ब्रह्मोवाच-। किं पुनः प्राप्तुकामासि किमलभ्यं ददामि ते। विरम्यतामतिक्लेशात्तपसोस्मान्मदाज्ञया
तच्छ्रुत्वोवाचगिरिजा गुरोर्गौरवयंत्रितं। वाक्यं वाचाहरोद्गीर्णवर्णनिर्गमवांछितं
देव्युवाच-। तपसा दुष्करेणाप्तः पतिर्वै शंकरो मया। समां श्यामलवर्णेति बहुशः प्रोक्तवान्रहः
तस्मादहं कांचनाभवर्णा तन्नामसंयुता। भर्तुर्भूतपतेरंगमेकतो निर्विषं भवेत्
तस्यास्तद्भाषितं श्रुत्वा प्रोवाच जगदीश्वरः। एवं भव त्वं भूयश्च भर्तुर्देहार्द्धचारिणी
ततस्तत्याजतां कृष्णां फुल्लनीलोत्पलत्वचं। त्वक्च साप्यभवद्भीमा घंटाहस्तात्रिलोचना
नानाभरणसंपूर्णा पीतकौशेयधारिणी। तामब्रवीत्ततो ब्रह्मा देवीं नीलांबुजत्विषं
निशे भूधरजा देह संपर्का त्वं मदाज्ञया। संप्राप्ता कृतकृत्यत्वमेकानंशा पुरो ह्यसि
य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने। स तेस्तु वाहनं देवि केतौ चास्तु महाबलः
गच्छ विंध्याचलं तत्र सुरकार्यं करिष्यसि। पंचालो नाम यक्षोयं यक्षलक्षपदानुगः
दत्तस्ते किंकरो देवि मया मायाशतैर्युतः। इत्युक्त्वा कौशिकी देवी विंध्यशैलं जगाम ह
उमापि प्राप्तसंकल्पा जगाम गिरिशांतिकं। प्रविशंतीं तु तां द्वारादपहृत्य समाहितः
रुरोध वीरको देवीं हेमवेत्रलताधरः। तामुवाच च कोपेन रूपे तु व्यभिचारिणीं
प्रयोजनं न तेत्रास्ति गच्छ यावन्न भक्ष्यसे। देव्यारूपधरो दैत्यो देवं वंचितुमागतः
प्रविष्टो न च दृष्टोसौ स च देवेन घातितः। घातिते चाहमाज्ञप्तो नीलकंठेन कोपिना
द्वारे त्वनवधानं ते यस्मात्पश्यामि वै ततः। भविष्यसि न मे द्वास्थो वर्षपूगाननेकशः
अतस्ते नात्र दास्यामि प्रवेशं गम्यतां द्रुतम्। एकां मुक्त्वा गिरिसुतां मातरं स्नेहवत्सलाम्
प्रवेशं लभते नान्या नारी कमललोचने। इत्युक्त्वा तु तदा देवी चिंतयामास चेतसा1.44.
नारी नैव स दैतेयो वायुर्मे यामभाषत। वृथैव वीरकश्शप्तो मया क्रोधपरीतया
अकार्यं क्रियते मूढैः प्रायः क्रोधसमन्वितैः। क्रोधेन नश्यते कीर्तिः क्रोधो हंति स्थितां श्रियम्
अपरिच्छिन्नतत्वार्था पुत्रं शापितवत्यहं। विपरीतार्थबुद्धीनां सुलभो विपदागमः
संचिंत्यैवमुवाचेदं वीरकं प्रति शैलजा। सज्जलज्जाविकारेण वदनेनाम्बुजत्विषा
देव्युवाच-। अहं वीरक ते माता न तेस्तु मनसो भ्रमः। शंकरस्यास्मि दयिता सुता तुहिनभूभृतः
मम गात्रच्छविभ्रांत्या मा शंकां पुत्र धारय। तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना
मया शप्तोस्यविदिते वृत्तांते दैत्यनिर्मिते। ज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्थिते
ननिवर्तयितुं शक्यः शापः किंतु ब्रवीमि ते। शीघ्रमेष्यसि मानुष्यात्सर्वकामसमन्वितः
शिरसा तु ततो वंद्य मातरं पूर्णमानसः। उवाच साध्वीं पूर्णेन्दु द्युतिं तुहिनशैलजां
वीरक उवाच-। नतसुरासुरमौलिलसन्मणिप्रवरकांतिकरालिनखाङ्घ्रिके। नगसुते शरणागतवत्सले नवनमोवनतार्त्तिविनाशिनि
तपनमंडलमंडितकंधरे पृथुसुवर्णनगद्युतिहारिके। विषमभंगविषंगमभीषितो गिरिसुते भवतीमहमाश्रये
जगतिकाप्रणताभिमता ददौ झटिति सिद्धिमृते भवतीं यथा। जगतिकां प्रणमेच्छशिशेखरो भुवनभृन्मुनयो भवतीं यथा