यतस्ततोपि दैत्येंद्र मृत्युः प्राप्यश्शरीरिभिः। इत्युक्तो दैत्यसिंहस्तु प्रोवाचांबुजसंभवम्
रूपस्यपरिवर्तो मे यदा स्यात्पद्मसंभव। तदा मृत्युर्मम भवेदन्यथा त्वमरोस्म्यहम्
इत्युक्तस्तु तदोवाच तुष्टः कमलसंभवः। यदा द्वितीयो रूपस्य विवर्त्तस्ते भविष्यति
तदा ते भविता मृत्युरन्यथा न भविष्यति। इत्युक्तोमरतां मेने दैत्यसूनुर्महाबलः
तस्मिन्काले त्वसंस्मृत्य तद्वधोपायमात्मनः। प्रतिहर्तुर्दृष्टिपथे वीरकस्याभवंस्तदा
भुजंगरूपी रंध्रेण प्रविवेश दृशःपथम्। परिहृत्य गणेशस्य दानवो रौद्रदुर्जयः
अलक्षितो गणेशेन प्रविश्याथ परां तनुम्। भुजंगरूपं संत्यज्य जग्राहाथ महासुरः
उमारूपं रमयितुं गिरिशं मूढचेतनः। कृत्वा मायामयं रूपमप्रतर्क्यं मनोहरम्
सर्वैरवयवैः पूर्णं सर्वाभिज्ञानबृंहितम्। कृत्वा भगांतरे दंतं दैत्यो वज्रमयं दृढम्
तीक्ष्णाग्रं बुद्धिमोहेन गिरिशं हंतुमुद्यतः। कृत्वोमारूपसंस्थानं गतो दैत्यो हरांतिकम्
पापो रम्याकृतिश्चित्र भूषणांबरसंयुतः। तं दृष्ट्वा गिरिशस्तुष्टस्तमालिंग्य महासुरम्
मन्यमानो गिरिसुतां सर्वैरवयवांतरैः। अपृच्छत्साधुभावं ते गिरिपुत्रि न कृत्रिमम्
या त्वं मदाशयं ज्ञात्वा प्राप्तेह वरवर्णिनी। त्वया विरहितं शून्यं मम स्थानं जगत्त्रयम्
प्राप्ता प्रसन्नवदने युक्तमेवंविधं त्वयि। इत्युक्तो दानवेंद्रस्तु तं बभाषे स्मितं शनैः
स चाबुध्यदभिज्ञानैः प्राह त्रिपुरघातिनम्। दैत्य उवाच। यातास्मि तपसः कामाद्वरं लब्धुं हिमाचलम्
रतिश्च तत्र मेनाभूत्ततः प्राप्ता त्वदंतिकम्। इत्युक्तः शंकरः शंकां चित्ते प्राप्तो विचारयन्
हृदयेन समाधाय देवः प्रहसिताननः। कुपिता कुपितं बुद्ध्वा प्रकृत्या च दृढव्रता
अप्राप्तकामा संप्राप्ता किमेतत्संविजानती। इति चिंत्य हरस्तस्या अभिज्ञानं विचारयन्
नापश्यद्वामपार्श्वे तु तदंकं पद्मलक्षणम्। लोम्नामावर्तरचितं ततो देवः पिनाकधृक्
बुद्ध्वा तां दानवीं मायामाकारं गूहयंस्ततः। मेढ्रदंष्ट्रास्त्रमादाय दानवं तमसादयत्
न चाबुध्यत तद्वृत्तं वीरको द्वाररक्षकः। कुसुमामोदिनं दृष्ट्वा स्त्रीरूपं दानवेश्वरम्
दूतेन मारुतेनाशु बोधिता हिमशैलजा। श्रुत्वा वायुमुखाद्देवी क्रोधरक्ताविलेक्षणा
अपश्यद्वीरकं पुत्रं हृदयेनैव दूयता। देव्युवाच। मातरं मां परित्यज्य यस्मात्त्वं स्नेहविक्लवाम्
विहितावसरः स्त्रीणां शंकरस्य रहोविधौ। तस्मात्ते मानुषे रूक्षा जडा हृदयवर्जिता
गणेशाकारसदृशी शिला माता भविष्यति। निमित्त एष विख्यातो वीरकस्य सुतादरात्
संभवे प्रक्रमे चैव विचित्राख्या न संशयः। एवमुत्सृष्टशापायां गिरिपुत्र्यामनंतरं
निर्जगाम मुखात्क्रोधः सिंहरूपी महाबलः। स तु सिंहः करालास्यः सटाजटिलकंधरः
ऊर्ध्वप्रोद्भूतलांगूलो दंष्ट्रोत्कटमुखावटः। व्यादितास्यो लंबजिह्वः क्षामः कुक्षिबलादिषु
अस्यास्ये वर्तितुं देवी व्यवस्थितवती तदा। ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः
आजगामाश्रमपदं संपदामाश्रयं यतः। आगम्योवाच देवेशो गिरिजां स्पष्टया गिरा