जगाम मंदरगिरिं वायुवेगेन शृंगिणा। ततो गते भगवति नीललोहिते सहोमया रतिमनुभूतभूधरः
सबांधवो भवति हि कस्य नो मनो विशृंखलं जगति हि कन्यका पितुः। पुरोद्यानेषु रम्येषु विविक्तेषु वनेषु च
सुरक्तहृदयो देव्या विजहार भगाक्षिहा। ततो बहुतिथे काले पुत्रनाम्ना गिरेः सुता
सखीभिः सहिता क्रीडां चक्रे कृत्रिम पुत्रकैः। कदाचिद्गंधतैलेन गात्रमभ्यज्य शैलजा
चूर्णैरुद्वर्तयामास मलेनापूरितां तनुम्। तदुद्वर्त्तनकं गृह्य नरं चक्रे गजाननम्
पुरुषं क्रीडती देवी तच्चाप्यक्षिपदंभसि। जाह्नव्या शिवया सख्या ततः सोभूद्बृहत्तनुः
कायेनातिविशालेन जगदापूरयत्तदा। पुत्रेत्युवाच तं देवी पुत्रेत्यूचे च जाह्नवी
गांगेय इति देवैस्तु पूजितोऽभूद्गजाननः। विनायकाधिपत्यं च ददावस्य पितामहः
पुनः सा क्रीडती चक्रे तरुं च वरवर्णिनी। मनोज्ञमंकुरं रूढमशोकस्य शुभानना
वर्द्धयामास तं चापि कृतसंस्कारमंगलम्। बृहस्पतिमुखैर्विप्रैर्दिवस्पतिपुरोहितैः
ततो देवैः समुनिभिः प्रोक्ता देवी त्विदं वचः। अधुना दर्शिते मार्गे मर्यादां कर्तुमर्हसि
फलं किं भविता देवि कल्पितैस्तरुपुत्रकैः। इत्युक्ता हर्षपूर्णांगी प्रोवाचातिशुभां गिरं
एकं निरुदके ग्रामे यः कूपं कारयेद्बुधः। बिंदौबिंदौ च तोयस्य स वसेद्वत्सरं दिवि
दशकूपसमावापी दशवापीसमो ह्रदः। दशह्रदसमा कन्या दशकन्यासमो द्रुमः
एषा वै शुभ मर्यादा नियता लोकभाविनी। इत्युक्तास्तु ततो विप्रा बृहस्पतिपुरोगमाः
जग्मुः स्वमंदिराण्येव भवानीं वंद्य मातरं। गतेषु तेषु देवोपि शंकरः पर्वतात्मजां
पाणिनालम्ब्यमानेन न स्वमावासमगच्छत। चित्तप्रसादजननं प्रासादाट्टालगोपुरं
लंबमौक्तिकदामानं मालिकाकुलवेदिकं। सुनद्धकलधौतं च क्रीडागृहमनोगतं
प्रकीर्णकुसुमामोद मत्तालिकुलकूजितम्। किन्नरोद्गीतसंगीत गृहांतरितभित्तिकम्
सुगंधिधूपसंघातं मनःप्राप्यमलक्षितं। क्रीडामयूरनारीभिरभितो रभसार्पितं
हंससंघातसंदिष्ट स्फटिकस्तभंतोरणं। अनाविलमसंभ्रांत्या बहुशः किन्नराकुलं
शुकैर्यत्राभिदृश्यंते पद्मरागविनिर्मिताः। भित्तयो जातिसंभ्रांत्या प्रतिबिंबितमौक्तिकाः1.43.
तत्राक्षैः प्रियया देवो विहर्तुमुपचक्रमे। स्वछेंद्रनीलभूभागे क्रीडंतौ यत्र संस्थितौ
वपुः सहायतां प्राप्तौ विनोदरसनिर्वृतौ। एवं प्रक्रीडतोस्तत्र देवीशंकरयोस्तदा
प्रादुर्भूतो महाशब्दः पतितांबरगोचरः। तच्छ्रुत्वा कौतुकाद्देवी किमेतदिति शंकरम्
पर्यपृच्छत्सुरवरं हरं विस्मितपूर्वकं। उवाच देवो नैतत्ते दृष्टपूर्वं शुचिस्मिते
एते गणेशाः क्रीडंते शैलेस्मिन्मत्प्रियाः सदा। तपसा ब्रह्मचर्येण नामभिः क्षेत्रसेवनैः
यैरहं तोषितः पूर्वं त एते मनुजोत्तमाः। मत्समीपमनुप्राप्ता मम हृद्याः शुभानने
कामरूपा महोत्साहा महारूपगुणान्विताः। कर्मभिर्विस्मयं तेषां प्रयामि बलशालिनाम्
सामरस्यास्य जगतः सृष्टिसंहरणक्षमाः। ब्रह्मचन्द्रेंद्र गंधर्वैस्सकिन्नरमहोरगैः