तमुवाच विभो पाहि पाहि पापर्द्धिकादथ । तपसा किं च धर्मेण मौनेन च जपेन च
भीतत्राणात्परं नान्यत्पुण्यमस्ति तपोधन । एवमुक्तवती भीता सालसांगी तपस्विनम्
तावत्प्राप्तः सदुष्टात्मा सर्वजीवप्रबंधकः । वृंदादेवी भयत्रस्ता हरिकंठे समाश्लिषत्
सुखस्पर्शं भुजाभ्यां सा शोकवल्लीव लिंगिता । तवालिंगनभावेन पुनरेव भविष्यति
शिरः सर्वांगसंपन्नं त्वद्भर्तुरधिकं गुणैः । अथ त्वं प्रमदे गच्छ पत्यर्थे चित्रशालिकाम्
सा चित्रशालामित्युक्ता विवेश मुनिना तदा । दिव्यपर्यंकमारूढा गृह्य कांतस्य तच्छिरः
चकाराधरपानं सा मीलिताक्ष्यतिलोलुपा । यावत्तावदभूद्राजन्रूपं जालंधराकृति
तत्कांतसदृशाकारस्तद्वक्षस्तद्वदुन्नतिः । तद्वाक्यस्तन्मनोभावस्तदासीज्जगदीश्वरः
अथ संपूर्णकायं तं प्रियं वीक्ष्य जगाद सा । तव कुर्वे प्रियं स्वामिन्ब्रूहि त्वं स्वरणं च मे
वृंदावचनमाकर्ण्य प्राह मायासमुद्रजः । शृणु देवि यथा युद्धं वृत्तं शंभोर्मया सह
प्रिये रुद्रेण रौद्रेण छिन्नं चक्रेण मे शिरः । तावत्वत्सिद्धियोगाच्च त्वद्गतेन ममात्मना
छिन्नं तदत्र चानीतं जीवितं तेंगसंगतः । प्रिये त्वं मद्वियोगेन बाले जातासि दुःखिता
क्षंतव्यं विप्रियं मह्यं यत्त्वां त्यक्त्वा रणं गतः । इत्यादि वचनैस्तेन वृंदा संस्मारिता तदा
तांबूलैश्च विनोदैश्च वस्त्रालंकरणैः शुभैः । अथ वृंदारिका देवी सर्वभोगसमन्विता
प्रियं गाढं समालिंग्य चुचुंब रतिलोलुपा । मोक्षादप्यधिकं सौख्यं वृंदा मोहनसंभवम्
मेने नारायणो देवो लक्ष्मीप्रेमरसाधिकम् । वृंदां वियोगजं दुःखं विनोदयति माधवे
तत्क्रीडाचारुविलसद्वापिका राजहंसके । तद्रूपभावात्कृष्णोऽसौ पद्मायां विगतस्पृहः
अभूद्वृंदावने तस्मिंस्तुलसीरूप धारिणी । वृंदांगस्वेदतो भूम्यां प्रादुर्भूताति पावनी
वृंदांग संगजं चेदमनुभूय सुंखं हरिः । दिनानि कतिचिन्मेने शिवकार्यं जगत्पतिः
एकदा सुरतस्यांते सा स्वकंठे तपस्विनम् । वृंदा ददर्श संलग्नं द्विभुजं पुरुषोत्तमम्
तं दृष्ट्वा प्राह सा कंठाद्विमुच्य भुजबंधनम् । कथं तापसरूपेण त्वं मां मोहितुमागतः
निशम्य वचनं तस्याः सांत्वयन्प्राह तां हरिः । शृणु वृंदारिके त्वं मां विद्धि लक्ष्मीमनोहरम्
तव भर्ता हरं जेतुं गौरीमानयितुं गतः । अहं शिवः शिवश्चाहं पृथक्त्वे न व्यवस्थितौ 6.15.
जालंधरो हतः संख्ये भज मामधुनानघे । नारद उवाच- इति विष्णोर्वचः श्रुत्वा विषण्णवदनाभवत् । ततो वृंदारिका राजन्कुपिता प्रत्युवाच ह
रणे बद्धोऽसि येन त्वं जीवन्मुक्तः पितुर्गिरा । विविधैः सत्कृतो रत्नैर्युक्तं तस्य हृता वधूः
पतिर्धर्मस्य यो नित्यं परदाररतः कथम् । ईश्वरोऽपि कृतं भुंक्ते कर्मेत्याहुर्मनीषिणः
अहं मोहं यथानीता त्वया माया तपस्विना । तथा तव वधूं माया तपस्वीकोऽपि नेष्यति
इति शप्तस्तथा विष्णुर्जगामादृश्यतां क्षणात् । सा चित्रशालापर्यंकः स च तेऽथप्लवंगमाः
नष्टं सर्वं हरौ याते वनं शून्यं विलोक्य सा । वृंदा प्राह सखीं प्राप्य जिह्मं तद्विष्णुना कृतम्
त्यक्तं पुरं गतं राज्यं कांतः संदेहतां गतः । अहं वने विदित्वैतत्क्व यामि विधिनिर्मिता