आजुहाव विदूरस्थान्दर्शनाय पिनाकिनः। त्वराबद्धजटास्ते च लंबकृष्णानिजांबराः
विविशुर्वेदिकां दिव्यां गिरीशस्य विभोस्ततः। बद्धपाणिपुटा क्षिप्त नाकपुष्पोत्त्करास्ततः
पिनाकिपादयुगलं वंद्य नाकनिवासिनः। ततः स्निग्धेक्षिताः संतो मुनयः शूलपाणिना
गिरीशं ते ततो दृष्ट्वा ते समं तुष्टवुर्मुदा
मुनय ऊचुः-। अहो कृतार्था वयमेव सांप्रतं सुरेश्वरैर्वंदितपादपल्लवम्। विलोकयामो गुणगौरवर्द्धिभिः समादिशेः कार्यमशेषरक्षणम्
ततः प्रहस्य सर्वज्ञ उवाच मुनिसत्तमान्। भवतां यद्धृदिगतं कार्यं तत्कुरुताधुना
इत्युक्ता मुनयस्तूर्णं ययुर्यत्र च शैलजा। बभाषिरे विभागज्ञा गिरिजां गिरिगह्वरे। रम्यं प्रियमनोहारि मारूपं तपसादह
प्रीतस्ते शंकरः पाणिमेष प्रतिग्रहीष्यति। वयमर्थितवंतस्ते पितरं पूर्वमागताः
पित्रा सह गृहं गच्छ वयं यामः स्वमंदिरं। इत्युक्ता तपसः सत्यं फलमस्तीति चिंत्य सा
त्वरमाणा ययौ वेश्म पितुर्दिव्यं सुशोभितं। सा तत्र रजनीं मेने वर्षायुतसमां सती
हरदर्शनसंजात समुत्कंठा हिमाद्रिजा। ततो मुहूर्त्ते ब्राह्मे तु तस्याश्चक्रुः सुहृत्क्रियां
नानामंगलसंदोहान्यथावत्क्रमपूर्वकम्। दिव्यमंगलसंयोगान्मंदिरे बहुमंगले 1.43.
उपासत गिरिं मूर्त्ता ॠतवः सर्वकामिकाः। वायवः सुखदाश्चासन्संमार्जनविधौ गिरेः
हर्म्येषु श्रीः स्वयं देवी कृतनाना प्रसाधना। कांतिः सर्वेषु भावेषु ॠद्धिश्च भरणाकुला
चिंतामणिप्रभृतयो रत्नाश्शैलं समंततः। उपतस्थुर्लताश्चापि कल्पकाद्या महाद्रुमाः
ओषध्यो मूर्तिमत्यश्च दिव्यौषधिसमन्विताः। रसाश्च धातवश्चैव सर्वे शैलस्य किंकराः
किंकरास्तस्य शैलस्य व्यग्राश्चाश्रमवर्तिनः। नद्यः समुद्रा निखिलाः स्थावरं जंगमं च यत्
ते सर्वे हिमशैलस्य महिमानमवर्द्धयन्। अभवन्मुनयो नागा यक्षा गंधर्वकिन्नराः
शंकरस्यापि विबुधा गंधमादनपर्वते। सज्जमंडनसंभारास्तस्थुर्निर्मल मूर्त्तयः
शर्वस्याथ जटाजूटे चंद्रखंडं पितामहः। बबंध प्रणयोदार विस्फारितविलोचनः
कपालमालां विपुलां चामुंडा मूर्ध्नि बध्नती। उवाच गिरिशं काली पुत्रं जनय शंकर
यो दैत्येंद्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति। शौरिर्वतंसिकारत्नं कंठाभरणमुज्वलम्
भुजंगाभरणं गृह्य सज्जश्शंभोः पुरोऽभवत्। शक्रो गजाजिनं तस्य वसाभ्यक्ताग्रपल्लवम्
दध्रे सरभसं स्विद्यद्विस्तीर्ण मुखपंकजम्। वायवश्च ववुस्तीक्ष्णास्तीक्ष्णं हिमगिरिप्रभम्
वृषं विभूषयामासुर्हरयानं मनोजवम्। विरेजुर्नयनान्तस्थाः शंभोः सूर्यानलेंदवः
स्वां द्युतिं लोकनाथस्य जगतः कर्मसाक्षिणः। चिताभस्मसमाधत्त कपाले रजतप्रभम्
मनुजास्थिमयीं मालां निबंबंध च पाणिना। प्रेताधिपः पुरे दूरे सभयः समवर्तत
नानाकारमहारत्नभूषणं धनदाहृतम्। विहायोदीप्तसर्पेंद्र कटकेन स्वपाणिना
कर्णोत्तंसं चकारेशो ह्यमलं तक्षकं स्वयम्। निष्पन्नाभरणं चैव प्रसाध्येशं प्रसाधनैः
तत्राप्येषा नियमतो ह्यभवन्व्यग्रमूर्तयः। मुमोचाभिनवान्सर्वरम्यशालिरसौषधीन्