कांचनोत्तुंग शृंगावरोहक्षितौ हैमरेणूत्करासंगपिंगद्युतिः। खेचराणां वने चापि रम्ये बभौ रूपसंपत्प्रकारोगणो वासितुम्
मंदरेकंदरे चारुवापीतटे कुन्दमंदारपुष्पप्रवालांबुजे। सिद्धनारीभिरापीतरूपामृतं विस्तृतैर्नेत्रमात्रैरनुन्मेषिभिः1.43.
वीरकं शैलपुत्री निमेषांतरादस्मरत्पुत्रगृध्नुर्विनोदार्थिनी। सोपि तादृक्क्षणावाप्तपुण्योदयो यो हि जन्मांतरेऽस्यात्मजत्वं ततः
क्रीडतस्तस्य तृप्तिः कथं जायते योपि भावाज्यग? द्वेधसा तेजसा। कलिपतःप्रेक्षणं दिव्यगीतक्षणं नृत्यलोलैर्गणैशैः प्रवृत्यक्षणं
सिंहनादाकुले गंडशैले ज्वलद्रत्नजाले बृहत्सालतालेक्षणम्। फुल्लनाना तमालालिकालेक्षणं वृक्षमूले विलोलोमरालेक्षणम्
स्वल्पपंके जले पंकजांकेक्षणं मातुरंके शुभे निष्कलंकेक्षणम्। परिक्रीडते बाललीलाविसारी गणेशाधिपा देवतानंदकारी
निकुंजेषु विद्याधरोद्गीतशीलः पिनाकीव लीलाविलासैः सलीलः। प्रकाश्य भुवनं गोभिस्ततो दिनकरे गते
देशांतरं तदा पश्चाद्दूरस्थो धरणीधरः। मित्रत्वमस्य सुदृढं हृदये द्योतयन्निव
नित्यमाराधितो विप्रैः श्रीमान्विघनसः सुतः। नाकरोत्सवितुर्मेरुरुपकारं पतिष्यतः
जनेष्वेषा व्यवस्थेति श्रूयते स्रवलितो ह्यधः। दिनेनानुगतो भानुः स्वजनं परिपूरयन्
संध्याबद्धांजलिपुटा मुनयोभिमुखा रविम्। यावदद्यासते शीघ्रं निवार्योष्णाभिभाविताम्
व्यजृंभताथ लोकेस्मिन्क्रमाद्वैभावरं तमः। कुटिलस्येव हृदये कालुष्यं दूषयन्मनः
ज्वलत्फणिफणारत्नदीपोद्योतित भित्तिके। शयने शशसंघात रत्नवस्त्रोत्तरच्छदे
नानारत्नद्युतिलसच्छक्रचापविडंबके। रत्नैः किंकिणिजालेन लसन्मुक्ताकलापके
कमनीयचलल्लीला वितानाच्छादितांबरे। मंदरे मंन्दसंचारं गते गिरिसुतायुतः
तस्थौ गिरिसुता बाहुलता मिलितकंधरः। शशिमौलिः सितज्योत्स्नास्फारपूरितगोचरः
गिरिजाप्यसितापांगी नीलोत्पलदलच्छविः। विभावर्या च संपृक्ता बभूवातीव गोमयी
तामुवाच ततो देवः क्रीडाकेलिकलायुताम्
शर्व उवाच। शरीरे मम तन्वंगि सिते भास्यसितद्युतिः। भुजंगी वा सिता शुभ्रे संश्लिष्टा चंदनेतरौ
चंद्रातपेन संपृक्ता रुधिराम्बरसंवृता। रजनी वा सिते पक्षे दृष्टिदोषं ददासि मे
इत्युक्ता गिरिजा तेन मुक्तकंठा पिनाकिनम्। उवाच कोपरक्ताक्षी भ्रुकुटी विकृतानना
देव्युवाच-। स्वकृतेन जनः सर्वो जाड्येन परिभूयते। अवश्यमर्थी प्राप्नोति खंडनं शशिमंडन
तपोभिर्दीर्घचरितैर्या त्वां प्रार्थितवत्यहं। तस्या मेनि यतस्त्वेष ह्यवमानः पदे पदे
नैवास्मि कुटिला शर्व विषमा न च धूर्जटे। सविषस्त्वं जगत्ख्यातो व्यक्तदोषाकराश्रयः
त्वं हि मुष्णासि दशनान्नेत्रहंता भगस्य च। आदित्यस्त्वां विजानाति भगवान्द्वादशात्मकः
मूर्ध्नि शूलं जनयसि स्वैर्दोषैर्मामधिक्षिपन्। यस्त्वं मामात्थकृष्णेति महाकालोसि विश्रुतः
यास्याम्यहं परित्यक्तुमात्मानं तपसा गिरिम्। जीवंत्या न मया कृत्यं धूर्तेन परिभूतया
कापालिकेन क्षुद्रेण श्मशाने नित्यवासिना। भूत्या विलिप्त स्वांगेन मातृमध्यस्थ चारिणा
निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं हरः। उवाचानिष्टसंभ्रांतः प्रचलेनेंदुमौलिना
शर्व उवाच। अगात्मजासि गिरिजे नाहं निंदापरस्तव। चाटूक्तिबुध्या तु मया कृत उन्मादसंश्रयः