निराहारा शतं साभूत्समानां तपसो निधिः। तत उद्वेजिताः सर्वे प्राणिनस्तपसोग्निना
ततः सस्मार भगवान्मुनीन्सप्त शतक्रतुः। ते समागम्य मुदिताः सर्वे समुदितास्तथा1.43.
पूजितास्ते महेंद्रेण पप्रच्छुस्तत्प्रयोजनम्। किमर्थं हि सुरश्रेष्ठ संस्मृतास्तु वयं त्वया
शक्रः प्रोवाच शृण्वंतु भगवंतः प्रयोजनम्। हिमाचले तपो घोरं तप्यते भूधरात्मजा
तस्याभिमतयोगेन भवंतः कर्तुमर्हथ। तपः समापनं देव्या जगदर्थे त्वरान्विताः
तथेत्युक्त्वा ततः शैलं सिद्धसंघातसेवितम्। ऊचुरागम्य मुनयस्तामथो मधुराक्षरम्
पुत्रि कस्ते व्यवसितः कामः कमललोचने। तानुवाच ततो देवी सादरं गौरवान्मुनीन्
देव्युवाच-। तपस्यंतो महाभागाः प्रोह्य मौनं भवादृशां। वंदनाय नियुक्ता धीर्याचयत्यविकल्पितम्
सुप्रसन्नमुखा यूयं गृहीत्वासनमादितः। उपविष्टाः श्रमं मुक्त्वा ततः प्रक्ष्यथ मामनु
इत्युक्तास्ते ततश्चक्रुस्तत्रासनपरिग्रहम्। सा च तान्विधिवत्पूर्वं पूजयित्वा विधानतः
उवाचादित्यसंकाशान्मुनीन्सप्तॠषीन्शनैः। त्यक्त्वा व्रतात्मकं मौनं नत्वा च विधिवन्मुनीन्
भगवंतोपि मौनांते तस्याः सप्तर्षयोप्यथ। गौरवाधारतां प्राप्तां पप्रच्छुस्तां पुनस्तथा
सापि गौरवगर्भेण मनसा चारुहासिनी। मुनीन्सर्वांस्तथालोक्य प्रोवाच प्रोह्य वाग्यमम्
भगवंतो विजानीथ प्राणिनां मनसेप्सितम्। शरीरादिभिरत्यर्थं कदर्थ्यं ते हि देहिनः
केचित्तु निपुणास्तत्र घटंते विविधोद्यमैः। उपायैर्दुर्लभान्भावान्प्राप्नुवंति ह्यतंद्रिताः
अपरे तु परिच्छिद्य नानाकारानुपक्रमान्। देहांतरार्थं सारंभमाश्रयंति हि तद्व्रतम्
ममत्वाकाशसंभूतकुसुमस्रग्विभूषितम्। विंध्यशृंगं स्प्रष्टुकामो हस्तः प्रसरते मुहुः
अहं किल भवं देवं पतिं प्राप्तुं समुद्यता। प्रकृत्यैव दुराराध्यं तपस्यंतं च संप्रति
सुरासुरैरनिर्णीतं परमार्थक्रियाश्रयं। सांप्रतं चापि निर्दग्धो मदनो वीतरागिणा
कथमाराधयेदीशं मादृशी तादृशं शिवम्। इत्युक्ता मुनयस्ते तु स्थिरतां मनसस्ततः
ज्ञातुमस्या वचः प्रोचुः प्रक्रमात्प्रकृतार्थकम्। मुनय ऊचुः-। द्विविधन्तु सुखं तावत्पुत्रि लोके विभाव्यते
शरीरस्यास्य संयोगश्चेतसश्चापि निर्वृतिः। प्रकृत्या तु स दिग्वासा भीमो भस्मास्थिभूषणः
कपाली भिक्षुको नग्नो विरूपाक्षोऽस्थिरक्रियः। प्रमत्तोन्मत्तकाकारो बीभत्सो कृतसंग्रहः
पत्या न तेन चास्त्यर्थो मूर्तानर्थेन कांक्षितः। यदि स्वस्य शरीरस्य सुखमिच्छसि शाश्वतम्
तत्कथं ते महादेवाद्भूतभाजो जुगुप्सितात्। स्रवन्नरवसासास्थिकपालकृतभूषणात्
श्वसदुग्रभुजंगेन्द्रकृतभूषणभूषितात्। श्मशानवासिनो रौद्रप्रमथानुगतादपि
सुरेन्द्रमकुटव्रातनिघृष्टचरणोऽरिहा। हरिरस्ति जगद्धाता श्रीकान्तोऽनन्तमूर्तिमान्
जप्यो यज्ञभुजामस्ति तथेन्द्रः पाकशासनः। देवतानां निधिश्चास्ति ज्वलनस्सर्वकामधुक्
वायुरस्ति जगद्धाता यः प्राणस्सर्वदेहिनाम्। तथा वैश्रवणो राजा सर्वार्थमहिमा प्रभुः
एभ्य एकतमं कस्मान्न त्वं संप्राप्तुमिच्छसि। उतान्यस्मादिह प्राप्यं सुखं ते मनसे हितम्