आजन्ममरणाद्यैश्च कृतमेतद्व्रतोत्तमम् । यथोक्तविधिना सम्यक्ते मान्या भवतामपि
एकादश्यां यतश्चाहं भवद्भिः प्रतिबोधितः । अतश्चैषा तिथिर्मान्या सदैव प्रीतिदा मम
व्रतद्वयं सम्यगिदं नरैः कृतं कृष्णस्य सान्निध्यदमस्ति नान्यत् । दानानि तीर्थानि तपांसि यज्ञाः स्वर्लोकदानेन सदा सुरोत्तमाः
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्र संहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शंखासुरवधउद्यमोनाम नवतितमोऽध्यायः
नारद उवाच। अथोर्जव्रतिनः सम्यगुद्यापनविधिं नृप । तच्छृणुष्व मयाख्यातं किं विधानं समासतः
ऊर्ज्जशुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती । व्रतसंपूर्णतार्थाय विष्णुप्रीत्यर्थमेव च
तुलस्या उपरिष्टात्तु कुर्यान्मंडपिकां शुभाम् । सुतोरणां चतुर्द्वारां पुष्पचामरशोभिताम्
द्वारेषु द्वारपालांश्च पूजयेन्मृन्मयान्पृथक् । पुण्यशीलं सुशीलं च जयं विजयमेव च
तुलसीमूलदेशे च सर्वतोभद्रमालिखेत् । चतुर्भिर्वर्णकैः सम्यक्शोभाढ्यं समलंकृतम्
तस्योपरिष्टात्सपिधानं पंचरत्नसमन्वितम् । महाफलेन संयुक्तं कुंभं तत्र निधाय च
पूजयेत्तत्र देवेशं शंखचक्रगदाधरम् । कौशेयपीतवसनं युक्तं जलधिकन्यया
इंद्रादिलोकपालांश्च पूजयेन्मंडले व्रती । द्वादश्यां प्रतिबुद्धः स त्रयोदश्यां यतः सुरैः
दृष्टोऽर्चितश्चतुर्दश्यां तस्मात्पूज्यस्तथाधिकम् । तस्यामुपवसेद्भक्त्या शांतः प्रयतमानसः
पूजयेद्देवदेवेशं सौवर्णं गुर्वनुज्ञया । उपचारैः षोडशभिर्नानाभक्ष्यसमन्वितैः
रात्रौ जागरणं कुर्याद्गीतवाद्यादि मंगलैः । गीतं कुर्वंति ये भक्त्या जागरे चक्रपाणिनः
जन्मांतरशतोद्भूतैस्ते मुक्ताः पापसंचयैः । जागरे वासरे विष्णोर्गीतं नृत्यं च कुर्वताम्
गोसहस्रं च ददतां तत्फलं समुदाहृतम् । गीतनृत्यादिकं कुर्वन्दर्शयेत्कौतुकानि च
पुरतो वासुदेवस्य रात्रौ यो हरिजागरे । पठन्विष्णुचरित्राणि यो रंजयति वैष्णवान्
मुखेन कुरुते वाद्यं स्वेच्छालापांश्च दर्शयन् । भावैरेतैर्नरो यस्तु कुरुते हरिजागरम्
दिनेदिने तस्य पुण्यं तीर्थकोटिसमं स्मृतम् । ततस्तु पौर्णिमास्यां वै सपत्नीकान्द्विजोत्तमान्
त्रिंशन्मिताननेकान्वा स्वशक्त्या वा निमंत्रयेत् । वरान्दत्त्वा यतो विष्णुर्मत्स्यरूपी अभूत्तदा
तस्यां दत्तं हुतं जप्तं तदक्षयफलं स्मृतम् । अतस्तान्भोजयेद्विप्रान्पायसान्नादिना व्रती
अतो देवा इति द्वाभ्यां जुहुयात्तिलपायसम् । प्रीत्यर्थं देवदेवस्य देवानां च पृथक्पृथक्
दक्षिणां च यथाशक्ति प्रदद्यात्प्रणमेच्च तान् । पुनर्देवं समभ्यर्च्य देवांश्च तुलसीं तथा
ततो गां कपिलां तत्र पूजयेद्विधिवद्व्रती । गुरुं व्रतोपदेष्टारं वस्त्रालंकरणादिभिः
सपत्नीकं समभ्यर्च्य गां च तस्मै प्रदापयेत् । युष्मत्प्रसादाद्देवेशः प्रसन्नो मे भवेत्तदा
व्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया । तत्सर्वं नाशमायातु स्थिरा मे चास्तु संततिः
मनोरथाश्च सफलाः संतु नित्यं ममार्चनात् । देहांते वैष्णवं स्थानं प्राप्नुयामतिदुर्लभम्
इति क्षमाप्यतान्विप्रान्प्रसाद्य च विसर्जयेत् । तामर्चां गुरवे दद्याद्रत्नयुक्तां तदा व्रती
तदा सुहृद्गुरुयुतः स्वयं भुंजति भक्तिमान् । कार्त्तिके वाथ तपसि विधिरेवंविधः स्मृतः