न रूपेणेदृशी लोके रम्येषु वनसानुषु। कौतुकेन परामृष्टस्तां दृष्ट्वा रुदतीं गिरिः
उपसृप्य ततस्तस्या निकटं सोप्यपृच्छत। हिमवानुवाच-। कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि
नैतदल्पमहं मन्ये कारणं लोकसुंदरि। सा तस्य वचनं श्रुत्वा उवाच मधुना सह
रुदंती शोकवचनं श्वसंती दैन्यवर्धनं। रतिरुवाच-। कामस्य दयितां भार्यां रतिं मां विद्धि सुव्रत
गिरावस्मिंश्च भगवान्गिरिशस्तपसि स्थितः। तेन प्रत्यूहरुष्टेन क्रोधाद्विस्फार्य लोचनं
विमुच्याग्निशिखाज्वालां कामो भस्मावशेषितः। अहं तु शरणं याता तं देवं भयविह्वला
स्तुतवत्यथ संतुष्टस्ततो मां गिरिशोऽब्रवीत्। तुष्टोहं कामदयिते कामोत्पत्तिर्भविष्यति
त्वत्स्तुतिं चाप्यधीयानो नरो भक्त्या मदाश्रयः। लप्स्यते कांक्षितं कामं निवर्तमरणादपि
प्रतीक्षमाणा तद्वाक्यमाशावेशवशादहं। शरीरं परिरक्षिष्ये किंचित्कालं महाद्युते
इत्युक्तस्तु तया रत्या शैलः संभ्रमभीषणः। पाणावादाय तनयां गंतुमैच्छत्स्वकं पुरं
भाविनोऽवश्यभावित्वाद्भवित्री भूतभाविनी। लज्जमाना सखिमुखैरुवाच पितरं गिरिं
शैलपुत्र्युवाच-। दुर्भगेन शरीरेण किं ममानेन कारणं। कथं च तां दशां प्राप्तश्शङ्करो मे पतिर्भवेत्
तपोभिः प्राप्यतेभीष्टं नासाध्यं तु तपस्यतः। दुर्भगत्वं वृथा लोके विहिते सति साधने
तपसि भ्रष्टसंदेहा ततः स्वार्थजिगीषया। एवं तपः करिष्येहं यामीत्युक्तवतीं सुताम्
उवाच वाचा शैलेंद्रो गद्गदस्वरवर्णया। हिमवानुवाच-। उमेति चापलं पुत्रि न क्षमं तावकं वपुः
सोढुं क्लेशानुरूपस्य तपसः सौम्यदर्शने। भावीन्यपि च कार्याणि पदार्थानि सदैव तु
भाविनोर्था भवंत्येव बहवोऽनिच्छतोपि हि। तस्मान्न तपसा तेस्ति बाले किंचित्प्रयोजनम्
भवनं चैव गच्छामि चिंतयिष्यामि तत्र वै। इत्युक्ता तु यदा नैव गृहमन्वेति शैलजा
ततोद्रिश्चिंतयाविष्टः स्वसुतां प्रशशंस च। ततोंतरिक्षे दिव्या च वागभूद्भुवनत्रये
उमेति चापलं पुत्रि त्वयोक्ता तनया यतः। उमेति नाम तेनास्या भुवनेषु भविष्यति
सिद्धिर्मूर्तिमती त्वेषा साधयिष्यति चिंतितम्। इति श्रुत्वा तु वचनं स तदाकाशमंडले
अनुज्ञाय सुतां शैलो जगामाशु स्वमंदिरम्। पुलस्त्य उवाच-। शैलजापि ययौ शैलमगम्यमपि दैवतैः
सखीभ्यामनुयाता तु नियता नगराजजा। शृंगं हिमवतः पुण्यं नानाधातुविभूषितम्
दिव्यपुष्पलताकीर्णं भ्रमरोद्घुष्टपादपम्। दिव्यप्रस्रवणोपेतं मनोरथशतोज्ज्वलम्
नानापक्षिसमायुक्तं चक्रवाकोपशोभितम्। जलजस्थलजैः पुण्यैः प्रफुल्लैरुपशोभितम्
चित्रकंदरसंगुह्यं दिव्यगेहसमन्वितम्। विहंगसंघसंघुष्टं कल्पपादपसंकटम्
तत्रापश्यन्महाशाखं शाखिनं हरितच्छदम्। सर्वर्तुकुसुमोपेतं चक्रवाकोपशोभितम्
नानापुष्पशताकीर्णं नानाविधफलान्वितम्। त्यक्तं सूर्यस्य रुचिभिर्भिन्नसंहतपल्लवम्
तत्रांबराणि संत्यज्य भूषणानि च शैलजा। संवीता वल्कलैर्दिव्यैर्दर्भनिर्मितमेखला
त्रिःस्नाता पाटलाहारा बभूव शरदां शतम्। शतमेकेन जीर्णेन पर्णेनावर्त्तयत्तदा