जगदापूरितं सर्वमेभिर्भीमैर्महाबलैः। सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु
दानवानां शरीरेषु बालेषून्मत्तकेषु च। एते विशंति मुदिता नानाहारविहारिणः
ऊष्मपाः फेनपाश्चैव धूमपा मधुपायिनः। मेदाहारारुधिरपास्सर्वभक्षा ह्यभोजनाः
देवादास्तापसाहारा नानावाद्यरतिप्रियाः। न हि वक्तुमनंतत्वाच्छक्यन्ते हि गणाः पृथक्
देव्युवाच-। नागत्वगुत्तरासंगः शुद्धांगो मुंजमेखली। मनःशिलेन कल्केन चपलो रंजिताननः
भृंगदष्टोत्पलानां च स्रग्दामा मधुराकृतिः। पाषाणशकलोत्तान कांस्यतालप्रवर्तकः
असौ गणेश्वरो देव किंनामा किन्नरानुगः। य एष गणगीतेषु दत्तकर्णो मुहुर्मुहुः
शर्व उवाच-। स एष वीरको देवि सदा मे हृदयप्रियः। नानाश्चर्यगुणाधारो गणेश्वर गणार्चितः
देव्युवाच। ईदृशस्य सुतस्यास्ति ममोत्कंठा पुरांतक। कदाहमीदृशं पुत्रं द्रक्ष्याम्यानंददायकं
शर्व उवाच-। एष एव सुतस्तेस्तु नयनानंदकारकः। त्वया मात्रा कृतार्थो हि वीरकोपि सुमध्यमे
इत्युक्त्वा प्रेषयामास विजयां हर्षणोत्सुकां। वीरकानयनायाशु दुहिता भूभृतः सखीं
सावरुह्य त्वरायुक्ता प्रासादादंबरस्पृशः। गणपं गणमध्यस्थं सूर्यकोटिप्रवर्तनम्
विजयोवाच-। एहि वीरक चापल्यात्त्वया देवी प्रतोषिता। त्वामाह्वयति चेत्युक्तस्त्यक्त्वा पाषाणखंडकम्
देव्याः सपीपमागच्छद्विजयानुगतः शनैः। प्रासादशिखरोत्फुल्लरक्तांबुजनिभ द्युतिः
तं दृष्ट्वा प्रस्थितानल्पस्वादुक्षीरपयोधरा। गिरिजोवाच-। पिब क्षीरमिदं वत्स स्रुतं पिब यथेच्छकम्
उवाच देवी सस्नेहं गिरा मधुरवर्णया। एहि सद्यो हि जातोसि मे पुत्रको देवदेवेन दत्तोधुना वीरक
उक्तवत्यंकआधाय पर्यष्वजत्तं कपोले चुचुंबागराण्नंदिनी। मूर्ध्न्युपाघ्राय संमार्ज्य गात्राणि चाभूषयामास दिव्यैः स्वयंभूषणैः
किंकिणीमेखलानूपुरैः सन्मणिप्रोतकेयूरहारैरमूल्यैर्गुणैः। कोमलैः पल्लवैश्चित्रितश्चारुभिर्मंगलैः कंकणैर्दिव्यमंत्रोद्भवैः
तस्य शुद्धैस्ततोभूरिभिश्चाकरोन्मिश्रसिद्धार्थकैरङ्गरक्षाविधिं। एवमादाय चोवाच कृत्वा स्रजं मूर्ध्नि गोरोचनापत्रभंगोज्ज्वलैः
वत्सवत्साधुना क्रीड सार्द्धं गणैरप्रमत्तो व्रज श्वभ्रवर्जं शनैः। व्यालमालाकुलाः शैलसानुद्रुमादंतिभिर्भग्नशाखाः परं भंगिनः
जाह्नवीमंडलक्षुब्धतोयाकुलं मा विशेथा बहुव्याघ्रजुष्टे वने। वत्स संख्येषु दुर्गेषु यद्वीरक पुत्र भावायतां स्वच्छचित्तो जनः
प्रार्थितं भव्यमायातिभाविन्यसौ भाव्यतां सोपि निर्वर्त्यसर्वैर्गुणैः। एवमुक्तोऽनया वीरको मातरं सस्मयन्नाह लीलावशाविष्टधीः
एष मात्रा स्वयं मे कृतः कंकणः पत्रकश्चित्रितः पाटलैर्बिंदुभिः। चारुपुष्पैरियं मालतीभिः कृतामालिका मे शिरस्याहिता कोमला
तोषयामीश्वरीमित्ययं सत्वरं चिंतयित्वा व्रजद्बाह्यतः क्रीडनम्। स्वैर्गणैः संयुतो वीरको हर्षितो दक्षिणात्पश्चिमं पश्चिमादुत्तरम्
उत्तरात्पूर्वमभ्येत्य सख्यायुता प्रेक्षते तं गवाक्षांतराद्वीरकं। शैलपुत्री बहिः क्रीडितारं जगत्स्नेहतः पुत्रलुब्धायतस्सोत्र कः
मोहमायाति यः स्वल्पवेत्ता जडो मांसविण्मूत्रसंघातदेहोद्वहः। द्रष्टुमभ्यंतरं नाकवासेश्वरेष्विन्दुमौलिप्रविष्टेषु कक्षांतरम्
वाहनान्येवमारोहमाणास्ततो लोकपालास्त्रपूगं मुहूर्त्तावधि। खड्ग एषो विखड्गाकरो निर्मलः कृंतकः कस्य केनाहृतो ब्रूत नः
नोभवेद्धस्तदंडेन किं ब्रूमहे भीममूर्त्यं गणे नास्ति कृत्यं गिरौ। पाश एषोस्ति तेनात्र को बध्यते मा वृथा लोकपालानुगास्तिष्ठत
एवमेवैतदित्यब्रुवंस्ते तदा वीक्ष्य देवानुगं वीरकं रक्षकं। प्राह देवी वने पर्वते निर्जराध्यग्निशालामुखे भूतले भूतपाः
निर्झरांभो निपातेषु नो मज्जतात्पुष्पजालावनद्धेषु धामस्वपि। प्रोच्चनानाद्रिकुंजावगाहेष्वथो मारुतास्फोटसंरक्षणे कामतः