न चाबुध्यत तद्वृत्तं वीरको द्वाररक्षकः। कुसुमामोदिनं दृष्ट्वा स्त्रीरूपं दानवेश्वरम्
दूतेन मारुतेनाशु बोधिता हिमशैलजा। श्रुत्वा वायुमुखाद्देवी क्रोधरक्ताविलेक्षणा
अपश्यद्वीरकं पुत्रं हृदयेनैव दूयता। देव्युवाच। मातरं मां परित्यज्य यस्मात्त्वं स्नेहविक्लवाम्
विहितावसरः स्त्रीणां शंकरस्य रहोविधौ। तस्मात्ते मानुषे रूक्षा जडा हृदयवर्जिता
गणेशाकारसदृशी शिला माता भविष्यति। निमित्त एष विख्यातो वीरकस्य सुतादरात्
संभवे प्रक्रमे चैव विचित्राख्या न संशयः। एवमुत्सृष्टशापायां गिरिपुत्र्यामनंतरं
निर्जगाम मुखात्क्रोधः सिंहरूपी महाबलः। स तु सिंहः करालास्यः सटाजटिलकंधरः
ऊर्ध्वप्रोद्भूतलांगूलो दंष्ट्रोत्कटमुखावटः। व्यादितास्यो लंबजिह्वः क्षामः कुक्षिबलादिषु
अस्यास्ये वर्तितुं देवी व्यवस्थितवती तदा। ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः
आजगामाश्रमपदं संपदामाश्रयं यतः। आगम्योवाच देवेशो गिरिजां स्पष्टया गिरा
ब्रह्मोवाच-। किं पुनः प्राप्तुकामासि किमलभ्यं ददामि ते। विरम्यतामतिक्लेशात्तपसोस्मान्मदाज्ञया
तच्छ्रुत्वोवाचगिरिजा गुरोर्गौरवयंत्रितं। वाक्यं वाचाहरोद्गीर्णवर्णनिर्गमवांछितं
देव्युवाच-। तपसा दुष्करेणाप्तः पतिर्वै शंकरो मया। समां श्यामलवर्णेति बहुशः प्रोक्तवान्रहः
तस्मादहं कांचनाभवर्णा तन्नामसंयुता। भर्तुर्भूतपतेरंगमेकतो निर्विषं भवेत्
तस्यास्तद्भाषितं श्रुत्वा प्रोवाच जगदीश्वरः। एवं भव त्वं भूयश्च भर्तुर्देहार्द्धचारिणी
ततस्तत्याजतां कृष्णां फुल्लनीलोत्पलत्वचं। त्वक्च साप्यभवद्भीमा घंटाहस्तात्रिलोचना
नानाभरणसंपूर्णा पीतकौशेयधारिणी। तामब्रवीत्ततो ब्रह्मा देवीं नीलांबुजत्विषं
निशे भूधरजा देह संपर्का त्वं मदाज्ञया। संप्राप्ता कृतकृत्यत्वमेकानंशा पुरो ह्यसि
य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने। स तेस्तु वाहनं देवि केतौ चास्तु महाबलः
गच्छ विंध्याचलं तत्र सुरकार्यं करिष्यसि। पंचालो नाम यक्षोयं यक्षलक्षपदानुगः
दत्तस्ते किंकरो देवि मया मायाशतैर्युतः। इत्युक्त्वा कौशिकी देवी विंध्यशैलं जगाम ह
उमापि प्राप्तसंकल्पा जगाम गिरिशांतिकं। प्रविशंतीं तु तां द्वारादपहृत्य समाहितः
रुरोध वीरको देवीं हेमवेत्रलताधरः। तामुवाच च कोपेन रूपे तु व्यभिचारिणीं
प्रयोजनं न तेत्रास्ति गच्छ यावन्न भक्ष्यसे। देव्यारूपधरो दैत्यो देवं वंचितुमागतः
प्रविष्टो न च दृष्टोसौ स च देवेन घातितः। घातिते चाहमाज्ञप्तो नीलकंठेन कोपिना
द्वारे त्वनवधानं ते यस्मात्पश्यामि वै ततः। भविष्यसि न मे द्वास्थो वर्षपूगाननेकशः
अतस्ते नात्र दास्यामि प्रवेशं गम्यतां द्रुतम्। एकां मुक्त्वा गिरिसुतां मातरं स्नेहवत्सलाम्
प्रवेशं लभते नान्या नारी कमललोचने। इत्युक्त्वा तु तदा देवी चिंतयामास चेतसा1.44.
नारी नैव स दैतेयो वायुर्मे यामभाषत। वृथैव वीरकश्शप्तो मया क्रोधपरीतया
अकार्यं क्रियते मूढैः प्रायः क्रोधसमन्वितैः। क्रोधेन नश्यते कीर्तिः क्रोधो हंति स्थितां श्रियम्