विमलयोगविनिर्मितदुर्जये सुतनुतुल्यमहेश्वरमंडली। विदलितांधकबांधवसंहतिः सुरवरैः प्रथमं त्वमभिष्टुता
सितसटापटलोद्धतकंधराभवमहामृगराजरयस्थिता। विमलशक्तिमुखानलपिंगला यतभुजौघनिपिष्टमहासुरा
निगदिता भुवनैरतिचंडिकाजननिशुंभनिशुंभनिषूदिनी। प्रणतचिंतितदा भवदा नवप्रशमनैकरतिस्तरसा भुवि
वियतिवायुपथे ज्वलनाकुलेवनितले तव देवि च यद्वपुः। तदजितेप्रतिमे प्रणमाम्यहं भुवनभाविनिते भववल्लभे
जलधयो ललितोद्धतवीचयो हुतवहो द्युतिदग्धचराचरः। फणसहस्रभृतश्च भुजंगमास्त्वमभिधास्यसि मामभयंकरा
भगवति स्थिरभक्तजनाश्रये प्रतिगतो भवतीचरणाश्रयं। करणजातमिहास्तु ममाश्रवैतवविलासमुखानुभवास्यदम्
सुप्रसन्ना ततो देवी वीरकस्येति संस्तुता। प्रविवेश शुभंभर्तुर्भुवनं भूधरात्मजा
द्वास्थोपि वीरको देवान्हरदर्शनकांक्षिणः। व्यसर्जयत्स्वकानेव गृहानादरपूर्वकं
नास्त्यत्रावसरो देवा देव्याः सह वृषाकपिः। निभृतः क्रीडतीत्युक्ता ययुस्ते च यथागतं
गते वर्षसहस्रे तु देवास्त्वरितमानसाः। ज्वलनं चोदयामासुर्ज्ञातुं शंकरचेष्टितं
प्रविश्य पक्षिरंध्रेण शुकरूपी हुताशनः। ददर्श शयने सर्वं रतौ गिरिजया सह
ददर्श तं च देवेशो हुताशं शुकरूपिणं। तमुवाच महादेवः किंचित्कोपसमन्वितः
शर्व उवाच। निषिक्तमर्धं देव्यां मे वीर्यं च शुकविग्रह। लज्जया विरतिश्चास्य त्वमर्धं पिब पावक
यस्मात्तु त्वत्कृते विघ्नं तस्मात्त्वय्युपपद्यते। इत्युक्तः प्राञ्जलिर्वह्निरपिबद्वीर्यमाहितं
तेनाप्लुतास्ततो देवास्तन्मुखा ऋभवो यतः। विपाट्य जठरं तेषां वीर्यं माहेश्वरं ततः
निष्क्रांतं तप्तहेमाभं वितते शंकराश्रमे। तस्मिन्सरो महज्जातं विमलं बहुयोजनं
प्रोत्फुल्लहेमकमलं नानाविहगनादितम्। तच्छ्रुत्वा तु सरो देवी जातं हेममहांबुजम्
जगाम कौतुकाविष्टा तत्सरः कनकांबुजम्। तत्र कृत्वा जलक्रीडां तदब्जकृतशेखरा
उपविष्टा ततस्तस्य तीरे देवी सखीवृता। पातुकामा च तत्तोयं स्वादुनिर्मलपंकजम्
अपश्यत्कृत्तिकास्तास्स षडर्कद्युतिसन्निभाः। पद्मपत्रे तु तद्वारि गृहीत्वा प्रस्थिता गृहम्
हर्षात्सोवाच पास्यामि पद्मपत्रे स्थितं पयः। ततःस्ता ऊचुरखिलाः कृत्तिका हिमशैलजाम्
कृत्तिका ऊचुः-। दास्यामो दयिते गर्भे संभूतो यो भविष्यति। सोस्माकमपि पुत्रः स्यादस्मत्त्राता च वृत्तिमान्
त्रिषु लोकेषु विख्यातः सर्वेष्वपि शुभानने। इत्युक्तोवाच गिरिजा कथं मद्गात्रसंभवैः
सर्वैरवयवैर्युक्तो भवतीभ्यः सुतो भवेत्। ततस्तां कृत्तिका ऊचुर्विधास्यामोस्य वै वयम्
उत्तमान्युत्तमांगानि यद्येवं तु भविष्यति। उक्ता वै शैलजा प्राह भवत्वेवमनिंदिताः
ततस्तु हर्षसंपूर्णा पद्मपत्रस्थितं पयः। तस्यै ददुस्तया चापि तत्पीतं क्रमशो जलम्
पीते तु सलिले चैव तस्मिन्नेव क्षणे वरः। विपाट्य देव्याश्च ततो दक्षिणं कुक्षिमुद्गतः
निश्चक्रामाद्भुतो बालो रोगशोकविनाशनः। प्रभाकरकरव्रात प्रकारप्रकरप्रभुः
गृहीतनिर्मलोदग्र शक्तिशूलांकुशोनलः। दीप्तो मारयितुं दैत्यानुत्थितः कनकच्छविः
एतस्मात्कारणादेव कुमारश्चापि सोभवत्। वामं विदार्य निष्क्रांतस्ततो देव्याः पुनः शिशुः