एवमेतत्तथा पुत्रि प्रभावो लोकसम्पदाम्। अस्मिन्देहे परे वापि कल्याणप्राप्तये तव
पितुरेवास्ति ते सर्वं सुरेभ्यो यन्निवेदितम्। वरस्य प्राप्तये क्लेशस्स चाप्यत्राफलस्तरुः
प्रायेण प्रार्थितो ह्यर्थस्समर्थो ह्यतिदुर्लभः। स्वस्थानविनियोगित्वात्पुत्रि तत्रापि लभ्यते
इत्युक्तवत्सु कुपिता मुनिवर्येषु शैलजा। उवाच क्रोधरक्ताक्षी विस्फुरद्दशनच्छदा
देव्युवाच-। असद्ग्रहस्य का नीतिर्व्यसनस्य क्व यंत्रणा। विपरीतार्थबोद्धारः सत्पथे केन योजिताः
एवं मां वित्थ दुष्प्रज्ञामस्थानासद्ग्रहप्रियाम्। न मां प्रतिविचारोस्ति यदहंकारमानिनी
प्रजापतिसमाः सर्वे भवंतः सर्वदर्शिनः। न नूनं वित्थ तं देवं शाश्वतं जगतः प्रभुम्
अजमीशानमव्यक्तममेयमहिमोदयम्। आस्तां तत्कर्मसद्भावं संबोधं तावदावृतम्
विदुस्तं न हरि ब्रह्ममुखा अपि सुरेश्वराः। यत्तस्यविभवं स्वोत्थं भुवनेषु विजृंभितम्
प्रकटं सर्वभूतानां तदप्यथ न वित्थ किं। कस्यैतद्गगनं मूर्तिः कस्याग्निः कस्य मारुतः
कस्य भूः कस्य वरुणः कश्चंद्रार्कविलोचनः। कस्यार्चयंति लोकेषु लिंगं भक्त्या सुरासुराः
यच्च ब्रह्मेश्वरा देवा विष्ण्विन्द्राद्या महर्षयः। प्रभावं प्रभवं वापि तेषामपि न वित्थ किं
अदितेः कश्यपाज्जाता देवा नारायणादयः। मरीचेः कश्यपः पुत्रो ह्यदितिर्दक्षपुत्रिका
मरीचिश्चापि दक्षश्च पुत्रौ तौ ब्रह्मणः किल। ब्रह्मा हिरण्मयादंडादेव सिद्धविभूतिकः
कस्य प्रादुरभूद्ध्यानात्प्राकृतः प्राकृतांशकः। अथ नारायणेनैव स्वकीयेच्छा समाश्रयात्
तत्प्रेरितः प्रयात्वेष जन्म नारायणात्मकम्। सापि कर्मण एवोक्ता प्रेरणाविवशात्मनाम्
यथोन्मादादि दुष्टस्य मतिरेव हि साभवेत्। इष्टानेव पदार्थान्वै विपरीतान्हि मन्यते
लोकस्य व्यवहारेषु दृष्टेषु हसते सदा। धर्माधर्मफलप्राप्तौ विष्णुमेव निबोधत
विदध्वमित्थं मुनयोऽसकृच्च मे गिरं गिरीशश्रुतिभूमिसन्निधौ। उत्कृष्टकेदार इवावनीतले सुबीजमुष्टिं सुफलाय कर्षकाः
ते तां श्रुत्वा हि तां रम्यां प्रक्रमात्प्रक्रमक्रियाम्। वाचंवाचां पतिप्रख्याः प्रोचुश्चस्मितसुंदराः
मुनय ऊचुः-। जाते लोकविधाने तु सत्यं तत्कार्यमुत्तमम्। प्रायः प्रालेयशैलस्य शंका तत्कालरूपिणः
सत्यमुत्कंठिताः सर्वे ये ये कार्यार्थमुद्यताः। तेषां त्वरंते चेतांसि किंतु नाममहात्मनाम्1.43.
लोकयात्रानुगंतव्या विशेषेण विवक्षितैः। यतस्तद्धर्ममेधंते तत्प्रामाण्यं परे धृताः
इत्युक्त्वा मुनयो जग्मुस्त्वरितास्तुहिनाचलम्। तत्र ते पूजितास्तेन हिमशैलेन सादरम्
ऊचुर्मुनिवराः प्रीताः स्वल्पकं तु त्वरान्विताः। मुनय ऊचुः-। देवो दुहितरं साक्षात्पिनाकी तव मार्गते
तच्छीघ्रं पावयात्मानमाहुत्येवानले हुतम्। कार्यं हि तच्च देवानां सुचिरं परिवर्तते
जगदुद्धारणायैष विधातव्यः समुद्यमः। इत्युक्तस्तु तदा शैलो हर्षावेशवशान्मुनीन्
असमर्थोभवद्वक्तुमुत्तरं प्रार्थयन्निव। ततो मेना मुनीन्वंद्य प्रोवाच स्नेहविक्लवा
दुहितुस्तान्मुनींश्चैव वचनं स्वयमर्थवत्। मेनोवाच-। यदर्थं दुहितुर्जन्म चेच्छंत्यपि महाफलं
तदेवोपस्थितं सर्वं प्रक्रमेणैव सांप्रतम्। कुलजन्मवयोरूपविभुत्वैस्सहितोपि यः