व्यग्रा तु पृथिवी देवी सर्वभावात्मनोरमा। गृहीत्वा वरुणः साक्षाद्रत्नाढ्याभरणानि च
पुष्पाणि च विचित्राणि नानारत्नमयानि तु। तस्थौ साभरणो देवः सर्वज्ञः सर्वदेहिनाम्
ज्वलनश्चापि दिव्यानि हैमान्याभरणानि च। जातरूपपवित्राणि प्रयतः समुपस्थितः
वायुर्ववौ च सुरभिः सुखसंस्पर्शनो विभुम्। छत्रं चंद्रकरोद्दामं हासितं च शतक्रतुः
जग्राह मुदितः श्रीमान्बाहुभिर्वज्रभूषणः। जगुर्गंधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः
वादयंतोतिमधुरं जगुर्गंधर्वकिन्नराः। मुहूर्तादृतवस्तत्र जगुश्च ननृतुश्च वै
चपलाश्च गणास्तस्थुर्लोडयंतो हिमाचलम्। उपविष्टः क्रमाद्धाता विश्वकृद्भगनेत्रहा
चकारौद्वाहिकं कृत्यं पत्न्या सह यथोदितम्। दत्तार्घ्यो गिरिराजेन सुरवृंदैर्विनोदितः
अवसत्तां क्षपां तत्र पत्न्या सह पुरांतकः। ततो गंधर्वगीतेन नृत्येनाप्सरसामपि
स्तुतिभिर्देवदैत्यानां विबुद्धो विबुधाधिपः। आमंत्र्य हिमशैलेंद्रं प्रभाते जायया सह
जगाम मंदरगिरिं वायुवेगेन शृंगिणा। ततो गते भगवति नीललोहिते सहोमया रतिमनुभूतभूधरः
सबांधवो भवति हि कस्य नो मनो विशृंखलं जगति हि कन्यका पितुः। पुरोद्यानेषु रम्येषु विविक्तेषु वनेषु च
सुरक्तहृदयो देव्या विजहार भगाक्षिहा। ततो बहुतिथे काले पुत्रनाम्ना गिरेः सुता
सखीभिः सहिता क्रीडां चक्रे कृत्रिम पुत्रकैः। कदाचिद्गंधतैलेन गात्रमभ्यज्य शैलजा
चूर्णैरुद्वर्तयामास मलेनापूरितां तनुम्। तदुद्वर्त्तनकं गृह्य नरं चक्रे गजाननम्
पुरुषं क्रीडती देवी तच्चाप्यक्षिपदंभसि। जाह्नव्या शिवया सख्या ततः सोभूद्बृहत्तनुः
कायेनातिविशालेन जगदापूरयत्तदा। पुत्रेत्युवाच तं देवी पुत्रेत्यूचे च जाह्नवी
गांगेय इति देवैस्तु पूजितोऽभूद्गजाननः। विनायकाधिपत्यं च ददावस्य पितामहः
पुनः सा क्रीडती चक्रे तरुं च वरवर्णिनी। मनोज्ञमंकुरं रूढमशोकस्य शुभानना
वर्द्धयामास तं चापि कृतसंस्कारमंगलम्। बृहस्पतिमुखैर्विप्रैर्दिवस्पतिपुरोहितैः
ततो देवैः समुनिभिः प्रोक्ता देवी त्विदं वचः। अधुना दर्शिते मार्गे मर्यादां कर्तुमर्हसि
फलं किं भविता देवि कल्पितैस्तरुपुत्रकैः। इत्युक्ता हर्षपूर्णांगी प्रोवाचातिशुभां गिरं
एकं निरुदके ग्रामे यः कूपं कारयेद्बुधः। बिंदौबिंदौ च तोयस्य स वसेद्वत्सरं दिवि
दशकूपसमावापी दशवापीसमो ह्रदः। दशह्रदसमा कन्या दशकन्यासमो द्रुमः
एषा वै शुभ मर्यादा नियता लोकभाविनी। इत्युक्तास्तु ततो विप्रा बृहस्पतिपुरोगमाः
जग्मुः स्वमंदिराण्येव भवानीं वंद्य मातरं। गतेषु तेषु देवोपि शंकरः पर्वतात्मजां
पाणिनालम्ब्यमानेन न स्वमावासमगच्छत। चित्तप्रसादजननं प्रासादाट्टालगोपुरं
लंबमौक्तिकदामानं मालिकाकुलवेदिकं। सुनद्धकलधौतं च क्रीडागृहमनोगतं
प्रकीर्णकुसुमामोद मत्तालिकुलकूजितम्। किन्नरोद्गीतसंगीत गृहांतरितभित्तिकम्
सुगंधिधूपसंघातं मनःप्राप्यमलक्षितं। क्रीडामयूरनारीभिरभितो रभसार्पितं