प्रविश्य पक्षिरंध्रेण शुकरूपी हुताशनः। ददर्श शयने सर्वं रतौ गिरिजया सह
ददर्श तं च देवेशो हुताशं शुकरूपिणं। तमुवाच महादेवः किंचित्कोपसमन्वितः
शर्व उवाच। निषिक्तमर्धं देव्यां मे वीर्यं च शुकविग्रह। लज्जया विरतिश्चास्य त्वमर्धं पिब पावक
यस्मात्तु त्वत्कृते विघ्नं तस्मात्त्वय्युपपद्यते। इत्युक्तः प्राञ्जलिर्वह्निरपिबद्वीर्यमाहितं
तेनाप्लुतास्ततो देवास्तन्मुखा ऋभवो यतः। विपाट्य जठरं तेषां वीर्यं माहेश्वरं ततः
निष्क्रांतं तप्तहेमाभं वितते शंकराश्रमे। तस्मिन्सरो महज्जातं विमलं बहुयोजनं
प्रोत्फुल्लहेमकमलं नानाविहगनादितम्। तच्छ्रुत्वा तु सरो देवी जातं हेममहांबुजम्
जगाम कौतुकाविष्टा तत्सरः कनकांबुजम्। तत्र कृत्वा जलक्रीडां तदब्जकृतशेखरा
उपविष्टा ततस्तस्य तीरे देवी सखीवृता। पातुकामा च तत्तोयं स्वादुनिर्मलपंकजम्
अपश्यत्कृत्तिकास्तास्स षडर्कद्युतिसन्निभाः। पद्मपत्रे तु तद्वारि गृहीत्वा प्रस्थिता गृहम्
हर्षात्सोवाच पास्यामि पद्मपत्रे स्थितं पयः। ततःस्ता ऊचुरखिलाः कृत्तिका हिमशैलजाम्
कृत्तिका ऊचुः-। दास्यामो दयिते गर्भे संभूतो यो भविष्यति। सोस्माकमपि पुत्रः स्यादस्मत्त्राता च वृत्तिमान्
त्रिषु लोकेषु विख्यातः सर्वेष्वपि शुभानने। इत्युक्तोवाच गिरिजा कथं मद्गात्रसंभवैः
सर्वैरवयवैर्युक्तो भवतीभ्यः सुतो भवेत्। ततस्तां कृत्तिका ऊचुर्विधास्यामोस्य वै वयम्
उत्तमान्युत्तमांगानि यद्येवं तु भविष्यति। उक्ता वै शैलजा प्राह भवत्वेवमनिंदिताः
ततस्तु हर्षसंपूर्णा पद्मपत्रस्थितं पयः। तस्यै ददुस्तया चापि तत्पीतं क्रमशो जलम्
पीते तु सलिले चैव तस्मिन्नेव क्षणे वरः। विपाट्य देव्याश्च ततो दक्षिणं कुक्षिमुद्गतः
निश्चक्रामाद्भुतो बालो रोगशोकविनाशनः। प्रभाकरकरव्रात प्रकारप्रकरप्रभुः
गृहीतनिर्मलोदग्र शक्तिशूलांकुशोनलः। दीप्तो मारयितुं दैत्यानुत्थितः कनकच्छविः
एतस्मात्कारणादेव कुमारश्चापि सोभवत्। वामं विदार्य निष्क्रांतस्ततो देव्याः पुनः शिशुः
स्कंदोथ वदनाद्वह्नेः शुभ्रात्षड्वदनोरिहा। कृत्तिकासलिलादेव शाखाभिः सविशेषतः
शाखाः शिवाः समाख्याताः षट्सुवक्त्रेषु विस्तृताः। यतस्ततो विशाखोसौ ख्यातो लोकेषु षण्मुखः
स्कंदो विशाखः षड्वक्त्रः कार्तिकेयश्च विश्रुतः। पक्षे चैत्रस्य बहुले पंचदश्यां महाबलौ
संभूतावर्कसदृशौ विशाले शरकानने। सिते पक्षे तु पंचम्यां तथैतौ पावकानलौ
बालकाभ्यां चकारैकं संध्यायामेव भूतये। तस्यामेव ततः षष्ठ्यामभिषिक्तो गुहः प्रभुः
सर्वैरमरसंघातैर्ब्रह्मोपेंद्रेंद्र भास्करैः। गंधमाल्यैः शुभैर्धूपैस्तथा क्रीडनकैरपि
छत्रैश्चामरजालैश्च भूषणैश्च विलेपनैः। अभिषिक्तो विधानेन यथावत्षण्मुखः प्रभुः
सुतामस्मै ददौ शक्रो देवसेनेति विश्रुताम्। पत्न्यर्थं देवदेवेशो ददौ विष्णुरथायुधम्1.44.
यक्षाणां दशलक्षाणि ददावस्य धनाधिपः। ददौ हुताशनस्तेजो ददौ वायुश्च वाहनम्
ददौ क्रीडनकं त्वष्टा कुक्कुटं कामरूपिणम्। एवं सुरास्तु ते सर्वे परिवारमनन्तकम्