द्वाररक्षा त्वया कार्या नित्यं रन्ध्रान्ववेक्षणम्। यथा न काचित्प्रविशेद्योषित्तत्र हरांतिकम्
दृष्ट्वा परस्त्रियं चापि वदेथा मम पुत्रक। शीघ्रमेव करिष्यामि यथायुक्तमनंतरम्
एवमस्त्विति देवेशीं वीरकोवाच सांप्रतम्। मातुराज्ञामृताहार प्लावितांगो गतज्वरः
जगाम रक्षां स द्रष्टुं प्रणिपत्य तु मातरम्। देवी चापश्यदायांतीं सखीं मातुर्विभूषिताम्
कुसुमामोहिनीं नाम तस्य शैलस्य देवताम्। सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा
क्व पुत्रि गच्छसीत्युच्चैरालिग्योवाच देवता। सा तस्याः सर्वमाचख्यौ शंकरात्कोपकारणम्
पुनश्चोवाचगिरिजा देवतां मातृसंमिताम्। उमोवाच-। नित्यं शैलाधिराजस्य देवतात्वमनिंदिते
सर्वतः सन्निधानं ते मनसातीव वत्सला। अतस्तु ते प्रवक्ष्यामि यद्विधेयं त्वयांबिके
अन्यस्त्रीसंप्रवेशस्तु त्वया रक्ष्यः प्रयत्नतः। सरहस्ये प्रयत्नेन निषेव्यः सततं गिरौ
पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयानघे। ततोहं संविधास्यामि यत्क्षमं तदनंतरम्
इत्युक्ता तां तथेत्युक्त्त्वा जगाम सा गिरिं शुभा। उमापि पितुरुद्यानं जगामाद्रिसुताद्भुतम्
अंतरिक्षं समाविश्य मेघमालाविलप्रभम्। भूषणानि ततो न्यस्य वृक्षवल्कलधारिणी
ग्रीष्मे पंचाग्निसंतप्ता वर्षासु च जलोषिता। वन्याहारा निराहारा शुष्कस्थंडिलशायिनी
एवं साधयती तत्र तपः सा च व्यवस्थिता। ज्ञात्वा गतां गिरिसुतां दैत्यस्तत्रांतरे बली
अंधकस्य सुतो हृष्टः पितुर्वधमनुस्मरन्। देवान्सर्वान्विजित्याजौ बकभ्राता रणोत्कटः
आडिर्नामांतरप्रेक्षी सततं चंद्रमौलिनः। आजगामामररिपुः पुरं त्रिपुरघातिनः
स तत्रागत्य ददृशे वीरकं द्वार्यवस्थितम्। विचिंत्य सोपि च वरं दत्तं कमलयोनिना
हते किलांधके दैत्ये गिरिशेनासुरद्विषा। आडिश्चकार विपुलं तपः परमदारुणम्1.44.
समागत्याब्रवीद्ब्रह्मा तपसा परितोषितः। किमाडे दानवश्रेष्ठ तपसा प्राप्तुमिच्छसि
ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे। ब्रह्मोवाच-। जातानामिह संसारे विना मृत्युं न युज्यते
यतस्ततोपि दैत्येंद्र मृत्युः प्राप्यश्शरीरिभिः। इत्युक्तो दैत्यसिंहस्तु प्रोवाचांबुजसंभवम्
रूपस्यपरिवर्तो मे यदा स्यात्पद्मसंभव। तदा मृत्युर्मम भवेदन्यथा त्वमरोस्म्यहम्
इत्युक्तस्तु तदोवाच तुष्टः कमलसंभवः। यदा द्वितीयो रूपस्य विवर्त्तस्ते भविष्यति
तदा ते भविता मृत्युरन्यथा न भविष्यति। इत्युक्तोमरतां मेने दैत्यसूनुर्महाबलः
तस्मिन्काले त्वसंस्मृत्य तद्वधोपायमात्मनः। प्रतिहर्तुर्दृष्टिपथे वीरकस्याभवंस्तदा
भुजंगरूपी रंध्रेण प्रविवेश दृशःपथम्। परिहृत्य गणेशस्य दानवो रौद्रदुर्जयः
अलक्षितो गणेशेन प्रविश्याथ परां तनुम्। भुजंगरूपं संत्यज्य जग्राहाथ महासुरः
उमारूपं रमयितुं गिरिशं मूढचेतनः। कृत्वा मायामयं रूपमप्रतर्क्यं मनोहरम्
सर्वैरवयवैः पूर्णं सर्वाभिज्ञानबृंहितम्। कृत्वा भगांतरे दंतं दैत्यो वज्रमयं दृढम्
तीक्ष्णाग्रं बुद्धिमोहेन गिरिशं हंतुमुद्यतः। कृत्वोमारूपसंस्थानं गतो दैत्यो हरांतिकम्