हंससंघातसंदिष्ट स्फटिकस्तभंतोरणं। अनाविलमसंभ्रांत्या बहुशः किन्नराकुलं
शुकैर्यत्राभिदृश्यंते पद्मरागविनिर्मिताः। भित्तयो जातिसंभ्रांत्या प्रतिबिंबितमौक्तिकाः1.43.
तत्राक्षैः प्रियया देवो विहर्तुमुपचक्रमे। स्वछेंद्रनीलभूभागे क्रीडंतौ यत्र संस्थितौ
वपुः सहायतां प्राप्तौ विनोदरसनिर्वृतौ। एवं प्रक्रीडतोस्तत्र देवीशंकरयोस्तदा
प्रादुर्भूतो महाशब्दः पतितांबरगोचरः। तच्छ्रुत्वा कौतुकाद्देवी किमेतदिति शंकरम्
पर्यपृच्छत्सुरवरं हरं विस्मितपूर्वकं। उवाच देवो नैतत्ते दृष्टपूर्वं शुचिस्मिते
एते गणेशाः क्रीडंते शैलेस्मिन्मत्प्रियाः सदा। तपसा ब्रह्मचर्येण नामभिः क्षेत्रसेवनैः
यैरहं तोषितः पूर्वं त एते मनुजोत्तमाः। मत्समीपमनुप्राप्ता मम हृद्याः शुभानने
कामरूपा महोत्साहा महारूपगुणान्विताः। कर्मभिर्विस्मयं तेषां प्रयामि बलशालिनाम्
सामरस्यास्य जगतः सृष्टिसंहरणक्षमाः। ब्रह्मचन्द्रेंद्र गंधर्वैस्सकिन्नरमहोरगैः
विवर्जितोप्यहं नित्यं नैभिर्विरहितो रमे। हृद्या मे चारुसर्वाङ्गि त एते क्रीडिता गिरौ
इत्युक्ता तु तदा देवी त्यक्त्वा तं विस्मयाकुला। गवाक्षांतरमासाद्य प्रेक्षते चकितानना
यावंतस्ते कृशा दीर्घा ह्रस्वाः स्थूला महोदराः। व्याघ्रेभवदनाः केचित्केचिन्मेषाजरूपिणः
अनेकप्राणिरूपाश्च ज्वालास्याः कृष्णपिंगलाः। सौम्या भीमाः स्मितमुखाः कृष्णपिंगजटास्सदा
नानाविहंगवदना नानाविधसुराननाः। कौशेयचर्मवसना नग्नाश्चान्यो विरूपिणः
गोकर्णा गजकर्णाश्च बहुवक्त्रेक्षणोदराः। बहुपादा बहुभुजा दिव्यनानास्त्रपाणयः
अनेककुसुमापीडा नानाव्याकुलभीषणाः। कृतनानायुधधरा नानाकवचभूषणाः
विचित्रवाहनारूढा दिव्यरूपा वियच्चराः। वीणावाद्यरवोद्घुष्टा नानास्थानकनर्तकाः
गणेशांस्तांस्तथा दृष्ट्वा देवी प्रोवाच शंकरम्। देव्युवाच-। गणेशाः कतिसंख्याताः किंनामानः किमात्मकाः
एकैकशो मम ब्रूहि निष्ठिता ये पृथक्पृथक्। शंकर उवाच-। कोटिकोटिश्च संख्याता नानाविख्यातपौरुषाः
जगदापूरितं सर्वमेभिर्भीमैर्महाबलैः। सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु
दानवानां शरीरेषु बालेषून्मत्तकेषु च। एते विशंति मुदिता नानाहारविहारिणः
ऊष्मपाः फेनपाश्चैव धूमपा मधुपायिनः। मेदाहारारुधिरपास्सर्वभक्षा ह्यभोजनाः
देवादास्तापसाहारा नानावाद्यरतिप्रियाः। न हि वक्तुमनंतत्वाच्छक्यन्ते हि गणाः पृथक्
देव्युवाच-। नागत्वगुत्तरासंगः शुद्धांगो मुंजमेखली। मनःशिलेन कल्केन चपलो रंजिताननः
भृंगदष्टोत्पलानां च स्रग्दामा मधुराकृतिः। पाषाणशकलोत्तान कांस्यतालप्रवर्तकः
असौ गणेश्वरो देव किंनामा किन्नरानुगः। य एष गणगीतेषु दत्तकर्णो मुहुर्मुहुः
शर्व उवाच-। स एष वीरको देवि सदा मे हृदयप्रियः। नानाश्चर्यगुणाधारो गणेश्वर गणार्चितः
देव्युवाच। ईदृशस्य सुतस्यास्ति ममोत्कंठा पुरांतक। कदाहमीदृशं पुत्रं द्रक्ष्याम्यानंददायकं
शर्व उवाच-। एष एव सुतस्तेस्तु नयनानंदकारकः। त्वया मात्रा कृतार्थो हि वीरकोपि सुमध्यमे