इत्थं निशम्य भुवनाधिपतेस्तदानीं प्राक्पुण्यजन्मभव वैभव जातहर्षा । विश्वेश्वरं त्रिभुवनैकनिदानभूतं कृष्णंप्रणम्य वचनं निजगाद सत्या
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे सत्यापूर्वजन्मवर्णनंनामैकोननवतितमोऽध्यायः
सत्योवाच- सर्वेऽपि कालावयवास्तवकालस्वरूपिणः । समानास्तु कथं नाथ मासानां कार्तिको वरः
एकादशी तिथीनां च मासानां कार्त्तिकः प्रियः । कथं ते देवदेवेश कारणं किं च कथ्यताम्
श्रीकृष्ण उवाच- साधु पृष्टं त्वया सत्ये शृणुष्वैकाग्रमानसा । पृथोर्वैन्यस्य संवादं देवर्षेर्नारदस्य च
एवमेव पुरा पृष्टो नारदः पृथुना प्रिये । उवाच कार्त्तिकाधिक्ये कारणं सर्वविन्मुनिः
नारद उवाच- शंखनामाभवत्पूर्वमसुरः सागरात्मजः । त्रिलोकीमथने शक्तो महाबलपराक्रमः
जित्वा देवान्निराकृत्य स्वर्गलोकान्महासुरः । इंद्रादिलोकपालानामधिकारांस्तथाहरत्
तद्भयादथ ते देवाः सुवर्णाद्रिगुहां गताः । न्यवसन्बहुवर्षाणि सावरोधाः सवासवाः
सुवर्णाद्रि गुहादुर्गसंस्थितास्त्रिदशा यदा । तद्वश्या न बभूवुस्ते तदा दैत्यो व्यचारयत्
हृताधिकारास्त्रिदशा मया यद्यपि निर्जिताः । भवंति बलयुक्तास्ते करणीयं ममात्र किम्
अद्य ज्ञातं मया देवा वेदमंत्रबलान्विताः । तान्हरिष्ये ततः सर्वे बलहीना भवंति हि
इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितम् । सत्यलोकाज्जहाराशु वेदानां च गणं प्रभुः
नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन् । तोये निविविशुस्तेऽत्र यज्ञमंत्रसमन्विताः
तान्मार्गमाणः शंखोऽपि समुद्रांतर्गतो भ्रमन् । न ददर्श ततो दैत्यः क्वचिदेकत्र संस्थितान्
अथ ब्रह्मा सुरैः सार्द्धं विष्णुं शरणमन्वयात् । पूजोपकरणं गृह्य वैकुंठभवनं गतः
तत्र तस्य प्रबोधाय गीतवाद्यादिकाः क्रियाः । चक्रुर्देवा गंधपुष्पधूपदीपान्मुहुर्मुहुः
अथ प्रबुद्धो भगवांस्तद्भक्तिपरितोषितः । ददृशे तैः सुरैस्तत्र सहस्रार्कसमद्युतिः
उपचारैः षोडशभिः संपूज्य त्रिदशास्तदा । दंडवत्पतिता भूमौ तानुवाचाथ केशवः
विष्णुरुवाच- वरदोऽहं सुरगणा गीतवाद्यादि मंगलैः । मनोऽभिलषितान्कामान्सर्वानेव ददामि वः
इषस्य शुक्लैकादश्या यावदुद्बोधिनी भवेत् । निशातुर्यांशशेषेण गीतवाद्यादि मंगलैः
कुर्वंति मनुजा नित्यं भवद्भिर्यद्यथाकृतम् । ते मत्प्रियकरा नित्यं मत्सांनिध्यं व्रजंति हि
पाद्यार्घाचमनीयाद्यैर्भवद्भिर्यद्यथाकृतम् । तदद्भुतगुणं यस्माज्जातंवः सुखकारणम्
वेदाः शंखहृताः सर्वे तिष्ठंत्युदकसंस्थिताः । तानानयाम्यहं देवा हत्वा सागरनंदनम्
अद्यप्रभृति वेदास्तु मंत्रबीजमखान्विताः । प्रत्यब्दं कार्तिके मासि विश्रमंत्वप्सु सर्वदा
अद्यप्रभृत्यहमपि भवामि जलमध्यगः । भवंतोऽपि मया सार्द्धमायांतु समुनीश्वराः
कालेऽस्मिन्नेव कुर्वंति प्रातःस्नानं द्विजोत्तमाः । ते सर्वयज्ञावभृथैः सुस्नाताः स्युर्न संशयः
ये कार्तिके व्रतं सम्यङ्नित्यं कुर्वंति मानवाः । ते देहांते त्वया शक्र प्राप्या मद्भवनं सदा
विघ्नेभ्यो रक्षणं तेषां यया कार्यं ममाज्ञया । देया त्वया च वरुण पुत्रपौत्रादि संततिः
धनवृद्धिर्धनाध्यक्ष त्वया कार्या ममाज्ञया । ममरूपधराः साक्षाज्जीवन्मुक्ताश्च ते नराः