वरस्तस्यापि नाहूय सुता देया ह्ययाचतः। दिग्वासा जटिलः शूली दग्धकामोपि कामदः
स तु मत्सुतया घोरः कथं नाम उपास्यते। मुनय ऊचुः-। ऐश्वर्यमवगच्छस्व शंकरस्य सुरासुराः
आराध्यमानपादाब्ज युगलाश्च सुनिर्वृताः। यस्योपयोगि यद्रूपं तेन तत्प्रार्थ्यते चिरम्
घोरं तपस्यते बाला तेन रूपेण निर्वृता। यत्सा व्रतानि दिव्यानि नयिष्यति समापनम्
तदत्रावहिता तावदस्मास्वेव भविष्यति। इत्युक्त्वा गिरिणा सार्द्धं ययुर्यत्रास्ति शैलजा
जितार्कज्वलनज्वाला तपस्तेजोमयीह्युमा। प्रोक्ता सा मुनिभिः स्निग्धं मानिन्याह वचोर्थवत्
नाहं क्षुद्रात्किलेच्छामि ॠते शर्वात्पिनाकिनः। स्थितं च तारतम्येन प्राणिनां परमर्द्धिदं
धीरतैश्वर्यकार्याणि प्रमाणमतुलं महत्। यस्मान्न किंचिदपरं यच्च यस्मात्प्रवर्तते
यस्यैश्वर्यमनाद्यंतं तमहं शरणं गता। समः सव्यवसायश्च दीर्घेण विपरीतकः
एवं निशम्य ते वाचं देव्या मुनिवरास्तदा। आनंदाश्रुपरीताक्षाः सस्वजुस्तां तपस्विनीं
ऊचुश्च परमप्रीताः शैलजां मधुरं वचः। ॠषय ऊचुः। अत्यद्भुतमहो पुत्रि ज्ञानमूर्तिरिवामला
प्रसादयसि नो भावं भवभावप्रतिश्रयात्। ननु विद्मो वयं तस्य देवस्यैश्वर्यमद्भुतम्
त्वन्निश्चयस्य दृढतां वेत्तुं वयमिहागताः। अचिरादेव तन्वंगि कामस्त्वेष भविष्यति
आदित्यस्स प्रभो याति रत्नेभ्यः का द्युतिः पृथक्। कोऽर्थो वर्णान्स्वकांस्त्यक्त्वा तथा त्वं गिरिशं विना
यामो नेकाभ्युपायेन तमभ्यर्थयितुं वयम्। अस्माकमपि चैषोर्थः सुतरां हृदि वर्तते
अतस्त्वमेव सा बुद्धिर्यतो नीतिस्त्वमेव हि। अतो निःसंशयं कार्यं शंकरोपि विधास्यति
इत्युक्त्वा पूजितास्सर्वे मुनयो गिरिकन्यया। प्रययुर्गिरिशं द्रष्टुं प्रस्थं हिमवतो महत्
गंगांभः प्लावितात्मानः पिंगाबद्धजटासटाः। भृंगानुयातपाणिस्थ मंदारकुसुमस्रजः
संप्राप्य तु गिरेः प्रस्थं ददृशुः शंकराश्रमम्। प्रशांताशेषसत्वौघं पर्यस्तिमितकाननम्
निःशब्दक्षोभसलिल प्रयातं सर्वतो दिशम्। तत्रापश्यंस्ततोद्वारि वीरकं वेत्रपाणिनम्
तमेते मुनयः पूज्या विनीताः कार्यगौरवात्। ऊचुर्मधुरभाषाभिस्ते वाचं वाग्मिनां वराः
द्रष्टुं वयमिहायाताः शंकरं गुणनायकं। त्रिलोचनं विजानीहि सुरकार्यप्रचोदिताः
त्वमेव नो गतिस्तत्र यथाकालानतिक्रमः। स्यात्प्रार्थनैषा प्रायेण प्रतीहारमयी प्रभो
इत्युक्तो मुनिभिः सोथ गौरवात्तानुवाच ह। सवनस्यापरां संध्यां कर्तुं मंदाकिनीं गतः
क्षणेन भाविता विप्रास्ततो द्रक्ष्यथ शूलिनम्। इत्युक्ता मुनयस्तस्थुर्यत्नात्कार्यविचक्षणाः
गंभीरांबुधरं प्रावृट्तृषिताश्चातका यथा। तथा क्षणेन निष्पन्न समाचारक्रियाविधिम्
वीरासनकृतोद्देशं मृगचर्मनियामितम्। ततो विनीतो जानुभ्यामवलंब्य महीं मुदा
उवाच वीरको देवं प्रणयैकसमाश्रयम्। संप्राप्ता मुनयः सप्त द्रष्टुं त्वां दीप्ततेजसं
विभो समादिश द्रष्टुं ततो ध्यानमिहार्हसि। इत्युक्तो धूर्जटिस्तेन वीरकेण महात्मना
भ्रूभंगसंज्ञया तेषां प्रवेशाज्ञां ददौ तदा। मूर्द्धकंपेन तान्सप्त वीरकोपि महामुनीन्