विकल्पः स्वस्थचित्ते तु गिरिजे न मम क्रमात्। यद्येवं कुपिता भीरु तत्तवाहं न वै पुनः
नर्मवादी भविष्यामि जहि कोपं शुचिस्मिते। शिरसा प्रणतेनैष रचितस्ते मयांजलि
नि हीनो ह्यपमानेन निंदिते नैति विक्रियाम्। असतां तु सतां न स्यान्मर्मस्पृष्टो नरः किल
अनेकैश्चाटुभिर्देवी देवेन प्रतिबोधिता। कोपं तीव्रं न तत्याज सती मर्मणि घट्टिता
अवष्टब्धमथाच्छिद्य वासः शंकरपाणिना। विपर्यस्तालकावेगाद्गन्तुमैच्छच्च शैलजा
तस्या व्रजंत्याः कोपेन पुनराह पुरांतकः। सत्यं सर्वैरवयवैस्तनोषि सदृशां पितुः
हिमाचलस्य शृंगस्थमेव जालाकुलं मनः। तथा दुरवगाह्येभ्यो गहनो हि तवाशयः
काठिन्यमश्मसारेभ्यो वनेभ्यो बहुलां गता। कुटिलत्वं निम्नगाभ्यो दुःसेव्यत्वं हिमादपि
संक्रांतं सर्वमेवैतत्तन्वंगि हिमभूधरात्। इत्युक्ता सा पुनः प्राह गिरिशं शैलकन्यका
कोपकंपितमूर्द्धा सा प्रस्फुरद्दशनच्छदा। उमोवाच-। स्यात्सर्वं दोषदानेन निंदायां गुणिनो बलात्
तवापि दुष्टसंपर्कात्संक्रांतं सर्वमेव हि। व्यालेभ्योनेकजिह्वत्वं भस्मनोऽस्नेहवृत्तिता
हृत्कालुष्यं शशांकोत्थं दुर्बाधत्वं विषादपि। किं चात्र बहुनोक्तेन अलं वाचां श्रमेण ते
श्मशानवासान्निर्भीस्त्वं नग्नत्वात्तवनत्रपा। निर्घृणत्वं कपालित्वाद्दया ते विगता चिरम्
इत्युक्त्वा मंदिरात्तस्मान्निर्जगाम हिमाद्रिजा। तस्यां व्रजंत्यां देवेश्यां गणैः किलकिलाकृता
क्व मातर्गच्छसीत्युक्त्वा रुदद्भिर्धावितं पुनः। विष्टभ्य चरणौ देव्या वीरको बाष्पगद्गदः
प्रोवाच मातः किन्न्वेतत्क्व यासि कुपितातुरा। अहं त्वामनुयास्यामि व्रजंतीं स्नेहवर्जिताम्
नोचेत्पतिष्ये शिखराद्गिरेरस्य त्वयोज्झितः। उन्नम्यवदनं देवी दक्षिणेन तु पाणिना
उवाच वीरकं माता त्वं शोकं पुत्र मा कृथाः। शैलाग्रात्पतितुं नैव न च गंतुं मया सह
युक्तं ते पुत्र गच्छामि येन कार्येण तच्छृणु। कृष्णेत्युक्ता हरेणाहं स्तंभितास्म्यवमानिता
साहं तपः करिष्यामि येन गौरीत्वमाप्नुयाम्। एष स्त्रीलंपटो देवो यातायां मय्यनंतरम्
द्वाररक्षा त्वया कार्या नित्यं रन्ध्रान्ववेक्षणम्। यथा न काचित्प्रविशेद्योषित्तत्र हरांतिकम्
दृष्ट्वा परस्त्रियं चापि वदेथा मम पुत्रक। शीघ्रमेव करिष्यामि यथायुक्तमनंतरम्
एवमस्त्विति देवेशीं वीरकोवाच सांप्रतम्। मातुराज्ञामृताहार प्लावितांगो गतज्वरः
जगाम रक्षां स द्रष्टुं प्रणिपत्य तु मातरम्। देवी चापश्यदायांतीं सखीं मातुर्विभूषिताम्
कुसुमामोहिनीं नाम तस्य शैलस्य देवताम्। सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा
क्व पुत्रि गच्छसीत्युच्चैरालिग्योवाच देवता। सा तस्याः सर्वमाचख्यौ शंकरात्कोपकारणम्
पुनश्चोवाचगिरिजा देवतां मातृसंमिताम्। उमोवाच-। नित्यं शैलाधिराजस्य देवतात्वमनिंदिते
सर्वतः सन्निधानं ते मनसातीव वत्सला। अतस्तु ते प्रवक्ष्यामि यद्विधेयं त्वयांबिके
अन्यस्त्रीसंप्रवेशस्तु त्वया रक्ष्यः प्रयत्नतः। सरहस्ये प्रयत्नेन निषेव्यः सततं गिरौ
पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयानघे। ततोहं संविधास्यामि यत्क्षमं तदनंतरम्