुदितमानसाः
दैत्येंद्रस्तारको नाम सर्वामरकुलांतकृत्। बलवान्दुर्जयस्तीक्ष्णो दुराचारोतिकोपनः
तमेव जहि दुर्धर्षं दैत्यं सर्वविनाशनम्। उपस्थितः कृत्यशेषो ह्यस्माकं च भयावहः
हिरण्यकशिपुश्चोग्रो ह्यवध्यो देवतागणैः। यज्ञघ्नः पापकर्मा वै येन ब्रह्मापि तापितः
एतौ हरस्व भद्रं ते तावकं च महाबलम्। एवमुक्तस्तथेत्युक्त्वा सर्वामरपदानुगः
जगाम जगतांनाथस्तूयमानोमरेश्वरैः। तारकस्य वधार्थाय जगतां कंटकस्य च
ततश्च प्रेषयामास शक्रो गूढसमाश्रयः। दूतं दानवसिंहस्य परुषाक्षरवादिनम्
स तु गत्वाब्रवीद्दैत्यमभयो भीमदर्शनम्। दूत उवाच। शक्रस्त्वामाह देवेशो दैत्यकेतुं दिवस्पतिः
तारकासुर तच्छक्त्या घटयस्व यथेच्छया। यज्जगज्ज्वलनोद्दीप्तं किल्बिषं च त्वया कृतम्
तस्याहं सादकस्तेद्य राजास्मि भुवनत्रये। श्रुत्वैतदद्भुतं वाक्यं कोपसंरक्तलोचनः
उवाच दूतं दुष्टात्मा नष्टप्रायविभूतिकः। तारक उवाच-। दृष्टं ते पौरुषं शक्र शतशोथ महारणे
निस्त्रपत्वान्न ते शांतिर्विद्यते शक्र दुर्मते। एवमुक्ते गते दूते चिंतयामास दानवः
नालब्धसंश्रयः शक्रो वक्तुमेवमिहार्हति। जातः स्कंदोधुना शक्राज्ज्ञायते समुपाश्रयात्
निमित्तौघांस्तदा दुष्टान्सोपश्यन्नाशवेदिनः। पांसुवर्षमसृक्पातं गगनादवनीतले
वामनेत्रप्रकंपं च वक्त्रशोषं मनोमयम्। स्वकानां वक्त्रपद्मानां म्लानतां च व्यलोकयत्
दुष्टांश्च प्राणिनो रौद्रान्सोपश्यद्दुष्टवादिनः। तदचिंत्यैव दितिजो न्यस्तचित्तोभवत्क्षणात्
यावद्गजघटाघंटा घनत्काररवोत्कटाम्। तद्वत्तुरंगसंघातहेषोत्साहविभूषिताम्
सैन्यैस्सेनान्तरोदग्र ध्वजराजैर्विराजिताम्। विमानैश्चाद्भुताकारैश्चलितामलचामरैः
विभूषणपिनद्धां च किन्नरोद्गीतनादिताम्। नाना नाकतरूत्फुल्ल कुसुमापीडधारिणीम्
विशोकास्त्रपरिस्फार चर्मनिर्मलदर्शिनीं। विद्युत्पुष्टद्युतिधरां नानावाद्यविनादिताम्
सेनां नाकसदां दैत्यः प्रासादस्थो व्यलोकयत्। सचिंतयामास तदा किंचिद्विभ्रांतमानसः
अपूर्वः को भवेद्योद्धा यो मया न विनिर्जितः। ततश्चिंताकुलो दैत्यः शुश्राव कटुकाक्षरम्। सिद्धवंदिभिरुद्घुष्टमिदं हृदयदारुणम्
जयातुलशक्तिदीधितिपंजरभुजदंडप्रचंडतर। रभससुरवदनकुमुदविकासनविलासनेत्र कुमारवर
जय दितिजकुलमहोदधि बडवानल मधुरमयूररथ सुरमकुट कोटि कुंचित चरण नखांकुर महासेन