ऊचुश्च परमप्रीताः शैलजां मधुरं वचः। ॠषय ऊचुः। अत्यद्भुतमहो पुत्रि ज्ञानमूर्तिरिवामला
प्रसादयसि नो भावं भवभावप्रतिश्रयात्। ननु विद्मो वयं तस्य देवस्यैश्वर्यमद्भुतम्
त्वन्निश्चयस्य दृढतां वेत्तुं वयमिहागताः। अचिरादेव तन्वंगि कामस्त्वेष भविष्यति
आदित्यस्स प्रभो याति रत्नेभ्यः का द्युतिः पृथक्। कोऽर्थो वर्णान्स्वकांस्त्यक्त्वा तथा त्वं गिरिशं विना
यामो नेकाभ्युपायेन तमभ्यर्थयितुं वयम्। अस्माकमपि चैषोर्थः सुतरां हृदि वर्तते
अतस्त्वमेव सा बुद्धिर्यतो नीतिस्त्वमेव हि। अतो निःसंशयं कार्यं शंकरोपि विधास्यति
इत्युक्त्वा पूजितास्सर्वे मुनयो गिरिकन्यया। प्रययुर्गिरिशं द्रष्टुं प्रस्थं हिमवतो महत्
गंगांभः प्लावितात्मानः पिंगाबद्धजटासटाः। भृंगानुयातपाणिस्थ मंदारकुसुमस्रजः
संप्राप्य तु गिरेः प्रस्थं ददृशुः शंकराश्रमम्। प्रशांताशेषसत्वौघं पर्यस्तिमितकाननम्
निःशब्दक्षोभसलिल प्रयातं सर्वतो दिशम्। तत्रापश्यंस्ततोद्वारि वीरकं वेत्रपाणिनम्
तमेते मुनयः पूज्या विनीताः कार्यगौरवात्। ऊचुर्मधुरभाषाभिस्ते वाचं वाग्मिनां वराः
द्रष्टुं वयमिहायाताः शंकरं गुणनायकं। त्रिलोचनं विजानीहि सुरकार्यप्रचोदिताः
त्वमेव नो गतिस्तत्र यथाकालानतिक्रमः। स्यात्प्रार्थनैषा प्रायेण प्रतीहारमयी प्रभो
इत्युक्तो मुनिभिः सोथ गौरवात्तानुवाच ह। सवनस्यापरां संध्यां कर्तुं मंदाकिनीं गतः
क्षणेन भाविता विप्रास्ततो द्रक्ष्यथ शूलिनम्। इत्युक्ता मुनयस्तस्थुर्यत्नात्कार्यविचक्षणाः
गंभीरांबुधरं प्रावृट्तृषिताश्चातका यथा। तथा क्षणेन निष्पन्न समाचारक्रियाविधिम्
वीरासनकृतोद्देशं मृगचर्मनियामितम्। ततो विनीतो जानुभ्यामवलंब्य महीं मुदा
उवाच वीरको देवं प्रणयैकसमाश्रयम्। संप्राप्ता मुनयः सप्त द्रष्टुं त्वां दीप्ततेजसं
विभो समादिश द्रष्टुं ततो ध्यानमिहार्हसि। इत्युक्तो धूर्जटिस्तेन वीरकेण महात्मना
भ्रूभंगसंज्ञया तेषां प्रवेशाज्ञां ददौ तदा। मूर्द्धकंपेन तान्सप्त वीरकोपि महामुनीन्
आजुहाव विदूरस्थान्दर्शनाय पिनाकिनः। त्वराबद्धजटास्ते च लंबकृष्णानिजांबराः
विविशुर्वेदिकां दिव्यां गिरीशस्य विभोस्ततः। बद्धपाणिपुटा क्षिप्त नाकपुष्पोत्त्करास्ततः
पिनाकिपादयुगलं वंद्य नाकनिवासिनः। ततः स्निग्धेक्षिताः संतो मुनयः शूलपाणिना
गिरीशं ते ततो दृष्ट्वा ते समं तुष्टवुर्मुदा
मुनय ऊचुः-। अहो कृतार्था वयमेव सांप्रतं सुरेश्वरैर्वंदितपादपल्लवम्। विलोकयामो गुणगौरवर्द्धिभिः समादिशेः कार्यमशेषरक्षणम्
ततः प्रहस्य सर्वज्ञ उवाच मुनिसत्तमान्। भवतां यद्धृदिगतं कार्यं तत्कुरुताधुना
इत्युक्ता मुनयस्तूर्णं ययुर्यत्र च शैलजा। बभाषिरे विभागज्ञा गिरिजां गिरिगह्वरे। रम्यं प्रियमनोहारि मारूपं तपसादह
प्रीतस्ते शंकरः पाणिमेष प्रतिग्रहीष्यति। वयमर्थितवंतस्ते पितरं पूर्वमागताः
पित्रा सह गृहं गच्छ वयं यामः स्वमंदिरं। इत्युक्ता तपसः सत्यं फलमस्तीति चिंत्य सा
त्वरमाणा ययौ वेश्म पितुर्दिव्यं सुशोभितं। सा तत्र रजनीं मेने वर्षायुतसमां सती